स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
वल्गमानं तमायांतं तारका सुरमोजसा॥
आजघान च वज्रेण इंद्रो मतिमतां वरः॥ ३०.१ ॥

तेन वज्रप्रहारेण तारको विह्वलीकृतः
पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्द्विपम्॥ ३०.२ ॥

पुरंदरं गजस्थं हि अपातया भूतले॥
हाहाकारो महानासीत्पतिते च पुरंदरे॥ ३०.३ ॥

तारकेणापि तत्रैव यत्कृतं तच्छृणु प्रभो॥
पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य च॥ ३०.४ ॥

हतं देवेंद्रमालोक्य तारको रिपुसूदनः॥
वज्रघातेन महताऽताडयत्तु पुरंदरम्॥ ३०.५ ॥

त्रिशूलमुद्यम्य महाबलस्तदा स वीरभद्रो रुषितः पुरंदरम्॥
संरक्षमाणो हि जघान तारकं शूलेन दैत्यं च महाप्रभेण॥ ३०.६ ॥

शूलप्रहाराभिहतो निपपात महीतले॥
पतितोऽपि महातेजास्तारकः पुनरुत्थितः॥ ३०.७ ॥

जघान परया शक्त्या वीरभद्रं तदोरसि॥
वीरभद्रोपि पतितः शक्तिघातेन तस्य वै॥ ३०.८ ॥

सगणाश्चैव देवाश्च गंधर्वोरगराक्षसाः॥
हाहाकारेण महता चुक्रुशुश्च पुनःपुनः॥ ३०.९ ॥

तदोत्थितः सहसा महाबलः स वीरभद्रो द्विषतां निहंता॥
त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया निरंतरम्॥
स्वरोचिषा भासितदिग्वितानं सूयदुबिंबाग्न्युडुमण्डलाभम्॥ ३०.१० ॥

त्रिशूलेन तदा यावद्धंतुकामो महाबलः॥
निवारितः कुमारेण मावधीस्त्वं महामते॥ ३०.११ ॥

जगर्ज च महातेजाः कार्त्तिकेयो महाबलः॥ ३०.१२ ॥

तदा जयेत्यभिहितो भूतैराकाशसंस्थितैः॥
शक्त्या परमया वीरस्तारकं हंतुमुद्यतः॥ ३०.१३ ॥

तारकस्य कुमारस्य संग्रामस्तत्र दुःसहः॥
जातस्ततो महाघोरः सर्वभूतभयंकरः॥ ३०.१४ ॥

शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम्॥
शक्तिभ्यां भिन्नहस्तौ तौ महासाहससंयुतौ॥ ३०.१५ ॥

परस्परं वंचयंतौ सिंहाविव महाबलौ॥
वैतालिकीं समाश्रित्य तथा वै खेचरीं गतिम्॥ ३०.१६ ॥

पार्वतं मतमाश्रित्य शक्त्या शक्तिं निजघ्नतुः॥
एभिर्मतैर्महावीरौ चक्रतुर्युद्धमुत्तमम्॥ ३०.१७ ॥

अन्योन्यसाधकौ भूत्वा महाबलपराक्रमौ॥
जघ्नतुः शक्तिधाराभी रणे रणविशारदौ॥ ३०.१८ ॥

मूर्ध्नि कण्ठे तथा बाह्वोर्जान्वोश्चैव कटीतटे॥
वक्षस्युरसि पृष्ठे च चिच्छिदतुः परस्परम्॥ ३०.१९ ॥

तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ॥
प्रेक्षका ह्यभवन्सर्वे देवगन्धर्वगुह्यकाः॥ ३०.२० ॥

ऊचुः परस्परं सर्वे कोऽस्मिन्युद्धे विजेष्यते॥
तदा नभोगता वाणी उवाच परिसांत्व्य वै॥ ३०.२१ ॥

तारकं हि सुराश्चाद्य कुमारोऽयं हनिष्यति॥
मा शोच्यतां सुराः सर्वैः सुखेन स्थीयतां दिवि॥ ३०.२२ ॥

श्रुत्वा तदा तां गगने समीरितां तदैव वाचं प्रमथैः परीतः॥
कुमारकस्तं प्रति हंतुकामो दैत्याधिपं तारकमुग्ररूपम्॥ ३०.२३ ॥

शक्त्या तया महाबाहुराजघान स्तनांतरे॥
तारकं ह्यसुरश्रेष्ठं कुमारो बलवत्तरः॥ ३०.२४ ॥

तं प्रहारमना दृत्य तारको दैत्यपुंगवः॥
कुमारं चाऽपि संक्रुद्धः स्वशक्त्या चाजघान वै॥ ३०.२५ ॥

तेन शक्तिप्रहारेण शांकरिर्मूर्च्छितोऽभवत्॥
मुहूर्ताच्चेतनां प्राप्तः स्तूयमानो महर्षिभिः॥ ३०.२६ ॥

यथा सिंहो मदोन्मत्तो हंतुकामस्तथैव च॥
कुमारस्तारकं दैत्यमाजघान प्रतापवान्॥ ३०.२७ ॥

