सामग्री पर जाएँ

वामनपुराणम्/द्वाविंशतितमोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः


देवदेव उवाच
तस्यां तपत्यां नरसत्तमेन जातः सुतः पार्थिवलक्षणस्तु।
स जातकर्मादिभिरेव संस्कृतो विवर्द्धताज्येन हुतो यथाऽग्निः।। २२.१
कृतोऽस्य चूडाकरणश्च देवा विप्रेण मित्रावरुणात्मजेन।
नवाब्दिकस्य व्रतबन्धनं च वेदे च शास्त्रे विधिपारगोऽभूत्।। २२.२
ततश्चतुःषड्भिरपीह वर्षैः सर्वज्ञतामभ्यगमत् ततोऽसौ।
ख्यातः पृथिव्यां पुरुषोत्तमोऽसौ नाम्ना कुरुः संवरणस्य पुत्रः।। २२.३
ततो नरपतिर्दृष्ट्वा धार्मिकं तनयं शुभम्।
दारक्रियार्थमकरोद् यत्नं शुभकुले ततः।। २२.४
सौदामिनीं सुदाम्नस्तु सुतां रूपाधिकां नृपः।
कुरोरर्थाय वृतवान् स प्रादात् कुरवेऽपि ताम्।। २२.५
स तां नृपसुतां लब्ध्वा धर्मार्थावविरोधयन्।
रेमे तन्व्या सह तया पौलोम्या मघवानिव।। २२.६
ततो नरपतिः पुत्रं राज्यभारक्षमं बली।
विदित्वा यौवराज्याय विधानेनाभ्यषेचयत्।। २२.७
ततो राज्येऽभिषिक्तस्तु कुरुः पित्रा निजे पदे।
पालयामास स महीं पुत्रवच्च स्वयं प्रजाः।। २२.८
स एव क्षेत्रपालोऽभूत् पशुपालः स एव हि।
स सर्वपालकश्चासीत् प्रजापालो महाबलः।। २२.९
ततोऽस्य बुद्धिरुत्पन्ना कीर्तिर्लोके गरीयसी।
यावत्कीर्तिः सुसंस्था हि तावद्वासः सुरैः सह।। २२.१०
स त्वेवं नृपतिश्रेष्ठो याथातथ्यमवेक्ष्य च।
विचचार महीं सर्वां कीर्त्यर्थं तु नराधिपः।। २२.११
ततो द्वैतवनं नाम पुण्यं लोकेश्वरो बली।।
तदासाद्य सुसंतुष्टो विवेशाभ्यान्तरं ततः।। २२.१२
तत्र देवीं ददर्शाथ पुण्यां पापविमोचनीम्।
प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम्।। २२.१३
सुदर्शनस्य जननीं ह्रदं कृत्वा सुविस्तरम्।
स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम्।। २२.१४
तस्यास्तज्जलमीक्ष्यैव स्नात्वा प्रीतोऽभवन्नृपः।
समाजगाम च पुनः ब्रह्मणो वेदिमुत्तराम्।। २२.१५
समन्तपञ्चकं नाम धर्मस्थानमनुत्तमम्।
आसमन्ताद् योजनानि पञ्च पञ्च च सर्वतः।। २२.१६
देवा ऊचुः
कियन्त्यो वेदयः सन्ति ब्रह्मणः पुरुषोत्तम।
येनोत्तरतया वेदिर्गदिता सर्वपञ्चका।। २२.१७
देवदेव उवाच
वेदयो लोकनाथस्य पञ्च धर्मस्य सेतवः।
यासु यष्टं सुरेशेन लोकनाथेन शंभुना।। २२.१८
प्रयागो मध्यमा वेदिः पूर्वा वेदिर्गयाशिरः।
विरजा दक्षिणा वेदिरनन्तफलदायिनी।। २२.१९
प्रतीची पुष्करा वेदिस्त्रिभिः कुण्डैरलंकृता।
समन्तपञ्चका चोक्ता वेदिरेवोत्तराऽव्यया।। २२.२०
