वामनपुराणम्/नवचत्वारिंशात्तमोऽध्यायः
मार्कण्डेय उवाच
चतुर्मुखानामुत्पत्तिं विस्तरेण ममानघ
तथा ब्रह्मेश्वराणां च श्रोतुमिच्छा प्रवर्तते १
सनत्कुमार उवाच
शृणु सर्वमशेषेण कथयिष्यामि तेऽनघ
ब्रह्मणः स्रष्टुकामस्य यद्वृत्तं पद्मजन्मनः २
उत्पन्न एव भगवान् ब्रह्मा लोकपितामहः
ससर्ज सर्वभूतानि स्थावराणि चराणि च ३
पुनश्चिन्तयतः सृष्टिं जज्ञे कन्या मनोरमा
नीलोत्पलदलश्यामा तनुमध्या सुलोचना ४
तां दृष्ट्वाभिमतां ब्रह्मा मैथुनायाजुहाव ताम्
तेन पापेन महता शिरोऽशीर्यत वेधसः ५
तेन शीर्णेन स ययौ तीर्थं त्रैलोक्यविश्रुतम्
सान्निहत्यं सरः पुण्यं सर्वपापक्षयावहम् ६
तत्र पुण्ये स्थाणुतीर्थे ऋषिसिद्धनिषेविते
सरस्वत्युत्तरे तीरे प्रतिष्ठाप्य चतुर्मुखम् ७
आराधयामास तदा धूपैर्गन्धैर्मनोरमैः
उपहारैस्तथा हृद्यै रौद्र सूक्तैर्दिने दिने ८
तस्यैवं भक्तियुक्तस्य शिवपूजापरस्य च
स्वयमेवाजगामाथ भगवान् नीललोहितः ९
तमागतं शिवं दृष्ट्वा ब्रह्मा लोकपितामहः
प्रणम्य शिरसा भूमौ स्तुतिं तस्य चकार ह १०
ब्रह्मोवाच
नमस्तेऽस्तु महादेव भूतभव्य भवाश्रय
नमस्ते स्तुतिनित्याय नमस्त्रैलोक्यपालिने ११
नमः पवित्रदेहाय सर्वकल्मषनाशिने
चराचरगुरो गुह्यगुह्यानां च प्रकाशकृत् १२
रोगा न यान्ति भिषजैः सर्वरोगविनाशन
रौरवाजिनसंवीत वीतशोक नमोऽस्तु ते १३
वारिकल्लोलसंक्षुब्धमहाबुद्धिविघट्टिने
त्वन्नामजापिनो देव न भवन्ति भवाश्रयाः १४
नमस्ते नित्यनित्याय नमस्त्रैलोक्यपालन
शंकरायाप्रमेयाय व्याधीनां शमनाय च १५
परायापरिमेयाय सर्वभूतप्रियाय च
योगेश्वराय देवाय सर्वपापक्षयाय च १६
नमः स्थाणवे सिद्धाय सिद्धवन्दिस्तुताय च
भूतसंसारदुर्गाय विश्वरूपाय ते नमः १७
फणीन्द्रो क्तमहिम्ने ते फणीन्द्रा ङ्गदधारिणे
फणीन्द्र वरहाराय भास्कराय नमो नमः १८
एवं स्तुतो महादेवो ब्रह्माणं प्राह शंकरः
न च मन्युस्त्वया कार्यो भाविन्यर्थे कदाचन १९
पुरा वराहकल्पे ते यन्मयाऽपहृतं शिरः
चतुर्मुखं च तदभून्न कदाचिन्नशिष्यति २०
अस्मिन् सान्निहिते तीर्थे लिङ्गानि मम भक्तितः
प्रतिष्ठाय विमुक्तस्त्वं सर्वपापैर्भविष्यसि
सृष्टिकामेन च पुरा त्वयाऽहं प्रेरितः किल
तेनाहं त्वां तथेत्युक्त्वा भूतानां देशवर्त्तिवत् २२
दीर्घकालं तपस्तप्त्वा मग्नः संनिहितो स्थितः
सुमहान्तं ततः कालं त्वं प्रतीक्षां ममाकरोः २३
स्रष्टारं सर्वभूतानां मनसा कल्पितं त्वया
सोऽब्रवीत्त्वां तदा दृष्ट्वा मां मग्नं तत्र चाम्भसि २४
यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः
त्वयैवोक्तश्च नैवास्ति त्वदन्यः पुरुषोऽग्रजः २५
स्थाणुरेष जले मग्नो विवशः कुरु मद्धितम्
स सर्वभूतानसृजद्दक्षादींश्च प्रजापतीन् २६
