वामनपुराणम्/चतुर्दशोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

ऋषयऊचुः
अहिंसा सत्यमस्तेयं दानं क्षान्तिर्दमः शमः।
अकार्पण्यं च शौचं च तपश्च रजनीचर।। १४.१

दशाङ्गो राक्षसश्रेष्ठ धर्मोऽसौ सार्ववर्णिकः।
ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना।। १४.२

सुकेशिरुवाच
विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः।
आचक्षध्वं न मे तृप्तिः श्रृण्वतः प्रतिपद्यते।। १४.३

ऋषय ऊचुः
कृतोपनयनः सम्यग् ब्रह्मचारी गुरौ वसेत्।
तत्र धर्मोऽस्य यस्तं च कथ्यमानं निशामय।। १४.४

स्वाध्यायोऽथाग्निशुश्रूषा स्नानं भिक्षाटनं तथा।
गुरोर्निंवेद्य तच्चाद्यमनुज्ञातेन सर्वदा।। १४.५

गुरोः कर्मणि सोद्योगः सम्यक्प्रीत्युपपादनम्।
तेनाहूतः पठेच्चैव तत्परो नान्यमानसः।। १४.६

एकं द्वौ सकलान् वापि वेदान् प्राप्य सुरोर्मुखात्।
अनुज्ञातो वरं दत्त्वा गुरवे दक्षिणां ततः।। १४.७

गार्हस्थ्याश्रमकामस्तु गार्हस्थ्याश्रममावसेत्।
वानप्रस्थाश्रमं वाऽपि चतुर्थं स्वेच्छयात्मनः।। १४.८

तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात्।
गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना।। १४.९

शुश्रूषन् निरभीमानो ब्रह्मचर्याश्रमं वसेत्।
एवं जयति मृत्युं स द्विजः शालकटङ्कट।। १४.१०

उपावृत्तस्ततस्तस्माद् गृहस्थाश्रमकाम्यया।
असमानर्षिकुलजां कन्यामुद्वहेद् निशाचर।। १४.११

स्वकर्मणा धनं लब्ध्वा पितृदेवातिथीनपि।
सम्यक् संप्रीणयेद् भक्त्या सदाचाररतो द्विजः।। १४.१२

सदाचारो निगदितो युष्माभिर्मम सुव्रताः।
लक्षणं श्रोतुमिच्छामि कथयध्वं तमद्य मे।। १४.१३

ऋषय ऊचुः
सदाचारो निगदितस्तव योऽस्माभिरादरात्।
लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर।। १४.१४

गृहस्थेन सदा कार्यमाचारपरिपालनम्।
न ह्याचारविहीनस्य भद्रमत्र परत्र च।। १४.१५

यज्ञदानतपांसीह पुरुषस्य न भूतये।
भवन्ति यः समुल्लङ्घ्य सदाचारं प्रवर्तते।। १४.१६

हुराचारो हि पुरुषो नेह नामुत्र नन्दते।
कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम्।। १४.१७

तस्य स्वरूपं वक्ष्यामः सदाचारस्य राक्षस।
श्रृणुष्वैकमनास्तच्च यदि श्रेयोऽभिवाञ्छसि।। १४.१८

धर्मोऽस्य मूलं धनमस्य शाखा पुष्पं च कामः फलमस्य मोक्षः।
असौ सदाचारतरुः सुकेशिन् संसेवितो येन स पुण्यभोक्त।। १४.१९

ब्रह्मो मुहूर्ते प्रथमं विबुध्येदनुस्मरेद् देववरान् महर्षिन्।
प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः।। १४.२०

सुकेशिरुवाच
किं तदुक्तं सुप्रभातं शंकरेण महात्मना।
प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात्।। १४.२१

ऋषय ऊचुः
श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम्।
श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते।। १४.२२

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च।
गुरुश्च शुक्रः सह भानुजेन कुर्वन्तु सर्वे मम सुप्रभातम्।। १४.२३

भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहः सगौतमः।
रैभ्यो मरीचिश्च्यवनो ऋभुश्च कुर्वन्तु सर्वे मम सुप्रभातम्।। १४.२४

सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च।
सप्त स्वराः सप्त रसातलाश्च कुर्वन्तु सर्वे मम सुप्रभातम्।। १४.२५

पृथ्वी सगन्धा सरसास्तथाऽऽपः स्पर्शश्च वायुर्ज्वलनः सतेजाः।
नभः सशब्दं महता सहैव यच्छन्तु सर्वे मम सुप्रभातम्।। १४.२६

सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवराश्च सप्त।
भूरादि कृत्वा भुवनानि सप्त ददन्तु सर्वे मम सुप्रभातम्।। १४.२७

इत्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा श्रृणुयाच्च भक्त्या।
दुःस्वप्ननाशोऽनघ सुप्रभातं भवेच्च सत्यं भगवत्प्रसादात्।। १४.२८

ततः समुत्थाय विचिन्तयेन धर्मं तथार्थं च विहाय शय्याम्।
उत्थाय पश्चाद्धरिरित्युदीर्य गच्छेत् तदोत्सर्गविधिं हि कर्तुम्।। १४.२९

न देवगोब्राह्मणवह्निमार्गे न राजमार्गे न चतुष्पथे च।
कुर्यादथोत्सर्गमपीह गोष्ठे पूर्वापरां चैव समाश्रितो गाम्।। १४.३०

ततस्तु शौचार्थमुपाहरेन्मृदं गुदे त्रयं पाणितले च सप्त।
तथोभयोः पञ्च चतुस्तथैकां लिङ्गे तथैकां मृदमाहरेत।। १४.३१

