वामनपुराणम्/पञ्चदशोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच
ततः सुकेशिर्देवर्षे गत्वा स्वपुरमुत्तमम्।
समाहूयाब्रवीत् सर्वान् राक्षसान् धार्मिकं वचः।। १५.१

अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः।
दानं दया च क्षान्तिश्व ब्रह्मचर्यममानिता।। १५.२

शुभा सत्या च मधुरा वाङ् नित्यं सत्क्रिया रतिः।
सदाचारनिषेवित्वं परलोकप्रदायकाः।। १५.३

इत्यूचुर्मुनयो मह्यं धर्ममाद्यं पुरातनम्।
सोहमाज्ञापये सर्वान् क्रियतामविकल्पतः।। १५.४

पुलस्त्य उवाच
ततः सुकेशिवचनात् सर्व एव निशाचराः।
त्रयोदशाङ्गं ते धर्म चक्रुर्मुदितमानसाः।। १५.५

ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः।
पुत्रपौत्रार्थसंयुक्ताः सदाचारसमन्विताः।। १५.६

तज्ज्योतिस्तेजसस्तेषां राक्षसानां महात्मनाम्।
गन्तुं नाशक्नुवन् सूर्यो नक्षत्राणि न चन्द्रमाः।। १५.७

ततस्त्रिभुवने ब्रह्मन् निशाचरपुरोऽभवत्।
दिवा चन्द्रस्य सदृशः क्षणदायां च सूर्यवत्।। १५.८

न ज्ञायते गतिर्व्योम्नि भास्करस्य ततोऽम्बरे।
शशङ्कमिति तेजस्त्वादमन्यन्त पुरोत्तमम्।। १५.९

स्वं विकासं विमुञ्चन्ति निशामिति व्यचिन्तयन्।
कमलाकरेषु कमला मित्रमित्यवगम्य हि।
रात्रौ विकसिता ब्रह्मन् विभूतिं दातुमीप्सवः।। १५.१०

कौशिका रात्रिसमयं बुद्ध्वा निरगमन् किल।
तान् वायसास्तदा ज्ञात्वा दिवा निघ्नन्ति कौशिकान्।। १५.११

स्नातकास्त्वापगास्वेव स्नानजप्यपरायणाः।
आकण्ठमग्नास्तिष्ठन्ति रात्रौ ज्ञात्वाऽथ वासरम्।। १५.१२

न व्ययुज्यन्त चक्राश्च तदा वै पुरदर्शने।
मन्यमानास्तु दिवसमिदमुच्चैर्ब्रुवन्ति च।। १५.१३

नूनं कान्ताविहीनेन केनचिच्चक्रपत्त्रिणा।
उत्सृष्टं जीवितं शून्ये फूत्कृत्य सरितस्तटे।। १५.१४

ततोऽनुकृपयाविष्टो विवस्वांस्तीव्ररश्मिभिः।
संतापयञ्जगत् सर्वं नास्तमेति कथंचन।। १५.१५

अन्ये वदन्ति चक्राह्वो नूनं कश्चिन् मृतो भवेत्।
तत्कान्तया तपस्तप्तं भर्तृशोकार्त्तया बत।। १५.१६

आराधितस्तु भगवांस्तपसा वै दिवाकरः।
तेनासौ शशिनिर्जेता नास्तमेति रविर्ध्रुवम्।। १५.१७

यज्विनो होमशालासु सह ऋत्विग्भिरध्वरे।
प्रावर्त्तयन्त कर्माणि रात्रावपि महामुने।। १५.१८

महाभागवताः पूजां विष्णोः कुर्वन्ति भक्तितः।
रवौ शशिनि चैवान्ये ब्रह्मणोऽन्ये हरस्य च।। १५.१९

कामिनश्चाप्यमन्यन्त साधु चन्द्रमसा कृतम्।
यदियं रजनी रम्या कृता सततकौमुदी।। १५.२०

अन्येऽब्रुवँल्लोकगुरुरस्माभिश्चक्रभृद् वशी।
निर्व्याजेन महागन्धैरर्चितः कुसुमैः शुभैः।। १५.२१