यैरिमं प्रकरोत्सर्वं भूतग्रामं चतुर्विधम्
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् २७
बिभक्षयिषवो ब्रह्मन् सहसा प्राद्र वंस्तथा
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्र वत् २८
अथासां च महावृत्तिः प्रजानां संविधीयताम्
दत्तं ताभ्यस्त्वया ह्यन्नं स्थावराणां महौषधीः २९
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्
विहितान्नाः प्रजाः सर्वाः पुनर्जग्मुर्यथागतम् ३०
ततो ववृधिरे सर्वाः प्रीतियुक्ताः परस्परम्
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरौ त्वयि ३१
समुत्तिष्ठन् जलात्तस्मात्प्रजाः संदृष्टवानहम्
ततोऽहं ताः प्रजा दृष्ट्वा विहिताः स्वेन तेजसा ३२
क्रोधेन महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम्
तत् क्षिप्तं सरसो मध्ये ऊर्ध्वमेव यदा स्थितम् ३३
तदा प्रभृति लोकेषु स्थाणुरित्येष विश्रुतः
सकृद्दर्शनमात्रेण विमुक्तः सर्वकिल्बिषैः ३४
प्रयाति मोक्षं परमं यस्मान्नावर्तते पुनः
यश्चेह तीर्थे निवसेत्कृष्णाष्टम्यां समाहितः ३५
स मुक्तः पातकैः सर्वैरगम्यागमनोद्भवैः
इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ३६
ब्रह्मा विशुद्धपापस्तु पूज्य देवं चतुर्मुखम्
लिङ्गानि देवदेवस्य ससृजे सरमध्यतः ३७
आद्यं ब्रह्मसरः पुण्यं हरिपार्श्वे प्रतिष्ठितम्
द्वितीयं ब्रह्मसदनं स्वकीये ह्याश्रमे कृतम् ३८
तस्यैव पूर्वदिग्भागे तृतीयं च प्रतिष्ठितम्
चतुर्थं ब्रह्मणा लिङ्गं सरस्वत्यास्तटे कृतम् ३९
एतानि ब्रह्मतीर्थानि पुण्यानि पावनानि च
ये पश्यन्ति निराहारास्ते यान्ति परमां गतिम् ४०
कृते युगे हरेः पार्श्वे त्रेतायां ब्रह्मणाश्रमे
द्वापरे तस्य पूर्वेण सरस्वत्यास्तटे कलौ ४१
एतानि पूजयित्वा च दृष्ट्वा भक्तिसमन्विताः
विमुक्ताः कलुषैः सर्वैः प्रयान्ति परमां गतिम् ४२
सृष्टिकाले भगवता पूजितस्तु महेश्वरः
सरस्वत्युत्तरे तीरे नाम्ना ख्यातश्चतुर्मुखः ४३
तं प्रणम्य श्रद्दधानो मुच्यते सर्वकिल्बिषैः
लोलासंकरसंभूतैस्तथा वैभाण्डसंकरैः ४४
तथैव द्वापरे प्राप्ते स्वाश्रमे पूज्य शंकरम्
विमुक्तो राजसैर्भावैर्वर्णसंकरसंभवैः ४५
ततः कृष्णचतुर्दश्यां पूजयित्वा तु मानवः
विमुक्तः पातकैः सर्वैरभोज्यस्यान्नसंभवैः ४६
कलिकाले तु संप्राप्ते वसिष्ठाश्रममास्थितः
चतुर्मुखं स्थापयित्वा ययौ सिद्धिमनुत्तमाम् ४७
तत्रापि ये निराहाराः श्रद्दधाना जितेन्द्रि याः
पूजयन्ति महादेवं ते यान्ति परमं पदम् ४८
इत्येतत्स्थाणुतीर्थस्य माहात्म्यं कीर्त्तितं तव
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ४९
इति श्रीवामनपुराणे सरोमाहात्म्ये नवचत्वारिंशात्तमोऽध्यायः
समाप्तं सरोमाहात्म्यम्