स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः १६
वेदव्यासः
अध्यायः १७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५


॥लोमश उवाच॥
ततः शची तान्प्रोवाच वाचं धर्मार्थसंयुताम्॥
मा चिंता क्रियतां देवा बृहस्पतिपुरोगमः॥ १६.१ ॥
गच्छत त्वरिताः सर्वे शक्रं द्रष्टुं विचक्षणाः॥
ब्रह्महत्याभिभूतोऽसौ यत्रास्ते सुरसत्तमः॥ १६.२ ॥
बहूनां कारणेनैव विश्वरूपे हि मंदधीः॥
हतस्तेन महेंद्रेण सर्वैः सोऽपि निराकृतः॥ १६.३ ॥
तस्मात्सर्वैर्भवद्भिश्च गंतव्यं यत्र स प्रभुः॥
अवज्ञा हि कृता पूर्वं महेंद्रेण तवानघ॥ १६.४ ॥
अवज्ञामात्रक्षुबंधेन त्वया शप्तः पुरंदरः॥
तथैव शापितश्चासि मया त्वं हि बृहस्पते॥ १६.५ ॥
निरस्तोऽपि हि तस्मात्त्वमवसानपरो भव॥ १६.६ ॥
यथा मदर्थमानीतौ शक्रे जीवति तावुभौ॥
त्वयि जीवति भो ब्रहमन्कार्यं तव करिष्यति॥ १६.७ ॥
कोऽपि सौभाग्यवाँल्लोके तव क्षेत्रे जनिष्यति॥
पुत्रं विख्यातनामानमत्रनैवास्ति संशयः॥ १६.८ ॥
गच्छ शीघ्रं सुरैःसार्द्धं शक्रमानय म चिरम्॥
प्रयासि त्वरितो नो चेत्पुनः शापं ददामि ते॥ १६.९ ॥
शच्योक्तं वचनं श्रुत्वा सुरैः सार्द्धं जगाम सः॥
पुरंदरं गताः सर्वे ब्रह्महत्याभिपीडितम्॥ १६.१० ॥
सरसस्तीरमासाद्य ते शक्रं चाभ्यवादयन्॥
दृष्टाः शक्रेम ते सर्वे तदा ह्यप्सु स्थितेन वै॥ १६.११ ॥
उवाच देवानेदेवेशः कस्माद्यूयमिहागताः॥
अहं हि पातकग्रस्तो ब्रह्महत्यापरिप्सुतः॥
अप्सु तिष्ठामि भो देवा एकाकी तपसान्वितः॥ १६.१२ ॥
तच्छ्रुत्वा वचनं तस्य सर्वे देवाः शतक्रतोः॥
ऊचुर्विह्वलिता एनं देवराजानमद्भुतम्॥ १६.१३ ॥
एतादृशं न वाच्यं ते परेषामुपकारतः॥
कृतं त्वयैव यत्कर्म विश्वरूपवधादिकम्॥ १६.१४ ॥
विश्वकर्मसुतेनैव कृतं याजनमद्भुतम्॥
येन देवाः क्षयं यांति ऋषयोऽपि महाप्रभाः॥ १६.१५ ॥
तस्माद्वतस्त्वया देव परेषामुपकारतः॥
ततः सर्वे वयं प्राप्तास्त्वां नेतुममरावतीम्॥ १६.१६ ॥
एवं विवदमानेषु देवेषु च तदाऽब्रवीत्॥
ब्रह्महत्या त्वरायुक्ता देवेंद्रं वरयाम्यहम्॥ १६.१७ ॥
तदा बृहस्पतिर्वाक्यमुवाच सहसैव तु॥ १६.१८ ॥
॥बृहस्पतिरुवाच॥
वासार्थं च करिष्यामः स्थानानि तव सांप्रतम्॥
प्रसांत्विता तदा हत्या देवैस्तत्कार्यगौरवात्॥ १६.१९ ॥