सह लक्ष्म्या महायोगी नभस्यादिचतुर्ष्वपि।
अशून्यशयना नाम द्वितीया सर्वकामदा।। १५.२२

तेनासौ भगवान् प्रीतः प्रादाच्छयनमुत्तमम्।
अशून्यं च महाभोगैरनस्तमितशेखरम्।। १५.२३

अन्येऽब्रुवन् ध्रुवं देव्या रोहिण्या शशिनः क्षयम्।
दृष्ट्वा तप्तं तपो घोरं रुद्राराधनकाम्यया।। १५.२४

पुण्यायामक्षयाष्टम्यां वेदोक्तविधिना स्वयम्।
तुष्टेन शंभुना दत्तं वरं चास्यै यदृच्छया।। १५.२५

अन्येऽब्रुवन् चन्द्रमसा ध्रुवमाराधितो हरिः।
व्रतेनेह त्वखण्डेन तेनाखण्डः शशी दिवि।। १५.२६

अन्येऽब्रवञ्छशाङ्केन ध्रुवं रक्षा कृतात्मनः।
पदद्वयं समभ्यर्च्य विष्णोरमिततेजसः।। १५.२७

तेनासौ दीप्तिमांश्चन्द्रः परिभूय दिवाकरम्।
अस्माकमानन्दकरो दिवा तपति सूर्यवत्।। १५.२८

लक्ष्यते कारणैरन्यैर्बहुभिः सत्यमेव हि।
शशाङ्कनिर्जितः सूर्यो न विभाति यथा पुरा।। १५.२९

यथामी कमलाः श्लक्ष्णा रणद्भृङ्गणावृताः।
विकचाः प्रतिभासन्ते जातः सूर्योदयो ध्रुवम्।। १५.३०

यथा चामी विभासन्ति विकचाः कुमुदाकराः।
अतो विज्ञायते चन्द्र उदितश्च प्रतापवान्।। १५.३१

एवं संभाषतां तत्र सूर्यो वाक्यानी नारद।
अमन्यत किमेतद्धि लोको वक्ति शुभाशुभम्।। १५.३२

एवं संचिन्त्य भगवान् दध्यौ ध्यानं दिवाकरः।
आसमन्ताज्जगद् ग्रस्तं त्रैलोक्यं रजनीचरैः।। १५.३३

ततस्तु भगवाञ्ज्ञात्वा तेजसोऽप्यसहिष्णुताम्।
निशाचरस्य वृद्धिं तामचिन्तयत योगवित्।। १५.३४

ततोऽज्ञासीच्च तान् सर्वान् सदाचाररताञ्शुचीन्।
देवब्राह्मणपूजासु संसक्तान् धर्मसंयुतान्।। १५.३५

ततस्तु रक्षःक्षयकृत् तिमिरद्विपकेसरी।
महांशुनखरः सूर्यस्तद्विघातमचिन्तयत्।। १५.३६

ज्ञातवांश्च ततश्छिद्रं राक्षसानां दिवस्पतिः।
स्वधर्मविच्युतिर्नाम सर्वधर्मविघातकृत्।। १५.३७

ततः क्रोधाभिभूतेन भानुना रिपुभेदिभिः।
भानुभी राक्षसपुरं तद् दृष्टं च यथेच्छया।। १५.३८

स भानुना तदा दृष्टः क्रोधाध्मातेन चक्षुषा।
निपपाताम्बराद् भ्रष्टः क्षीणपुण्य इव ग्रहः।। १५.३९

पतमानं समालोक्य पुरं शालकटङ्कटः।
नमो भवाय शर्वाय इदमुच्चैरुदीरयत्।। १५.४०

तमाक्रन्दितमाकर्ण्य चारणा गगनेचराः।
हा देति चुक्रुशुः सर्वे हरभक्तः पतत्यसौ।। १५.४१

तच्चारणवचः शर्वः श्रुतवान् सर्वगोऽव्ययः।
श्रुत्वा संचिन्तयामास केनासौ पात्यते भुवि।। १५.४२

