स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २० स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २१
वेदव्यासः
अध्यायः २२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
वर्द्धमाना तदा साध्वी रराज प्रतिवासरम्॥
अष्टवर्षा यदा जाता हिमालयगृहे सती॥ २१.१ ॥

महेशो हिमवद्द्रोण्यां तताप परमं तपः॥
सर्वैर्गणैः परिवृतो वीरभद्रादिभिस्तदा॥ २१.२ ॥

एतत्तपो जुषाणं तं महेशं हिमवान्ययौ॥
तत्पादपल्लवं द्रष्टुं पार्वत्या सह बुद्धिमान्॥ २१.३ ॥

यावत्समागतो द्रष्टं नंदिनासौ निवारितः॥
द्वारि स्थिते च तदा क्षणमेकं स्थिरोऽभवत्॥ २१.४ ॥

पुनर्विज्ञापयामास नंदिना हिमवान्गिरिः॥
विज्ञप्तो नंदिना शंभुरचलो द्रष्टुमागतः॥ २१.५ ॥

तदाकर्ण्य वचस्तस्य नंदिनः परमेश्वरः॥
आनयस्व गिरिं चात्र नंदिनं वाक्यमब्रवीत्॥ २१.६ ॥

तथेति मत्वा नंदी तं पर्वतं च हिमाचलम्॥
आनयामास स तथा शंकरं लोकशंकरम्॥ २१.७ ॥

दृष्ट्वा तदानीं सकलेश्वरं प्रभुं तपो जुषाणं विनिमीलितेक्षणम्॥ २१.८ ॥

कपर्द्धिनं चंद्रकलाविभूषणं वेदांतवेद्यं परमात्मनि स्थितम्॥
ववंद शीर्ष्णा च तदा हिमाचलः परां मुदं प्रापदहीनसत्त्वः॥ २१.९ ॥

उवाच वाक्यं जगदेकमंगलं हिमालयो वाक्यविदां वरिष्ठः॥ २१.१० ॥

सभाग्योऽहं महादेव प्रसादात्तव शंकर॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो॥ २१.११ ॥

अनया सह देवेश अनुज्ञां दातुर्महसि॥
श्रुत्वा तु वचनं तस्य देवदेवो महेश्वरः॥ २१.१२ ॥

आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल॥
कुमारीं च गृहे स्थाप्य नान्यथा मम दर्शनम्॥ २१.१३ ॥

अचलः प्रत्युवाचेदं गिरिशं नतकंधरः॥
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम्॥
अचलं च व्रीत शंभुः प्रहसन्वाक्यमब्रवीत्॥ २१.१४ ॥

इयं कुमारी सुश्रोणी तन्वी चारुप्रभाषिणी॥
नानेतव्या मत्समीपे वारयामि पुनः पुनः॥ २१.१५ ॥

एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहनिष्ठुरं वा॥
तपस्विनोक्तं वचनं निशम्य उवाच गौरी च विहस्य शंभुम्॥ २१.१६ ॥

॥गौर्युवाच॥
तपःशक्त्यान्वितः शंभो करोषि विपुलं तपः॥
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः॥ २१.१७ ॥

कस्त्वं का प्रकृतिः सूक्ष्मा भगवंस्तद्विमृश्यताम्॥
पार्वत्यास्तद्वचः श्रुत्वा महेशो वाक्यमब्रवीत्॥ २१.१८ ॥

तपसा परमेणैव प्रकृतिं नाशयाम्यहम्॥
प्रकृत्या रहितः सुभ्रु अहं तिष्ठमि तत्त्वतः॥
तस्माच्च प्रकृते सिद्धैर् कार्यः संग्रहः क्वचित्॥ २१.१९ ॥

॥पार्वत्युवाच॥
यदुक्तं परया वाचा वचननं शंकर त्वया॥
सा किं प्रकृति र्नैव स्यादतीतस्तां भवान्कथम्॥ २१.२० ॥

यच्छृणोपि यदश्रासि यच्च पश्यसि शंकर॥
वाग्वादेन च किं कार्यमस्माके चाधुना प्रभो॥ २१.२१ ॥

तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निर्र्थकः॥
प्रकृतेः परतो भूत्वा किमर्थं तप्यते तपः॥ २१.२२ ॥

