सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ५/मरुतां धेनु

विकिस्रोतः तः
मरुतां धेनु
मरुतां धेनुः

ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः |
दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः || १०३१ ||
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः |
हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा || १०३२ ||
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि |
अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे || १०३३ ||


११ मरुतां धेनु ।। मरुतः। जगती। पवमानस्सोमः ।।

ज्योऽ२३४ । तिर्यज्ञस्यपवतेमधौ । होप्रायाम् ।। पितादेवानाञ्जनिता । विभूवासूऽ२ः । दधातिरत्नꣳस्वधयोः । अपीचायाऽ२३म् ।। मादिन्ताऽ२३४माः ।। मत्सरइ । द्रीयोऽ३रा५‘’साऽ६५६ः ।। श्रीः ।। आऽ२३४ । भिक्रन्दन्कलशंवाजियौ । होर्षाताइ ।। पतिर्दिवश्शतधारो । विचक्षाणाऽ२ः । हरिर्मित्रस्यसदनाइ । षुसीदाताऽ२३इ ।। मार्मॄजाऽ२३४नाः ।। अविभिस्सि । धूभाऽ३इर्वाऽ५"र्षाऽ६५६ ।। श्रीः ।। आऽ२३४ । ग्रेसिन्धूनांपवमानऔ । होर्षासाइ ।। अग्रेवाचोअग्रियोगो । षुगच्छासाऽ२इ । अग्रेवाजस्यभजसाइ । महद्धानाऽ२३म् ।। सूवायूऽ२३४धाः ।। सोतृभिस्सो । मासूऽ३याऽ५"साऽ६५६इ ।।
 
दी २६. उत्.९. मा. २१ घ. ।।३१३।।