वामनपुराणम्/सप्तविंशतितमोऽध्यायः
लोमहर्षण उवाच
नारायणस्तु भगवाञ्छ्रुत्वैवं परमं स्तवम्
ब्रह्मज्ञेन द्विजेन्द्रे ण कश्यपेन समीरितम् १
उवाच वचनं सम्यक् तुष्टः पुष्टपदाक्षरम्
श्रीमान् प्रीतमना देवो यद्वदेत् प्रभुरीश्वरः २
वरं वृणुध्वं भद्रं वो वरदोऽस्मि सुरोत्तमाः
कश्यप उवाच
प्रीतोऽसि नः सुरश्रेष्ठ सर्वेषामेव निश्चयः ३
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः
अदित्या अपि च श्रीमान् भगवानस्त वै सुतः ४
अदितिर्देवमाता च एतमेवार्थमुत्तमम्
पुत्रार्थं वरदं प्राह भगवन्तं वरार्थिनी ५
देवा ऊचुः
निःश्रेयसार्थं सर्वेषां दैवतानां महेश्वर
त्राता भर्ता च दाता च शरणं भव नः सदा ६
ततस्तानब्रवीद्विष्णुर्देवान् कश्यपमेव च
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः
मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ७
हत्वासुरागणान् सर्वान् यज्ञभागाग्रभोजिनः
हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितॄनपि ८
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा
यथायातेन मार्गेण निवर्तध्वं सुरोत्तमाः ९
लोमहर्षण उवाच
एवमुक्ते तु देवेन विष्णुना प्रभविष्णुना
ततः प्रहृष्टमनसः पूजयन्ति स्म तं प्रभुम् १०
विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसा ११
प्रयाताः प्राग्दिशं सर्वे विपुलं कश्यपाश्रमम्
ते कश्यपाश्रमं गत्वा कुरुक्षेत्रवनं महत् १२
प्रसाद्य ह्यदितिं तत्र तपसे तां न्ययोजयन्
सा चचार तपो घोरं वर्षाणामयुतं तदा १३
तस्या नाम्ना वनं दिव्यं सर्वकामप्रदं शुभम्
आराधनाय कृष्णस्य वाग्जिता वायुभोजना १४
दैत्यैर्निराकृतान् दृष्ट्वा तनयानृषिसत्तमाः
वृथापुत्राहमिति सा निर्वेदात् प्रणयाद्धरिम्
तुष्टाव वाग्भिरग्र्याभिः परमार्थावबोधिनी १५
शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम्
देवदैत्यमयं चादिमध्यमान्तस्वरूपिणम् १६
अदितिरुवाच
नमः कृत्यार्तिनाशाय नमः पुष्करमालिने
नमः परमकल्याण कल्याणायादिवेधसे १७
नमः पङ्कजनेत्राय नमः पङ्कजनाभये
नमः पङ्कजसंभूतिसंभवायात्मयोनये १८
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे
नमः पद्मासिहस्ताय नमः कनकरेतसे १९
तथात्मज्ञानयज्ञाय योगिचिन्त्याय योगिने
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे २०
जगच्च तिष्ठते यत्र जगतो यो न दृश्यते
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङ्गिणे २१
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः
अपश्यद्भिर्जगद्यश्च दृश्यते हृदि संस्थितः २२
बहिर्ज्योतिरलक्ष्यो यो लक्ष्यते ज्योतिषः परः
यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् २३
तस्मै समस्तजगताममराय नमो नमः
आद्यः प्रजापतिः सोऽपि पितॄणां परमः पतिः
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे २४
यः प्रवृत्तैर्निवृत्तैश्च कर्मभिस्तु विरज्यते
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते २५
यस्तु संचित्यमानोऽपि सर्वं पापं व्यपोहति
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे २६
ये पश्यन्त्यखिलाधारमीशानमजमव्ययम्
न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् २७
यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् २८
गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः
यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः २९
यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ३०
आब्रह्मस्तम्बपर्यन्तं व्याप्तं येन चराचरम्
मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ३१
योऽत्र तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ३२
मूर्त्तं तमोऽसुरमयं तद्विधो विनिहन्ति यः
रात्रिजं सूर्यरूपी च तमुपेन्द्रं नमाम्यहम् ३३
यस्याक्षिणी चन्द्र सूर्यौ सर्वलोकशुभाशुभम्
पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ३४
यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम्
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ३५
यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ३६
इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तविंशतितमोऽध्यायः