ज्ञातवान् देवपतिना सहस्रकिरणेन तत्।
पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः।। १५.४३

क्रुद्धस्तु भगवन्तं तं भानुमन्तमपश्यत।
दृष्टमात्रस्त्रिणेत्रेण निपपात ततोऽमबरात्।। १५.४४

गगनात् स परिभ्रष्टः पथि वायुनिषेविते।
यदृच्छया निपतितो यन्त्रमुक्तो यथोपलः।। १५.४५

ततो वायुपथान्मुक्तः किंशुकोज्ज्वलविग्रहः।
निपपातान्तरिक्षात् स वृतः किन्नरचारणैः।। १५.४६

चारणेर्वेष्टितो भानुः प्रविभात्यम्बरात् पतन्।
अर्द्धपक्वं यथा तालात् फलं कपिभिरावृतम्।। १५.४७

ततस्तु ऋषयोऽभ्येत्य प्रत्यूचुर्भानुमालिनम्।
निपतस्व हरिक्षेत्रे यदि श्रेयोऽभिवाञ्छसि।।१५.४८

ततोऽब्रवीत् पतन्नेव विवस्वांस्तांस्तपोधनान्।
किं तत् क्षेत्रं हरेः पुण्यं वदध्वं शीघ्रमेव मे।। १५.४९

तमूचुर्मुनयः सूर्यं श्रृणु क्षेत्रं महाफलम्।
साम्प्रतं वासुदेवस्य भावि तच्छंकरस्य च।। १५.५०

योगशायिनमारभ्य यावत् केशवदर्शनम्।
एतत् क्षेत्रं हरेः पुण्यं नाम्ना वाराणसी पुरी।। १५.५१

तच्छ्रुत्वा भगवान् भानुर्भवनेत्राग्नितापितः।
वरणायास्तथैवास्यास्त्वन्तरे निपपात ह।। १५.५२

ततः प्रदह्यति तनौ निमज्यास्यां लुलद् रविः।
वरणायां समभ्येत्य न्यमज्जत यथेच्छया।। १५.५३

भूयोऽसि वरणां भूयो भूयोऽपि वरणामसिम्।
लुलं स्त्रिणेत्रवह्न्यार्त्तो भ्रमतेऽलातचक्रवत्।। १५.५४

एतस्मिन्नन्तरे ब्रह्मन् ऋषयो यक्षराक्षसाः।
नागा विद्याधराश्चापि पक्षिणोऽप्सरसस्तथा।। १५.५५

यावन्तो भास्कररथे भूतप्रेतादयः स्थिताः।
तावन्तो ब्रह्मसदनं गता वेदयितुं मुने।। १५.५६

ततो ब्रह्म सुरपतिः सुरैः सार्ध समभ्यगात्।
रम्यं महेश्वरावासं मन्दरं रविकारणात्।। १५.५७

गत्वा दृष्ट्वा च देवेशं शंकरं शूलपाणिनम्।
प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत्।। १५.५८

ततो दिवाकरं भूयः पाणिनादाय शंकरः।
कृत्वा नामास्य लोलेति रथमारोपयत् पुनः।। १५.५९

आरोपिते दिनकरे ब्रह्माऽभ्येत्य सुकेशिनम्।
सबान्धवं सनगरं पुनरारोपयद् दिवि।। १५.६०

समारोप्य सुकेशिं च परिष्वज्य च शंकरम्।
प्रणम्य केशवं देवं वैराजं स्वगृहं गतः।। १५.६१

एवं पुरा नारद भास्करेण पुरं सुकेशेर्भुवि सन्निपातितम्।
दिवाकरो भूमितले भवेन क्षिप्तस्तु दृष्ट्या न च संप्रदग्धः।। १५.६२

आरोपितो भृमितलाद् भवेन भूयोऽपि भानुः प्रतिभासनाय।
स्वयंभुवा चापि निशाचरेन्द्रस्त्वारोपितः खे सपुरः सबन्धुः।। १५.६३

इति श्रीवामनपुराणे षोडशोऽध्यायः ।। १५ ।।