सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 चतुर्थप्रपाठकः/2.4.1 प्रथमोऽर्द्धः

विकिस्रोतः तः


ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः ।
दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ।। १०३१ ।।
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः ।
हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ।। १०३२ ।।
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि ।
अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे ।। १०३३ ।।

मरुतां धेनु



असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः ।। १०३४ ।। ऋ. ९.६४.४
शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
पवन्ते वारे अव्यये ।। १०३५ ।।
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
पवन्तामान्तरिक्ष्या ।। १०३६ ।।

टिप्पणी

असृक्षत प्र वाजिनः इति त्रयाणां संयजमानानां प्रतिपदं कुर्यात्। छन्दसैवैनान् रूपिणा समावद्भाजः करोति। समावत्य् एनान् यज्ञस्याशीर् आगच्छति। गव्या सोमासो अश्वया इति गोअश्वम् एवैभ्य एतेनावरुन्द्धे। शुक्रासो वीरयाशवः इति-यज्ञो वै शुक्रः प्रजा वीरः-यज्ञं चैवैभ्य एतेन प्रजां चावरुन्द्धे। -जैब्रा १.९४

असृक्षत प्र वाजिन इत्य् अनुरूपो भवति भूतानुवादिनीः। षडहम् एवैतद् एतास् सृष्टम् अनुवदन्ति। तद् आहुर् अह्न एव रूपं स्तोत्रियेऩारभन्ते ऽनुरूपेण साम्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। गव्या सोमासो अश्वया। शुक्रासो वीरयाशवः॥ इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः। पवन्ते वारे अव्यये॥ इति रूति रेवतीनां रूपम्। ते विश्वा दाशुषे वस्व् इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। - जैब्रा. ३.१३६



पवस्व देववीरति पवित्रं सोम रंह्या ।
इन्द्रमिन्दो वृषा विश ।। १०३७ ।।
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
आ योनिं धर्णसिः सदः ।। १०३८ ।।
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः ।
अपो वसिष्ट सुक्रतुः ।। १०३९ ।।

महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः ।
यद्गोभिर्वासयिष्यसे ।। १०४० ।। ऋ. ९.२.४
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
सोमः पवित्रे अस्मयुः ।। १०४१ ।।
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
सं सूर्येण दिद्युते ।। १०४२ ।।

टिप्पणी

महान्तं त्वा महीर् अन्व् इति त्रयस्त्रिंशो वै स्तोमो महान्। तम् एवैतद् रेवतयः। आपो अर्षन्ति सिन्धवः। यद् गोभिर् वासयिष्यसे॥ - जै.ब्रा. ३.१३७


गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भसे ।। १०४३ ।।
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे ।
तव प्रशस्तये महे ।। १०४४ ।।
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत ।
आत्मा यज्ञस्य पूर्व्यः ।। १०४५ ।।
अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया ।
पर्जन्यो वृष्टिमां इव ।। १०४६ ।।



सना च सोम जेषि च पवमान महि श्रवः ।
अथा नो वस्यसस्कृधि ।। १०४७ ।।
सना ज्योतिः सना स्वा३र्विश्वा च सोम सौभगा ।
अथा नो वस्यसस्कृधि ।। १०४८ ।।
सना दक्षमुत क्रतुमप सोम मृधो जहि ।
अथा नो वस्यसस्कृधि ।। १०४९ ।।
पवीतारः पुनीतन सोममिन्द्राय पातवे ।
अथा नो वस्यसस्कृधि ।। १०५० ।।
त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
अथा नो वस्यसस्कृधि ।। १०५१ ।।
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यं ।
अथा नो वस्यसस्कृधि ।। १०५२ ।।
अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिं ।
अथा नो वस्यसस्कृधि ।। १०५३ ।।
अभ्या३र्षानपच्युतो वाजिन्त्समत्सु सासहिः ।
अथा नो वस्यसस्कृधि ।। १०५४ ।।
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि ।
अथा नो वस्यसस्कृधि ।। १०५५ ।।
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर ।
अथा नो वस्यसस्कृधि ।। १०५६ ।।



तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ।। १०५७ ।।
उस्रा वेद वसूनां मर्त्तस्य देव्यवसः ।
तरत्स मन्दी धावति ।। १०५८ ।।
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
तरत्स मन्दी धावति ।। १०५९ ।।
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
तरत्स मन्दी धावति ।। १०६० ।।



एते सोमा असृक्षत गृणानाः शवसे महे ।
मदिन्तमस्य धारया ।। १०६१ ।।
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
सनद्वाजः परि स्रव ।। १०६२ ।।
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।
गृणानो जमदग्निना ।। १०६३ ।।



इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ।। १०६४ ।।
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयं ।
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव ।। १०६५ ।।
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतं ।
त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव ।। १०६६ ।।
(आज्यस्तोत्रम्। द्र. यज्ञसारथिगानम्, [https://sa.wikisource.org/s/3gaz समन्तम्] )


प्रति वां सूर उदिते मित्रं गृणीषे वरुणं ।
अर्यमणं रिशादसं ।। १०६७ ।।
राया हिरण्यया मतिरियमवृकाय शवसे ।
इयं विप्रामेधसातये ।। १०६८ ।।
ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
इषं स्वश्च धीमहि ।। १०६९ ।।



भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तदा भर ।। १०७० ।।
यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति ।
वसु स्पार्हं तदा भर ।। १०७१ ।।
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं ।
वसु स्पार्हं तदा भर ।। १०७२ ।।


१०
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
इन्द्राग्नी तस्य बोधतं ।। १०७३ ।।
तोशासा रथयावाना वृत्रहणापराजिता ।
इन्द्राग्नी तस्य बोधतं ।। १०७४ ।।
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
इन्द्राग्नी तस्य बोधतं ।। १०७५ ।।


११
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
अर्कस्य योनिमासदं ।। १०७६ ।।
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं ।
सं त्वा मृजन्त्यायवः ।। १०७७ ।।
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे ।
पवमानस्य मरुतः ।। १०७८ ।।
इषोवृधीयम्
वाजदावर्यः
रेवत्यः

१२
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ।। १०७९ ।।
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने ।
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ।। १०८० ।।

वाजजित्
वरुणसाम
अङ्गिरसां गोष्ठः
औक्ष्णोरन्ध्रम्
ऐडमौक्ष्णोरन्ध्रम्

१३
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं ।
समादित्येभिरख्यत ।। १०८१ ।।
समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
सं सूर्यस्य रश्मिभिः ।। १०८२ ।।
स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
चारुर्मित्रे वरुणे च ।। १०८३ ।।
इहवद्वामदेव्यम्

१४
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ।। १०८४ ।।
आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः ।
ऋणोरक्षं न चक्र्योः ।। १०८५ ।।
आ यद्दुवः शतक्रतवा कामं जरित्ऱीणां ।
ऋणोरक्षं न शचीभिः ।। १०८६ ।।
वारवन्तीयं

१५
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ।। १०८७ ।।
उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद्रेवतो मदः ।। १०८८ ।।
अथा ते अन्तमानां विद्याम सुमतीनां ।
मा नो अति ख्य आ गहि ।। १०८९ ।।
ऋषभोरैवतम्


१६
उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
महान्तं त्वा महीनां सम्राजं चर्षणीनां ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ।।१०९० ।।
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
पूर्वेण मघवन्पदा वयामजो यथा यमः ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ।।१०९१ ।।
अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरं ।
अधस्पदं तमीं कृधि यो अस्मां अभिदासति ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ।।१०९२ ।।
श्येनः


१७
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ।। १०९३ ।।
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ।। १०९४ ।।
त्वे विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ।। १०९५ ।।
आद्यं वैदन्वतम्
तृतीयं वैदन्वतम्
चतुर्थं वैदन्वतम्
आभ्राजम्

१८
स सुन्वे यो वसूनां यो रायामानेता य इडानां ।
सोमो यः सुक्षितीनां ।। १०९६ ।।
यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।
आ येन मित्रावरुणा करामह एन्द्रमवसे महे ।। १०९७ ।।


१९
तं वः सखायो मदाय पुनानमभि गायत ।
शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ।। १०९८ ।।
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
देवावीर्मदो मतिभिः परिष्कृतः ।। १०९९ ।।
अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
अयं देवेभ्यो मधुमत्तरः सुतः ।। ११०० ।।
कार्णश्रवसम्

२०
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ।। ११०१ ।।
ते पूतासो विपश्चितः सोमासो दध्याशिरः ।
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ।। ११०२ ।।
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
इषमस्मभ्यमभितः समस्वरन्वसुविदः ।। ११०३ ।।
मधुश्चुन्निधनम्
वाङ्निधनं क्रौञ्चम्
गौरीवितम्


२१
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व ।
ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ।।११०४ ।।
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ।। ११०५ ।।
महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे ।
अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः ।। ११०६ ।।
श्नौष्ठम्


२२
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ।। ११०७ ।।
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः ।। ११०८ ।।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ।। ११०९ ।।
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ।। १११० ।।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ।। ११११ ।।
आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ।।१११२ ।।
भद्रम्

प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ।। १११३ ।।
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ।। १११४ ।।
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ।। १११५ ।।
उद्वंशपुत्रः