विमृश्य सर्वे विभजुश्चतुर्द्धा हत्यां सुरास्ते ऋषयो मनीषिणः॥
यक्षाः पिशाचा उरगाः पतंगास्तथा च सर्वे सुरसिद्धचारणाः॥ १६.२० ॥
आदौ क्षमां प्रति तदा ऊचुः सर्वे दिवौकसः॥
हे क्षमेंऽशस्त्वया ग्राह्यो हत्यायाः कार्यसिद्धये॥ १६.२१ ॥
सुराणां तद्वचः श्रुत्वा धरित्री कंपिताऽवदत्॥
कथं ग्राह्ये मया ह्यंशो हत्यायास्तद्विमृश्यताम्॥ १६.२२ ॥
अहं हि सर्वभूतानां धात्री विश्वं धराम्यहम्॥
अपवित्रा भविष्यामि एनसा संवृता भृशम्॥ १६.२३ ॥
पृथ्वयास्तद्वचनं श्रुत्वा बृहस्पतिरुवाच ताम्॥
मा भौषीश्चारुसर्वांगि निष्पापासि न चान्यथा॥ १६.२४ ॥
यदा यदुकुले श्रीमान्वासुदेवो भविष्यति॥
तदा तत्पदविन्यासान्नष्पापा त्वं भविष्यसि॥ १६.२५ ॥
कुरु वाक्यं त्वमस्माकं नात्र कार्या विचारणा॥ १६.२६ ॥
इत्युक्ता पृथिवी तेषां निष्पापा साकरोद्वचः॥
ततो वृक्षान्समाहूय सर्वे देवाऽब्रुवन्वचः॥ १६.२७ ॥
हत्यांशो हि ग्रहीतव्यो भवद्भिः कार्यसिद्धये॥
एवमुक्ताऽब्रुवन्वबृक्षा देवान्सर्वे समागताः॥ १६.२८ ॥
वयं सर्वे तथा भूतास्तापसानां फलप्रदाः॥
तदा हत्यान्विताः सर्वे भविष्यंति तपस्विनः॥ १६.२९ ॥
पापिनो हि महाभागास्तस्मात्सर्वं विमृश्यताम्॥
तदा पुरोधसा चोक्ताः सर्वे वृक्षाः समागताः॥ १६.३० ॥
मा चिंता क्रियतां सर्वैः प्रसादाच्च शतक्रतोः॥
छेदिताश्चैव सर्वे वै ह्यनेकांशत्वमागताः॥ १६.३१ ॥
ततो विटपिनो नित्यं यूयं सर्वे भविष्यथ॥
इत्युक्तास्ते तदा सर्वेगृह्णन्हत्यां विभागशः॥ १६.३२ ॥
ततो ह्यपः समाहूय ऊचुः सर्वे दिवौकसः॥
अद्भिश्च गृह्यतामद्य हत्यांशः कार्यसिद्धये॥ १६.३३ ॥
तदा ह्यापो मिलित्वाथ ऊचुः सर्वाः पुरोधसम्॥
यानि कानि च पापानि तथा दुश्चरितानि च॥ १६.३४ ॥
अस्मत्संपर्कसंबंधात्स्नानशौचाशनादिभिः॥
पुनंति प्राणिनः सर्वे पापेन परिवेष्टिताः॥ १६.३५ ॥
तासां वचनमाकर्ण्य बृहस्पतिरुवाच ह॥
मा भयं क्रियतामाप एनसा दुस्तरेण हि॥ १६.३६ ॥
आपः पुनंतु सर्वेषां चराचरनिवासिनाम्॥
तदा स्त्रियः समाहूय बृहस्पतिरुवाच ह॥ १६.३७ ॥
अद्यैव ग्राह्ये हत्यांशः सर्वकार्यार्थसिद्धये॥
निशम्य तद्गुरोर्वाक्यमूचुः सर्वाश्चयोपितः॥ १६.३८ ॥
पापमाचरते योषा तेन पापेन नान्यथा॥
