स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २९
वेदव्यासः
अध्यायः ३० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
उभे सेने तदा तेषां सुराणां चामरद्विषाम्॥
अनेकाश्चर्यसंवीते चतुरंगबलान्विते॥
विरेजतुस्तदान्योऽन्यं गर्जतो वांबुदागमे॥ २९.१ ॥

एतस्मिन्नन्तरे तत्र वल्गमानाः परस्परम्॥
देवासुरास्तदा सर्वे युयुधुश्च महाबलाः॥ २९.२ ॥

युद्धं सुतुमुलं ह्यासीद्देवदैत्यसमाकुलम्॥
रुण्डमुण्डांकितं सर्वं क्षणेन समपद्यत॥ २९.३ ॥

भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः॥
केषांचिद्बाहविश्छिन्नाः खड्गपातैः सुदारुणैः॥ २९.४ ॥

मुचुकुंदो हि बलवांस्त्रैलोक्येऽमितविक्रमः॥ २९.५ ॥

तारको हि तदा तेन मुचुकुंदेन धीमता॥
खड्गेन चाहतास्तत्र सर्वप्राणेन वक्षसि॥
प्रसह्य तत्प्रहारं च प्रहसन्वाक्यमब्रवीत्॥ २९.६ ॥

किं रे मूढ त्वया चाद्य कृतमस्ति बलादिदम्॥
न त्वया योद्धुमिच्छामि मानुषेणैव लज्जया॥ २९.७ ॥

तारकस्य वचः श्रुत्वा मुचुकुंदोऽभ्यभाषत॥
मया हतोऽसि दैत्येंद्र नान्यो भवितुमर्हसि॥ २९.८ ॥

दृष्ट्वा मे खड्गसंपातं न त्वं तिष्ठसि चाग्रतः॥
त्वां हन्मि पश्य मे शौर्यं दैत्यराज स्थिरो भव॥ २९.९ ॥

एवमुक्त्वा तदा वीरो मुचुकुंदो महाबलः॥
यावज्जघान खड्गेन तावच्छक्त्या समाहतः॥
मांधातुस्तनयस्तत्र पपात रणमंडले॥ २९.१० ॥

पतितस्तत्क्षणादेव चोत्थितः परवीरहा॥ २९.११ ॥

स सज्जमानोतिमहाबलो वै हंतुं तदा दैत्यपतिं च तारकम्॥
ब्रह्मास्त्रमुद्यम्य धनुर्गृहीत्वा मांधातृपुत्रो भुवनैकजेता॥ २९.१२ ॥

स तारकं योद्धकामस्तरस्वी रुषान्वितोत्फुल्लविलोचनो महान्॥
स नारदो ब्रह्मसुतो बभाषे तदा नृवीरं मुचुकुंदमेवम्॥ २९.१३ ॥

न तारको हन्यते मानुषेण तस्मादेतन्मा विमोचीर्महास्त्रम्॥ २९.१४ ॥

निशम्य वचनं तस्य देवर्षेर्नारदस्य च॥
मुचुकुंद उवाचेदं भविता कोऽस्य मारकः॥ २९.१५ ॥

तदोवाच महातेजा नारदो दिव्यदर्शनः॥
एनं हंता कुमारश्च कुमारोऽयं शिवात्मजः॥ २९.१६ ॥

तस्माद्भवद्भिः स्थातव्यमैकपद्येन युध्यताम्॥
तिष्ठ त्वं चायतो भूत्वा मुचुकुंद महामते॥ २९.१७ ॥

निशम्य वाक्यं च मनोहरं शुभं ह्युदीरितं तेन महाप्रभेण॥
सर्वे सुराः शांतिपरा बभूवुस्तेनैव साकं नृवरेणयत्नात्॥ २९.१८ ॥

ततो दुंदुभयो नेदुः शंखाश्च कृतनिश्चयाः॥
ताडिता विविधैर्वाद्यैः सुरासुरसमन्वितैः॥ २९.१९ ॥

जगर्जुरसुरास्तत्र देवान्प्रति कृतोद्यमाः॥
शिवकोपोद्भवो वीरो वीरभद्रो रुषान्वितः॥ २९.२० ॥

गणैर्बहुभिरासाद्य तारकं च महाबलम्॥
मुचुकुंदं पृष्ठतः कृत्वा तथैव च सुरानपि॥ २९.२१ ॥