तममन्यत राजर्षिरिदं क्षेत्रं महाफलम्।
करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान्।। २२.२१
इति संचिन्त्य मनसा त्यक्त्वा स्यन्दनमुत्तमम्।
चक्रे कीर्त्यर्थमतुलं संस्थानं पार्थिवर्षभः।। २२.२२
कृत्वा सीरं स सौवर्णं गृह्य रुद्रवृषं प्रभुः।
पौण्ड्रकं याम्यमहिषं स्वयं कर्षितुमुद्यतः।। २२.२३
तं कर्षन्तं नरवरं समभ्येत्य शतक्रतुः।
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः।। २२.२४
तं कर्षन्तं नरवरं समभ्येत्य शतक्रतुः।
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः।। २२.२५
राजाऽब्रवीत् सुरवरं तपः सत्यं क्षमां दयाम्।
कृषामि शौचं दानं च योगं च ब्रह्मचारिताम्।। २२.२६
तस्योवाच हरिर्देवः कस्माद्‌बीजो नरेश्वर।
लब्धोऽष्टाङ्गेति सहसा अवहस्य गतस्ततः।। २२.२७
गतेऽपि शक्र राजर्षिरहन्यहनि सीरधृक्।
कृषतेऽन्यान् समन्ताच्च सप्तक्रोशान् महीपतिः।। २२.२८
ततोऽहमब्रुवं गत्वा कुरो किमिदमित्यथ।
तदाऽष्टाङ्गं महाधर्मं समाख्यातं नृपेण हि।। २२.२९
ततो मयाऽस्य गदितं नृप बीजं क्व तिष्ठति।
स चाह मम देहस्थं बीजं तमहमब्रुवम्।
देह्यहं वापयिष्यामि सीरं कृषतु वै भवान्।। २२.३०
ततो नृपतिना बाहुर्दक्षिणः प्रसृतः कृतः।
प्रसृतं तं भुजं दृष्ट्वा मया चक्रेण वेगतः।। २२.३१
सहस्रधा ततश्छिद्य दत्तो युष्माकमेव हि।
ततः सव्यो भुजो राज्ञा दत्तश्छिन्नोऽप्यसौ मया।। २२.३२
तथैवोरुयुगं प्रादान्मया छिन्नौ च तावुभौ।
ततः स मे शिरः प्रादात् तेन प्रीतोऽस्मि तस्य च।
वरदोऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत।। २२.३३
यावदेतन्मया कृष्टं धर्मक्षेत्रं तदस्तु च।
स्नातानां च मृतानां च महापुण्यफलं त्विह।। २२.३४
उपवासं च दानं च स्नानं जप्यं च माधव।
होमयज्ञादिकं चान्यच्छुभं वाप्यशुभं विभो।। २२.३५
त्वत्प्रसादात् हृषीकेश शङ्खचक्रगदाधर।
अक्षयं प्रवरे क्षेत्रे भवत्वत्र महाफलम्।। २२.३६
तथा भवान् सुरैः सार्धं समं देवेन शलिना।
वस त्वं पुण्डरीकाक्ष मन्नामव्यञ्जकेऽच्युत।
इत्येवमुक्तस्तेनाहं राज्ञा बाढमुवाच तम्।। २२.३७
तथा च त्वं दिव्यवपुर्भव भूयो महीपते।
तथाऽन्तकाले मामेव लयमेष्यसि सुव्रत।। २२.३८
कीर्तिश्च शाश्वती तुभ्यं भविष्यति न संशयः।
तत्रैव याजका यज्ञान् यजिष्यन्ति सहस्रशः।। २२.३९
तस्य क्षेत्रस्य रक्षार्थं ददौ स पुरुषोत्तमः।
यक्षं च चन्द्रनामानं वासुकिं चापि पन्नगम्।। २२.४०