लिप्यंते बहवः पक्षा इति वेदानुशासनम्॥ १६.३९ ॥
श्रुतमस्ति न ते किंचिद्धेपुरोधो विमृश्यताम्॥
योषिद्भिः प्रोच्यमानोऽपि उवाचाथ बृहस्पतिः॥ १६.४० ॥
मा भयं क्रियतां सर्वाः पापादस्मात्सुलोचनाः॥
भविष्याणां तथान्येषां भविष्यति फलप्रदः॥
हत्यांशो यो हि सर्वासां यथाकामित्वमेव च॥ १६.४१ ॥
एवमंशाश्च त्यायाश्चत्वारः कल्पिताः सुरैः॥
निवासमकरोत्सद्यस्तेषुतेषु द्विजोत्तमाः॥ १६.४२ ॥
निष्पापो हि तदा जातो महेंद्रो ह्यभिषेचितः॥
देवपुर्यां सुरगणैस्तथैव ऋषभिः सह॥ १६.४३ ॥
शच्या समेतो हि तदा पुरंदरो बभूव विश्वाधिपतिर्महात्मा॥
देवैः समेतो हि महानुभावैर्मुनीश्वरैः सिद्धगणैस्तदानीम्॥ १६.४४ ॥
तदाग्नयः शोभना वायवश्च सर्वे ग्रहाः सुप्रभाः शांतियुक्ताः॥
जाताः सद्यः पृथिवी शोभमाना तथाद्रयो मणिप्रभवा बभूवुः॥ १६.४५ ॥
प्रसन्नानि तथा ह्यासन्मनांसि च मनस्विनाम्॥ १६.४६ ॥
नद्यश्चामृतवाहिन्यो वृक्षा ह्यासन्सदाफलाः॥
अकृष्टपच्यौषधयो बभूवुश्चमृतोपमाः॥ १६.४७ ॥
ऐकपद्येन सर्वेषामिंद्रलोकनिवासिनाम्॥
बभूव परमोत्साहो महामोदकरस्तथा॥ १६.४८ ॥
॥लोमश उवाच॥
एतस्मिन्नंतरे त्वष्टा दृष्ट्वा चेंद्रमहोत्सवम्॥
बभूव रुषि तोऽतीव पुत्रशोकप्रपीडितः॥ १६.४९ ॥
जगाम निर्वेदपरस्तपस्तप्तुं सुदारुणम्॥
तपसा तेन संतुष्टो ब्रह्मा लोकपितामहः॥ १६.५० ॥
त्वष्टारमब्रवीत्तुष्टो वरं वरय सुव्रत॥
तदा वव्रे वरं त्वष्टा सर्वलोकभयावहम्॥
वरं पुत्रो हि दात्वोय देवानां हि भयावहः॥ १६.५१ ॥
तथेति च वरो दत्तो ब्रह्मणा परमेष्ठिना॥
वरदानात्सद्य एव बभूव पुरुषस्तदा॥ १६.५२ ॥
वृत्रनामांकितस्तत्र दैत्यो हि परमाद्भुतः॥
धनुषां शतमात्रं हि प्रत्यहं ववृधेऽसुरः॥ १६.५३ ॥
पातालान्निर्गता दैत्या ये पुराऽमृतमंथने॥
घातिताः सुरसंघैश्च भृगुणा जीवितास्त्वरात्॥ १६.५४ ॥
सर्वं महीतलं व्याप्तं तेनैकेन महात्मना॥ १६.५५ ॥
तदा सर्वेऽपि ऋषयो वध्यमानास्तपस्विनः॥
ब्रह्माणं त्वरिताः सर्वे ऊचुर्व्यसनमागतम्॥ १६.५६ ॥
तथा चेंद्रादयो देवा गंधर्वाः समरुद्गणाः॥
ब्रह्मणा कथितं सर्वं त्वष्टुश्चैतच्चिकीर्षितम्॥ १६.५७ ॥
भवद्वधार्थं जनितस्तपसा परमेण तु॥
वृत्त्रोनाम महातेजाः सर्वदैत्यापिधो महान्॥ १६.५८ ॥
तथापि यत्नः क्रियतां यथा वध्यो भवेदसौ॥