नान्तर्जलाद्राक्षस मूषिकस्थलात् शौचावशिष्टा शरणात् तथान्या।
वल्मीकमृच्चैव हि शौचनाय ग्राह्य सदाचारविदा नरेण।। १४.३२

उदङ्मुखः प्राङ्मुखो वापि विद्वान् प्रक्षाल्य पादौ भुवि संनिविष्टः।
समाचमेदद्भिरफेनिलाभिरादौ परिमृज्य मुखं द्विरद्भिः।। १४.३३

ततः स्पृशेत्खानि शिरः करेण संध्यामुपासीत ततः क्रमेण।
केशांस्तु संशोध्य च दन्तधावनं कृत्वा तथा दर्पणदर्शनं च।। १४.३४

कृत्वा शिरःस्नानमथाङ्गिकं वा संपूज्य तोयेन पितॄन् सदेवान्।
होमं च कृत्वालभनं शुभानां कृत्वा बहिर्निर्गमनं प्रशस्तम्।। १४.३५

दूर्वादधिसर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम्।
मृद्गोमयं स्वस्तिकमक्षतानि लाजामधु ब्राह्मणकन्यकां च।। १४.३६

श्वेतानि पुष्पाण्यथ शोभनानि हुताशनं चन्दनमर्कबिम्बम्।
अश्वत्थवृक्षं च समालभेत ततस्तु कुर्यान्निजजातिधर्मम्।। १४.३७

देशानुशिष्टं कुल धर्ममग्र्यं स्वगोत्रधर्मं न हि संत्यजेत।
तेनार्थसिद्धिं समुपाचरेत नासत्प्रलापं न च सत्यहीनम्।। १४.३८

न निष्ठुरं नागमशास्त्रहीनं वाक्यं वदेत्साधुजनेन येन।
निन्द्यो भवेन्नैव च धर्मभेदी संगं न चासत्सु नरेषु कुर्यात्।। १४.३९

संध्यासु वर्ज्यं सुरतं दिवा च सर्वासु योनीषु पराबलासु।
आगारशून्येषु महीतलेषु रजस्वलास्वेव जलेषु वीर।। १४.४०

वृथाऽटनं वृथा दानं वृथा च पशुमारणम्।
न कर्त्तव्यं गृहस्थेन वृता दारपरिग्रहम्।। १४.४१

वृथाऽटनान्नित्यहानिर्वृथा दानाद्धनक्षयः।
वृथा पशुघ्नः प्राप्नोति पातकं नरकप्रदम्।। १४.४२

संतत्या हानिरश्लाघ्या वर्णसंकरतो भयम्।
भेतव्यं च भवेल्लोके वृथादारपरिग्रहात्।। १४.४३

परस्वे परदारे च न कार्या बुद्धिरुत्तमैः।
परस्वं नरकायैव परदाराश्च मृत्यवे।। १४.४४

नेक्षेत् परस्त्रियं नग्नां न संभाषेन तस्करान्।
उद्क्यादर्शनं स्पर्शं संभाषं च विवर्जयेत्।। १४.४५

नैकासने तथा स्थेयं सोदर्या परजायया।
तथैव स्यान्न मातुश्च तथा स्वदुहितुस्त्वपि।। १४.४६

न च स्नायीत वै नग्नो न शयीत कदाचन।
दिग्वाससोऽपि न तथा परिभ्रमणमिष्यते।।
भिन्नासनभाजनादीन् दूरतः परिवर्जयेत्।। १४.४७

नन्दासु नाभ्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम्।
पूर्णासु योषित्परिवर्जयेत भद्रासु सर्वाणि समाचरेत।। १४.४८

नाभ्यङ्गमर्के न च भूमिपुत्रे क्षौरं च शुक्रे रविजे च मांसम्।
बुधेषु योषिन्न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात्।। १४.४९

चित्रासु हस्ते श्रवणे च तैलं क्षौरं विशाखास्वभिजित्सुवर्ज्यम्।
मूले मृगे भाद्रपदासु मांसं योषिन्मघा कृत्तिकयोत्तरासु।। १४.५०

सदैव वर्ज्यं शयनमुदक्शिरासु तथा प्रतीच्यां रजनीचरेश।
भुञ्जीत नैवेह च दक्षिणामुखो न च प्रतीच्यामभिभोजनीयम्।। १४.५१

देवालयं चैत्यतरुं चतुष्पथं विद्याधिकं चापि गुरुं प्रदक्षिणम्।
माल्यान्नपानं वसनानि यत्नतो नान्यैर्धृतांश्चापि हि धारयेद् बुधः।। १४.५२

स्नायाच्छिरःस्नानतया च नित्यं न कारणं चैव विना निशासु।
ग्रहोपरागे स्वजनापयाते मुक्त्वा च जन्मर्क्षगते शशाङ्के।। १४.५३

नाभ्यङ्गितं कायमुपस्पृशेच्च स्नातो न केशान् विधुनीत चापि।
गात्राणि चैवाम्बरपाणिना च स्नातो विमृज्याद् रजनीचरेश।। १४.५४

वसेच्च देशेषु सुराजकेषु सुसंहितेष्वेव जनेषु नित्यम्।
अक्रोधना न्यायपरा अमत्सराः कृषीवला ह्योषधयश्च यत्र।। १४.५५

न तेषु देशेषु वसेत बुद्धिमान् सदा नृपो दण्डरुचिस्त्वशक्तः।
जनोऽपि नित्योत्सवबद्धवैरः सदा जिगीषुश्च निशाचरेन्द्र।। १४.५६

इति श्रीवामनपुराणे चतुर्दशोऽध्यायः ।। १४ ।।