तदा ते प्रमथाः सर्वे पुरस्कृत्य कुमारकम्॥
युयुधुः संयुगे तत्र वीरभद्रादयो गणाः॥ २९.२२ ॥

त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपाट्टिशैः॥
निजघ्नुः समरेन्योन्यं सुरासुरविमर्द्दने॥ २९.२३ ॥

तारको वीरभद्रेण त्रिशूलेन हतो भृशम्॥
पपात सहसा तत्र क्षण मूर्छापरिप्लुतः॥ २९.२४ ॥

उत्थाय च मुहूर्त्ताच्च तारको दैत्यपुंगवः॥
लब्धसंज्ञो बलाविष्टो वीरभद्रं जघान च॥ २९.२५ ॥

स शक्तिं च महातेजा वीरभद्रो हि तारकम्॥
त्रिशूलेन च घोरेण शिवस्यानुचरो बली॥ २९.२६ ॥

एवं संयुध्यमानौ तौ जघ्नतुश्चेतरेतरम्॥
द्वंद्वयुद्धं सुतुमुलं तयोर्जातं महात्मनोः॥ २९.२७ ॥

सुरास्तत्रैव समरे प्रेक्षकाह्यभवंस्तदा॥
तयोर्भेरीमृदंगाश्च पटहानकगोमुखाः॥ २९.२८ ॥

तथा डमरूनादेन व्याप्तमासीज्जगत्त्रयम्॥
तेन घोषेण महता युद्यमानौ महाबलौ॥ २९.२९ ॥

शुशुभातेऽतिसंरब्धौ प्रहारैर्जरीकृतौ॥
अन्योन्यमभिसंरब्धौ तौ बुधांगारकाविव॥ २९.३० ॥

नारदेन तदा ख्यातो वीरभद्रस्य तद्वधः॥
न रोचते च तद्वाक्यं वीरभद्रस्य वै तदा॥ २९.३१ ॥

नारदेन यदुक्तं हि तारकस्य वधं प्रति॥
यथा रुद्रस्तथा सोऽपि वीरभद्रो महाबलः॥ २९.३२ ॥

एवं प्रयुध्यमानौ तौ जघ्नतुश्चेतरेतरम्॥
अन्योन्यं स्वर्द्धमानौ तौ गर्जंतौ सिंहयोरिव॥ २९.३३ ॥

एवं तदा तौ भुवि युध्यमानौ महात्मना ज्ञानवतां वरेण॥
स वीरभद्रो हि तदा निवारितो वाक्यैरनेकैरथ नारदेन॥ २९.३४ ॥

तथा निशम्य तद्वाक्यं नारदस्य मुखोद्गतम्॥
वीरभद्रो रुषाविष्टो नारदं प्रत्युवाच ह॥ २९.३५ ॥

तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम्॥
आनयंति च ये वीराः स्वामिनं रणसंसदि॥
ते पापिनो ह्यधर्मिष्ठा विमृशंतिरणं गताः॥ २९.३६ ॥

भीरवस्ते तु विज्ञेया न वाच्यास्ते कदाचन॥
त्वं न जानासि देवर्षे योधानां च प्रतिक्रियाम्॥ २९.३७ ॥

मृत्युं च पृष्ठतः कृत्वा रणभूमौ गतव्यथाः॥
शस्त्राशस्त्रैर्भिन्नगात्राः प्रशस्ता नात्र संशयः॥ २९.३८ ॥

इत्युक्त्वा चावदद्देवान्वीरभद्रो महाबलः॥
श्रुण्वंतु मम वाक्यानि देवा इन्द्रपुरोगमाः॥ २९.३९ ॥

अतारकां महीं चाद्य करिष्ये नात्र संशयः॥ २९.४० ॥

अथ त्रिशूलमादाय तारकेण युयोध सः॥
वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः॥ २९.४१ ॥

कपर्द्दिनो वृषांकाश्च गणास्तेतिप्रहारिणः॥
वीरभद्रं पुरस्कृत्य वीरभद्रपराक्रमाः॥ २९.४२ ॥

त्रिशूलधारिणः सर्वे सर्वे सर्पागभूषणाः॥
सचंद्रशेखराः सर्वे जटाजूटविभूषिताः॥ २९.४३ ॥