निशम्य ब्रह्मणो वाक्यमूचुर्द्देवाः सवासवाः॥ १६.५९ ॥
॥ देवा ऊचुः॥
यदा इंद्रो हि हत्याया विमुक्तः स्थापितो दिवि॥
तदास्माभिरकार्यं वै कृतमस्ति दुरासदम्॥ १६.६० ॥
शस्त्राण्यस्त्राण्यनेकानि संक्षिप्तानि ह्यबुद्धितः॥
दधीच स्याश्रमे ब्रह्मन्किं कार्यं करवामहे॥ १६.६१ ॥
तच्छ्रुत्वा प्रहसन्वाक्यं देवान्ब्रह्मा तदाऽब्रवीत्॥
चिरं स्थितानि विज्ञायागच्छध्वं तानि वै सुराः॥ १६.६२ ॥
गत्वा देवास्तदा सर्वे नापश्यन्स्वं स्वमायुधम्॥
पप्रच्छुश्च दधीचिं ते सोऽवादीन्नैव वेद्भयहम्॥ १६.६३ ॥
पुनर्ब्रह्माणमागात्य ऊचुः सर्वे मुनेर्वचः॥ १६.६४ ॥
ब्रह्मोवाच तदा देवान्सर्वेषां कार्यसिद्धये॥
तस्यास्थीन्येव याचध्वं प्रदास्यति न संशयः॥ १६.६५ ॥
तच्छ्रुत्वा ब्राह्मणो वाक्यं शक्रो वचनमब्रवीत्॥ १६.६६ ॥
विश्वरूपो हतो देव देवानां कार्यसिद्धये॥
एक एव तदा ब्रह्मन्पापिष्ठोऽहं कृतः सुरैः॥ १६.६७ ॥
तथा पुरोधसा चैव निःश्रीकस्तत्क्षणात्कृतः॥
दिष्ट्या परमया चाहं प्रविष्टो निजमंदिरम्॥ १६.६८ ॥
दधीचं घातयित्वा वै तस्यास्थीनि बहून्यपि॥
अस्त्राणि तानि भगवन्कृतानि ह्यशुभानि वै॥ १६.६९ ॥
त्वष्ट्रा हि जनितो यो वै वृत्रो नामैष दैत्यराट्॥
कथं तं घातयाम्येवं सततं पापभीरुणा॥
शक्रेणोक्तं निशम्याथ ब्रह्मा वाक्यमुवाच ह॥ १६.७० ॥
अर्थशास्त्रपरेणैव विधिना तमबोधयत्॥
आततायिनमायांतं ब्राह्मणं वा तपस्विनम्॥
हंतुकामं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ १६.७१ ॥
॥इन्द्र उवाच॥
दधीचस्य वधाद्ब्रह्मन्नहं भीतो न संशयः॥
तस्माद्ब्रह्मवधात्सत्यं महदेनो भविष्यति॥ १६.७२ ॥
अतो न कार्यमस्माभिर्ब्राह्मणानां तु हेलनम्॥
हेलनाद्बहवो दोषा भविष्यंति न चान्यथा॥ १६.७३ ॥
अदृष्टं परमं धर्म्यं विधिना परमेण हि॥
कर्तव्यं मनसा चैवं पुरुषेण विजानता॥ १६.७४ ॥
निःस्पृहं तस्य तद्वाक्यं श्रुत्वा ब्रह्मा ह्युवाच तम्॥
शक्रस्वबुद्ध्यावर्तस्व दधीचिं गच्छ सत्वरम्॥ १६.७५ ॥
याचस्व तस्य चास्थीनि दधीचेः कार्यगौरवात्॥
गुरुणा सहितः शक्रो देवैः सह समन्वितः॥ १६.७६ ॥
तथेति गत्वा ते सर्वे दधीचस्याश्रमं शुभम्॥
नानासत्त्वसमायुक्तं वैरबावविवर्जितम्॥ १६.७७ ॥
