वामनपुराणम्/सप्तषष्टितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
हरोऽपि शम्बरे याते समाहूयाथ नन्दिनम्।
प्राहामन्त्रय शैलादे ये स्थितास्तव शासने।। ६७.१

ततो महेशवचनान्नन्दी तूर्णतरं गतः।
उपस्पृश्य जलं श्रीमान् सस्मार गणनायकान्।। ६७.२

नन्दिना संस्मृताः सर्वे गणनाथाः सहस्रशः।
समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदसेश्वरम्।। ६७.३

आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः।
सर्वान् निवेदयामास शंकराय महात्मने।। ६७.४

नन्द्युवाच।।
यानेतान् पश्यसे शंभो त्रिनेत्राञ्जटिलाञ्शुचीन्।
एते रुद्रा इति ख्याताः कोट्य एकादशैव तु ।। ६७.५

वानरास्यान् पश्यसे यान् शार्दूलसमविक्रमान्।
एतेषां द्वारपालास्ते मन्नामानो यशोधनाः।। ६७.६

षण्मुखान् पश्यसे यांश्च शक्तिपाणीञ्शिखिध्वजान्।
षट् च षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमारकान्।। ६७.७

एतावत्यस्तथा कोट्य शाखा नाम षडाननाः।
विशाखास्तावदेवोक्ता नैगमेयाश्च शंकर।। ६७.८

सप्तकोटिशतं शंभो अमी वै प्रमथोत्तमाः।
एकैकं प्रति देवेश तावत्यो ह्यपि मातरः।। ६७.९

भस्मारुणितदेहाश्च त्रिनेत्राः शूलपाणयः।
एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः।। ६७.१०

तथा पाशुपताश्चान्ये भस्मप्रहरणा विभो।
एते गणास्त्वसंख्याताः सहायार्थं समागताः।। ६७.११

पिनाकधारिणो रौद्रा गणाः कालमुखापरे।
तव भक्ताः समायाता जटामण्डलिनोद्भुताः।। ६७.१२

खट्वाङ्गयोधिनो वीरा रक्तचर्मसमावृताः।
इमे प्राप्ता गणा योद्धुं महाव्रतिन उत्तमाः।। ६७.१३

दिग्वाससो मौनिनश्च घण्टाप्रहरणास्तथा।
निराश्रया नाम गणाः समायाता जगद्गुरो।। ६७.१४

सार्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः।
समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः।। ६७.१५

महापाशुपता नाम चक्रशूलधरास्तथा।
भैरवो विष्णुना सार्द्धमभेदेनार्चितो हि यैः।। ६७.१६

इमे मृगोन्द्रवदनाः शूलबाणधनुर्धराः।
गणास्त्वद्रोमसंभूता वीरभद्रपुरोगमाः।। ६७.१७

एते चान्ये च बहवः शतशोऽथ सहस्रशः।
सहायार्थं तवायाता यथाप्रीत्यादिशस्व तान्।। ६७.१८

ततोऽभ्येत्य गणाः सर्वे प्रणेमुर्वृषभध्वजम्।
तान् करेणैव भगवान् समाश्वास्योपवेशयत्।। ६७.१९

महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः।
संपरिष्वजताध्यक्षांस्ते प्रणेमुर्महेश्वरम्।। ६७.२०

ततस्तदद्भुततमं दृष्ट्वा सर्वे गणेश्वराः
सुचिरं विस्मिताक्षाश्च वैलक्ष्यमगमत् परम्।। ६७.२१

विस्मिताक्षान् गणान् दृष्ट्वा शैलदिर्योगिनां वरः।
प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपम्।। ६७.२२

विस्मितामी गणा देव सर्व एव महेश्वर।
महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम्।। ६७.२३

तदेतेषां महादेव स्फुटं त्रैलोक्यविन्दकम्।
रूपं ज्ञानं विवेकं च वदस्व स्वेच्छया विभो।। ६७.२४

प्रमथाधिपतेर्वाक्यं विदित्वा भूतभावनः।
बभाषे तान् गणान् सर्वान् भावाभावविचारिणः।। ६७.२५

रुद्र उवाच।।
भवद्भिर्भक्तिसंयुक्तैर्हरो भावेन पूजितः।
अहंकारविमूढैश्च निन्दद्भिर्वैष्णवं पदम्।। ६७.२६

तेनाज्ञानेन भवतो नादृत्यानुविरोधिताः।
योऽहं स भगवान् विष्णुर्विष्णुर्यः सोऽहमव्ययः।। ६७.२७

नावयोर्वै विशेषोऽस्ति एका मूर्तिर्द्विधा स्थिता।
तदमीभिर्नरव्याघ्रैर्भक्तिभावयुतैर्गणैः।। ६७.२८

यथाहं वै परिज्ञातो न भवद्भिस्तथा ध्रुवम्।
येनाहं निन्दितो नित्यं भवद्भिर्मूढबुद्धिभिः।। ६७.२९

तेन ज्ञानं हि वै नष्टं नातस्त्वालिङ्गिता मया।
इत्येवमुक्ते वचने गणाः प्रोचुर्महेश्वरम्।। ६७.३०

कथं भवान् यथैक्येन संस्थितोऽस्ति जनार्दनः।
भवान् हि निर्मलः शुद्धः शान्तः शुक्लो निरञ्जनः।। ६७.३१

स चाप्यञ्जनसंकाशः कथं तेनेह युज्यते।
तेषां वचनमर्थाढ्यं श्रुत्वा जीमूतवाहनः।। ६७.३२

विहस्य मेघगम्भीरं गणानिदमुवाच ह।
श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः।। ६७.३३