एवं परस्परेणैव कुमारश्चैव तारकः॥
युयुधातेऽतिसंरब्धौ शक्तियुद्धपरायणौ॥ ३०.२८ ॥

अभ्यासपरमावास्तामन्योन्यविजिगीषया॥
तथा तौ युध्यमानौ च चित्ररूपौ तपस्विनौ॥ ३०.२९ ॥

धाराभिश्च अणीभीश्च सुप्रयुक्तौ च जघ्नतुः॥
अवलोकपराः सर्वे देवगन्धर्वकिन्नराः॥ ३०.३० ॥

विस्मयं परमं प्राप्ता नोचुः किंचन तस्य वै॥
न ववौ च तदावायुर्निष्प्रभोऽभूद्दिवाकरः॥ ३०.३१ ॥

हिमालयोऽथ मेरुश्च श्वेतकूटश्च दर्दुरः॥
मलयोऽथ महाशैलो मैनाको विंध्यपर्वतः॥ ३०.३२ ॥

लोकालोकौ महाशैलौ मानसोत्तरपर्वतः॥
कैलासो मन्दरो माल्यो गन्धमादन एव च॥ ३०.३३ ॥

उदयाद्रिर्महेंद्रश्च तथैवास्तगिरिर्महान्॥ ३०.३४ ॥

एते चान्ये च बहवः पर्वताश्च महाप्रभाः॥
स्नेहार्द्दितास्तदाजग्मुः कुमारं च परीप्सवः॥ ३०.३५ ॥

ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः॥
पर्वतान्गिरिजापुत्रो बभाषे प्रतिबोधयन्॥ ३०.३६ ॥

॥कुमार उवाच॥
मा खिद्यत महाभागा मा चिंता क्रियतां नगाः॥
घातयाम्यद्य पापिष्ठं सर्वेषामिह पश्यताम्॥ ३०.३७ ॥

एवं समाश्वास्य तदा मनस्वी तान्पर्वतान्देवगणैः समेतान्॥
प्रणम्य शंभुं मनसा हरिप्रियः स्वां मातरं चैव नतः कुमारः॥ ३०.३८ ॥

कार्त्तिकेयस्ततः शक्त्या निचकर्त रिपोः शिरः॥
तच्छिरो निपपातोर्व्यां तारकस्य च तत्क्षणात्॥
एवं स जयमापेदे कार्त्तिकेयो महाप्रभुः॥ ३०.३९ ॥

ददृशुस्तं सुरगणा ऋषयो गुह्यकाः खगाः॥
किंनराश्चारणाः सर्पास्तथा चैवाप्सरो गणाः॥ ३०.४० ॥

हर्षेण महताविष्टास्तुष्टुवुस्तं कुमारकम्॥
विद्याधर्यश्च ननृतुर्गायकाश्च जगुस्तदा॥ ३०.४१ ॥

एवं विजयमापन्नं दृष्ट्वा सर्वे मुदा युताः॥
ततो हर्षात्समागम्य स्वांकमारोप्य चात्मजम्॥ ३०.४२ ॥

परिष्वज्य तु गाढेन गिरिजापि तुतोष वै॥
स्वोत्संगे च समारोप्य कुमारं सूर्यवर्चसम्॥ ३०.४३ ॥

लालयामास तन्वंगी पार्वती रुचिरेक्षणा॥
ऋषीभिः सत्कृतः शंभुः पार्वत्या सहितस्तदा॥ ३०.४४ ॥

आर्यासनगता साध्वी शुशुभे मितभाषिणी॥
संस्तूयमाना मुनिभिः सिद्धचारणपन्नगैः॥ ३०.४५ ॥

नीराजिता तदा देवैः पार्वती शंभुना सह॥
कुमारेण सहैवाथ शोममाना तदा सती॥ ३०.४६ ॥

हिमालयस्तदागत्य पुत्रैश्च परिवारितः॥
मेर्वाद्यैः पर्वतैश्चैव स्तूयमानः परोऽभवत्॥ ३०.४७ ॥

तदा देवगणाः सर्व इन्द्राद्य ऋषिभिः सह॥
पुष्पवर्षेण महात ववर्षुरमितद्युतिम्॥
कुमारमग्रतः कृत्वा नीराजनपरा बभुः॥ ३०.४८ ॥

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा॥
संस्तूयमानो विविधैः सूक्तैर्वेदविदां वरैः॥ ३०.४९ ॥

कुमारविजयंनाम चरित्रं परमाद्भुतम्॥
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम्॥ ३०.५० ॥

ये कीर्त्तयंति शुचयोऽमितभाग्ययुक्ताश्चानंत्यरूपमजरामरमादधानाः॥
कौमारविक्रममहात्म्यमुदारमेतदानंददायकमनोर्थकरं नृणां हि॥ ३०.५१ ॥

यः पठेच्छृणुयाद्वापि कुमारस्य महात्मनः॥
चरितं तारकाख्यं च सर्वपापैः समुच्यते॥ ३०.५२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे तारकासुरवधपूर्वकं स्वामिकार्त्तिकेयविजयोत्सववर्णनं नाम त्रिंशोऽध्यायः॥ ३० ॥