मार्जारमूषकाश्चैव परस्परमुदान्विताः॥
ऐकपद्येन सिंहाश्च गजिन्यः कलभैः सह॥ १६.७८ ॥
तथा जात्यश्च विविधाः क्रीडायुक्ताः परस्परम्॥
नकुलैः सह सर्पाश्च क्रीडायुक्ताः परस्परम्॥ १६.७९ ॥
एवंविधान्यनेकानि ह्यश्चर्याणि तदाश्रमे॥
पश्यंतो विबुधाः सर्वे विस्मयं परमं ययुः॥ १६.८० ॥
अथासने मुनिश्रेष्ठं ददृशुः परमास्थितम्॥
तेजसा परमेणैव भ्राजमानं यथा रविम्॥ १६.८१ ॥
विभावसुं द्वितीयं वा सुवर्चसहितं तदा॥
यथा ब्रह्मा हि सावित्र्या तथासौ मुनिसत्तमः॥ १६.८२ ॥
तं प्रणम्य ततो देवा वचनं चेदमब्रुवन्॥
त्वं दाता त्रिषु लोकेषु त्वत्सकाशमिहगताः॥ १६.८३ ॥
निशम्य वचनं तेषां देवानां भुनिरब्रवीत्॥
किमर्थ मागताः सर्वे वदध्वं तत्सुरोत्तमाः॥ १६.८४ ॥
प्रयच्छामि न संदेहो नान्यथा मम भाषितम्॥
तदोचुः सहिताः सर्वे दधीचिं स्वार्थकामुकाः॥ १६.८५ ॥
भयभीता वयं विप्र भवद्दर्शनकांक्षिणः॥
त्रातारं त्वां समाकर्ण्य ब्रह्मणा नोदिता वयम्॥ १६.८६ ॥
सम्प्राप्ता विद्धि तत्सर्वं दातुमर्होऽथ सुव्रत॥ १६.८७ ॥
निशम्य वचनं तेषां किं दातव्यं तदुच्यताम्॥ १६.८८ ॥
ततो देवाब्रुवन्विप्र दैत्यानां निधनायनः॥
शस्त्रनिर्माणकार्यार्थं तवास्थीनि प्रयच्छ वै॥ १६.८९ ॥
प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेव हि॥
स्वयमेव त्वहं देवास्त्यक्ष्याम्यद्य कलेवरम्॥ १६.९० ॥
इत्युक्त्वा तानथो पत्नीं समाहूय सुवर्चसम्॥
प्रोवाच स महातेजाः श्रृणु देवी शुचिस्मिते॥ १६.९१ ॥
अस्थ्यर्थं याचितो देवैस्त्यजाम्येतत्कलेवरम्॥
ब्रह्मलोकं व्रजाम्यद्य परमेण समाधिना॥ १६.९२ ॥
मयि याते ब्रह्मलोकं त्वं स्वधर्मेण तत्र माम्॥
प्राप्स्यस्येव न संदेहो वृथा चिन्तां च मा कृथाः॥ १६.९३ ॥
इत्युक्त्वा तां स्वपत्नीं स प्रेषयामास चाश्रमम्॥
ततो देवाग्रतो विप्रः समाधिमगमत्तदा॥ १६.९४ ॥
समाधिना परेणैव विसृज्य स्वं कलेवरम्॥
ब्रह्मलोकं गतः सद्यः पुनर्नावर्तते यतः॥ १६.९५ ॥
दधीचिनामा मुनिवृंदवर्यः शिवप्रियः शिवदीक्षाभियुक्तः॥
परोपकारार्थमिदं कलेवरं शीघ्रं स विप्रोऽत्यजदात्मना तदा॥ १६.९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे देवैरस्थिकृताऽभ्यर्थितस्य दधीचेर्योगेन स्वदेहविसर्जननाम षोडशोऽध्यायः॥ १६ ॥ छ ॥