न त्वेव योग्या यूयं हि महाज्ञानस्य कर्हिचित्।
अपवादभयाद् गुह्यं भवतां हि प्रकाशये।। ६७.३४

प्रियध्वमपि चैतेन यन्मच्चित्तास्तु नित्यशः।
एकरूपात्मकं देहं कुरुध्वं यत्नमास्थिताः।। ६७.३५

पयसा हविषाद्यैश्च स्नापनेन प्रयत्नतः।
चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते।। ६७.३६

यत्नात् क्रकचमादाय छिन्दध्वं मम विग्रहम्।
नरकार्हा भवद्भक्ता रक्षामि स्वयशोऽर्थतः।। ६७.३७

माऽयं वदिष्यते लोको महान्तमपवादिनम्।
यथा पतन्ति नरके हरभक्तास्तपस्विनः।। ६७.३८

व्रजन्ति नरकं घोरं इत्येवं परिवादिनः।
अतोऽर्थं न क्षिपाम्यद्य भवतो नरकेऽद्भुते।। ६७.३९

यन्निन्दध्वं जगन्नाथं पुष्कराक्षं च मन्मयम्।
स चैव भगवान् शर्वः सर्वव्यापी गणेश्वरः।

न तस्य सदृशो लोके विद्यते सचराचरे।
श्वेतमूर्तिः स भगवान् पीतो रक्तोऽञ्जनप्रभः।। ६७.४०

न तस्य सदृशो लोके विद्यते सचराचरे।
श्वेतमूर्तिः स भगवान् पीतो रक्तोऽञ्जनप्रभः।। ६७.६७

तस्मात् परतरं लोके नान्यद् धर्म हि विद्यते।
सात्त्विकं राजसं चैव तामसं मिश्रकं तथा।
स एव धत्ते भगवान् सर्वपूज्यः सदाशिवः।। ६७.४२

शंकरस्य वचः श्रुत्वा शैवाद्या प्रमथोत्तमाः।
प्रत्यूचुर्भगवन् ब्रूहि सदाशिवविशेषणम्।। ६७.४३

तेषां तद् भाषितं श्रुत्वा प्रमथानामथेश्वरः।
दर्शयामास तद्रूपं सदाशैवं निरञ्जनम्।। ६७.४४

ततः पश्यन्ति हि गणाः तमीशं वै सहस्रशः।
सहस्रवक्त्रचरणं सहस्त्रभुजमीश्वरम्।। ६७.४५

दण्डपाणिं सुदुर्दृश्यं लोकैर्व्याप्तं समन्ततः।
दण्डसंस्थाऽस्य दृश्यन्ते देवप्रहरणास्तथा।। ६७.४६

तत एकमुखं भूयो ददृशुः शंकरं गणाः।
रौद्रैश्च वैष्णवैश्चैव वृतं चिह्नैः सहस्रशः।। ६७.४७

अर्द्धेन वैष्णववपुरर्द्धेन हरविग्रहः।
खगध्वजं वृषारूढं खगारूढं वृषध्वजम्।। ६७.४८

यथा यथा त्रिनयनो रूपं धत्ते गुणाग्रणीः।
तथा तथा त्वजायन्त महापाशुपता गणाः।। ६७.४९

ततोऽभवच्चैकरूपी शंकरो बहुरूपवान्।
द्विरूपश्चाभवद् योगी एकरूपोऽप्यरूपवान्।
क्षणाच्छ्वेतः क्षणाद् रक्तः पीतो नीलः क्षणादपि।। ६७.५०

मिश्रको वर्णहीनश्च महापाशुपतस्तथा।
क्षणाद् भवति रुद्रेन्द्रः क्षणाच्छंभुः प्रभाकरः।। ६७.५१

क्षणार्द्धाच्छंकरो विष्णुः क्षणाच्छर्वः पितामहः।
ततस्तदद्भुततमं दृष्ट्वा शैवादयो गणाः।। ६७.५२

अजानन्त तदैक्येन ब्रह्मविष्ण्वीशभास्करान्।
यदाऽभिन्नममन्यन्त देवेदेवं सदाशिवम्।। ६७.५३

तदा निर्धूतपापास्ते समजायन्त पार्षदाः।
तेष्वेवं धूतपापेषु अभिन्नेषु हरीश्वरः।। ६७.५४

प्रीतात्मा विबभौ शंभुः प्रीतियुक्तोऽब्रवीद् वचः।
परितुष्टोऽस्मि वः सर्वे ज्ञानेनानेन सुव्रताः।। ६७.५५

वृणुध्वं वरमानन्त्यं दास्ये वो मनसेप्सितम्।
ऊचुस्ते देहि भगवन् वरमस्माकमीश्वर।
भिन्नदृष्ट्युद्भवं पापं यत्तद् भ्रंशं प्रयातु नः।। ६७.५६

पुलस्त्य उवाच।।
बाढमित्यब्रवीच्छर्वश्चक्रे निर्धूतकल्मषान्।
संपरिष्वजताव्यक्तस्तान् सर्वान् गणयूथपान्।। ६७.५७

इति विभुना प्रणतार्तिहरेण गणपतयो वृषमेघरथेन।
श्रुतिगदितानुगमेनेव मन्दरं गिरिमवतत्य समध्यवसन्तम्।। ६७.५८

आच्छादितो गिरिवरः प्रमथैर्घनाभै राभाति शुक्लतनुरीश्वरपादजुष्टः।
नीलाजिनातततनुः शरदभ्रवर्णो यद्वद् विभाति बलवान् वृषभो हरस्य।। ६७.५९

इति श्रीवामनपुराणे एकचत्वारिशोऽध्यायः ।।