विद्याधरं शङ्कुकर्णं सुकेशिं राक्षसेश्वरम्।
अजावनं च नृपतिं महादेवं च पावकम्।। २२.४१
एतानि सर्वतोऽभ्येत्य रक्षन्ति कुरुजाङ्गलम्।
अमीषां बलिनोऽन्ये च भृत्याश्चैवानुयायिनः।। २२.४२
अष्टौ सहस्राणि धनुर्धराणां ये वारयन्तीह सुदुष्कृतान् वै।
स्नातुं न यच्छन्ति महोग्ररूपास्त्वन्यस्य भूताः सचराचराणाम्।। २२.४३
तस्यैव मध्ये बहुपुण्य उक्तः पृथूदकः पापहरः शिवश्च।
पुण्या नदी प्राङ्मुखतां प्रयाता यत्रौघयुक्तस्य शुभा जलाढ्या।। २२.४४
पूर्वं प्रजेयं प्रपितामहेन सृष्टा समं भूतगणैः समस्तैः।
मही जलं वह्निसमीरमेव खं त्वेवमादौ विबभौ पृथूदकः।। २२.४५
तथा च सर्वाणि महार्णवानि तीर्थानि नद्यः स्रवणाः सरांसि।
संनिर्मितानीह महाभुजेन तच्चैक्यमागात् सलिलं महीषु।। २२.४६
सरोमाहात्म्यम्
देवदेव उवाच
सरस्वतीदृषद्वत्योरन्तरे कुरुजाङ्गले
मुनिप्रवरमासीनं पुराणं लोमहर्षणम्
अपृच्छन्त द्विजवराः प्रभावं सरसस्तदा ४७
प्रमाणं सरसो ब्रूहि तीर्थानां च विशेषतः
देवतानां च माहात्म्यमुत्पत्तिं वामनस्य च ४८
एतच्छ्रुत्वा वचस्तेषां रोमहर्षसमन्वितः
प्रणिपत्य पुराणर्षिरिदं वचनमब्रवीत् ४९
लोमहर्षण उवाच
ब्रह्मणमग्र्यं कमलासनस्थं विष्णुं तथा लक्ष्मिसमन्वितं च
रुद्रं च देवं प्रणिपत्य मूर्ध्ना तीर्थं महद् ब्रह्मसरः प्रवक्ष्ये ५०
रन्तुकादौजसं यावत् पावनाच्च चतुर्मुखम्
सरः संनिहितं प्रोक्तं ब्रह्मणा पूर्वमेव तु ५१
कलिद्वापरयोर्मध्ये व्यासेन च महात्मना
सरःप्रमाणं यत्प्रोक्तं तच्छृणुध्वं द्विजोत्तमाः ५२
विश्वेश्वरादस्थिपुरं तथा कन्या जरद्गवी
यावदोघवती प्रोक्ता तावत्संनिहितं सरः ५३
मया श्रुतं प्रमाणं यत् पठ्यमानं तु वामने
तच्छृणुध्वं द्विजश्रेष्ठाः पुण्यं वृद्धिकरं महत् ५४
विश्वेश्वराद् देववरा नृपावनात् सरस्वती
सरः संनिहितं ज्ञेयं समन्तादर्थयोजनम् ५५
एतदाश्रित्य देवाश्च ऋषयश्च समागताः
सेवन्ते मुक्तिकामार्थं स्वर्गार्थे चापरे स्थिताः ५६
ब्रह्मणा सेवितमिदं सृष्टिकामेन योगिना
विष्णुना स्थितिकामेन हरिरूपेण सेवितम् ५७
रुद्रेण च सरोमध्यं प्रविष्टेन महात्मना
सेव्य तीर्थं महातेजाः स्थाणुत्वं प्राप्तवान् हरः ५८
आद्यैषा ब्रह्मणो वेदिस्ततो रामहृदः स्मृतः
कुरुणा च यतः कृष्टं कुरुक्षेत्रं ततः स्मृतम् ५९
तरन्तुकारन्तुकयोर्यदन्तरं यदन्तरं रामहृदाच्चतुर्मुखम्
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ६०
इति श्रीवामनपुराणे सरोमाहात्म्ये द्वाविंशोऽध्यायः