निलकण्ठा दशभुजाः पञ्चकत्त्रास्त्रिलोचनाः॥
छत्रचामरसंवीताः सर्वे तेऽत्युग्रबाहवः॥ २९.४४ ॥

वीरभद्रं पुरस्कृत्य सर्वे हरपराक्रमाः॥
युयुधुस्ते तदा दैत्यास्ताकासुरजीविनः॥ २९.४५ ॥

पुनः पुनस्तैश्च तदा बभूवुर्गणैर्जितास्ते ह्यसुराः पराङ्मुखाः॥
बभूव तेषां च तदातिसंगरो महाभयो दैत्यवरैस्तदानीम्॥ २९.४६ ॥

अमृष्यमाणाः परमास्त्रकोविदैस्ततो गणास्ते जयिनो बभूवुः॥
गणैर्जितास्ते ह्यसुराः पराभवं तं तारकं ते व्यथिताः शशंसुः॥ २९.४७ ॥

विनाम्य चापं हि तथा च तारकः स योद्धुकामः प्रविवेश सेनाम्॥
यथा झषो वै प्रविवेश सागरं तथा ह्यसौ दैत्यवरो महात्मा॥ २९.४८ ॥

गणैः समेतो युयुधे तदानीं स वीरभद्रो हि महाबलश्च॥
सर्वान्सुरांश्चेंद्रमुखान्महाबलस्तथा गणान्यक्षपिशाचगुह्यकान्॥
स दैत्यवर्योऽतिरुषं प्रविष्टः संमर्दयामास महाबलो हि॥ २९.४९ ॥

ततः समभवद्युद्धं देवदानवसंकुलम्॥
देवदानवयक्षाणां सन्निपातकरं महत्॥ २९.५० ॥

तथा वृषा गर्जमाना अश्वाञ्जघ्नुश्च सादिभिः॥
रथिभिश्च रथाञ्जघ्नुः कुंजरान्सादिभिः सह॥ २९.५१ ॥

वृषारूढौः सरथैस्ते च सर्वे निष्पाटिता ह्यसुराः पोथिताश्च॥ २९.५२ ॥

क्षयं प्रणीता बहवस्तदानीं पेतुः पृथिव्यां निहताश्च केचित्॥
केचित्प्रविष्टा हि रसातलं च पलायमाना बहवस्तथैव॥ २९.५३ ॥

केचिच्च शरणं प्राप्ता रुद्रानुचरकिंकरान्॥
एवं नष्टं तदा सैन्यं विलोक्यासुरपालकः॥
तारको हि रुषाविष्टो हंतुं देवगणान्ययौ॥ २९.५४ ॥

भुजानामयुतं कृत्वा दैत्यराजो हि तारकः॥
आरुह्य सिंहं सहसा घातयामास तान्रणे॥ २९.५५ ॥

दंशितेन च सिंहेन वृषाः केचिद्विदारिताः॥
तथैव तारकेणैव घातिता बहवो गणाः॥ २९.५६ ॥

एवं कृतं तदा तेन तारकेण महात्मना॥
सर्वेषामेव देवानामशक्यस्तारको महान्॥ २९.५७ ॥

जातस्तदा महाबाहुस्त्रैलोक्यक्षयकारकः॥
तारकस्यानुगा दैत्या अजेया बलवत्तराः॥ २९.५८ ॥

महारूढा दंशिताश्च करालास्ते प्रहारिणः॥
तै राहृता गणाः सर्वे सिंहैश्च वृषभा हताः॥ २९.५९ ॥

एवं निहन्यमाना वै गणास्ते रणमण्डले॥
प्रहस्य विष्णुः प्रोवाच कुमारं शिववल्लभम्॥ २९.६० ॥

॥विष्णुरुवाच॥
नान्यो हंतास्य पापस्य त्वद्विना कृत्तिकासुत॥
तस्मात्त्वया हि कर्त्तव्यं वचनं च महाभुज॥ २९.६१ ॥

तारकस्य वधार्थाय उत्पन्नोऽसि शिवात्मज॥
तस्मात्त्वयैव कर्त्तव्य निधनं तारकस्य च॥ २९.६२ ॥

तच्छ्रुत्वा भगवान्क्रुद्धः पार्वतीनन्दनो महान्॥
उवाच प्रहसन्वाक्यं विष्णुं प्रति यथोचितम्॥ २९.६३ ॥

मया निरीक्ष्यते सम्यक्चित्रयुद्धं महात्मनाम्॥
अनिभिज्ञोऽस्म्यहं विष्णो कार्याकार्यविचारणे॥ २९.६४ ॥

केऽस्मदीयाः परे चैव न जानामि कथंचन॥
किमर्थं युध्यमाना वै परस्परवधे स्थिताः॥ २९.६५ ॥

कुमारस्य वचः श्रुत्वा नारदो वाक्यमब्रवीत्॥ २९.६६ ॥

॥नारद उवाच॥
कुमारोऽसि महाबाहो शंकरस्यांशसंभवः॥
त्वं त्राता जगतां स्वामी देवानां च परा गतिः॥ २९.६७ ॥

तारकेण पुरा वीर तपस्तप्तं सुदारुणम्॥
येनैव विजिता देवा येन स्वर्गस्तथा जितः॥ २९.६८ ॥

तपसा तेन चोग्रेण अजेयत्वमवाप्तवान्॥
अनेनापि जितश्चेंद्रो लोकपालास्तथैव च॥ २९.६९ ॥

त्रैलोक्यं च जितं सर्वं ह्यनेनैव रदुरात्मना॥
तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः॥ २९.७० ॥

सर्वेषां शं विधातव्यं त्वया नाथेन चाद्य वै॥
नारदस्य वचः श्रुत्वा कुमारः प्रहसन्महान्॥
विमाना दवतीर्याथ पदातिः परमोऽभवत्॥ २९.७१ ॥

पद्म्यां तदासौ परिधावमानः शिवात्मजोयं च कुमाररूपी॥
करे समादाय महाप्रभावां शक्तिं महोल्कामिव दीप्तियुक्ताम्॥ २९.७२ ॥

दृष्ट्वा तमायांतमतीव चंडमव्यक्तरूपं बलिनां वरिष्ठम्॥
दैत्यो बभाषे सुरसत्तमानमसौ कुमारो द्विषतां निहंता॥ २९.७३ ॥

अनेन सार्द्धं ह्यहमेव वीरो योत्स्यामि सर्वानहमेव वीरान्॥
गणांश्च सर्वानपि घातयामि महेश्वराँल्लोकपालांश्च सद्यः॥ २९.७४ ॥

इत्येवमुक्त्वा सततं महाबलः कुमारमुद्दिश्य ययौ च योद्धम्॥
जग्राह शक्तिं परमाद्भुतां च स तारको वाक्यमिदं बभाषे॥ २९.७५ ॥

॥तारक उवाच॥
कुमारो मेग्रतश्चाद्य भवद्भिश्च कथं कृतः॥
यूयं गतत्रपा देवा येषां राजा पुरंदरः॥ २९.७६ ॥

पुरा येन कृतं कर्म विदितं सर्वमेव तत्॥
प्रसुप्ताश्चार्द्दिता गर्भे जठरस्था निपातिताः॥ २९.७७ ॥

कश्यपस्यात्मजेनैव बहुरूपो हतोऽसुरः॥
नमुचिश्च हतो वीरो वृत्रश्चैव तथा हतः॥ २९.७८ ॥

कुमारं हंतुमोसौ देवेंद्रो बलघातकः॥
कुमारोऽयं मया देवा घातितोद्य न संशयः॥ २९.७९ ॥

पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः॥
तत्कर्मणः फलं चाद्य वीरभद्र महामते॥
दर्शयिष्यामि ते वीर रणे रणविशारद॥ २९.८० ॥

इत्येवमुक्त्वा स तदा महात्मा दैत्याधिपो वीरवरः स एकः॥
जग्राह शक्तिं परमाद्भुतां च स तारको युद्धविदां वरिष्ठः॥ २९.८१ ॥

इति परमरुषभिभूतो दितितनयः परीवृतोऽसुरेंद्रैः॥
युधि मतिमकरोत्तदा निहंतुं समरविजयी स तारको बलीयान्॥ २९.८२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे सुरतारकासुरसंग्रामवर्णनंनामैकोनत्रिंशोऽध्यायः॥ २९ ॥ छ ॥