त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो॥
प्रकृत्या मिलितोऽसि त्वं न जानासि हि शंकर॥ २१.२३ ॥

वाग्वादेन च किं कार्यमस्माकं चाधुना प्रभो॥
प्रकृतेः परतस्त्वं च यदि सत्यं वचस्तव॥
तर्हि त्वया न भेतव्यं मम शंकर संप्रति॥ २१.२४ ॥

प्रहस्य भगवान्देवो गिरिजां प्रत्युवाच ह॥ २१.२५ ॥

॥महादेव उवाच॥
प्रत्यहं कुरु मे सेवां गिरिजे साधुभाषिणि॥ २१.२७ ॥

इत्येवमुक्त्वा गिरिजां महेशो हिमालयं वाक्यमथो बभाषे॥
अत्रैव सोऽहं तपसा परेण चरामि भूम्यां परमार्थभावः॥ २१.२७ ॥

तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप॥
अनुज्ञया विना किंचित्तपः कर्तुं न पार्यते॥ २१.२८ ॥

एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः॥
प्रहस्य हिमवाञ्छंभुमिदं वचनमब्रवीत्॥ २१.२९ ॥

त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम्॥
किमहं तु महादेव तुच्छो भूत्वा ददामि ते॥ २१.३० ॥

एवमुक्तो हिमवता शंकरो लोकशंकरः॥
प्रहस्य गिरिराजं तं याहीति प्राह सादरम्॥ २१.३१ ॥

शंकरेणाब्यनुज्ञातः स्वगृहं हिमवान्ययौ॥
सार्द्धं गिरिजया सोऽपि प्रत्यहं दर्शने स्थितः॥ २१.३२ ॥

एवं कतिपयः कालो गतश्चोपासनात्तयोः॥ २१.३३ ॥

सुतापित्रोश्च तत्रैव शंकरो दुरतिक्रमः॥
पार्वतीं प्रति तत्रैव चिंतामापेदिरे सुराः॥ २१.३४ ॥

ते चिंत्यमानाश्च सुरास्तदानीं कथं महेशो गिरिजां समेष्यति॥
किं कार्यमद्यैव वयं च कुर्मो बृहस्पते तत्कथयस्व मा चिरम्॥ २१.३५ ॥

बृहस्पतिरुवाचेदं महेंद्रं प्रति सद्वचः॥
एवमेतत्त्वया कार्यं महेंद्र श्रूयतां तदा॥ २१.३६ ॥

एतत्कार्यं मदनेनैव राजन्नान्यः समर्थो भविता त्रिलोके॥
विप्लावितं तापसानां तपो हि तस्मात्त्वरात्प्रार्थनीयो हि मारः॥ २१.३७ ॥

गुरोर्वचनमाकर्ण्य आह्वयन्मदनं हरिः॥
आह्वानादाजगामाथ मदनः कार्यसाधकः॥ २१.३८ ॥

रत्या समेतः सह माधवेन स पुष्पधन्वा पुरतः सभायाम्॥
महेंद्रमागम्य उवाच वाक्यं सगर्वितं लोकमनोहरं च॥ २१.३९ ॥

अहमाकारितः कस्माद्ब्रूहि मेऽद्य शचीपते॥
किं कार्यं करवाण्यद्य कथ्यतां मा विलंबितम्॥ २१.४० ॥

मम स्मरणमात्रेण विभ्रष्टा हि तपस्विनः॥
त्वमेव जानासि हरे मम वीर्यपराक्रमौ॥ २१.४१ ॥

मम वीर्यं च जानाति शक्तेः पुत्रः पराशरः॥
एवं चानये च बहवो भृग्वाद्य ऋषयो ह्यमी॥ २१.४२ ॥

गुरुरप्यभिजानाति भार्योतथ्यस्य चैव हि॥
तस्यां जातो भरद्वाजो गुरुणा संकरो हि सः॥ २१.४३ ॥

भरद्वाजो महाभाग इत्युवाच गुरुस्तदा॥
जानाति मम वीर्यं च शौर्यं चैव प्रजापतिः॥ २१.४४ ॥

क्रोधो हि मम बंधुश्च महाबलपरक्रमः॥
उभाभ्यां द्रावितं विश्वं जंगमाजंगमं महत्॥
ब्रह्मादिस्तंबपर्यंतं प्लावितं सचराचरम्॥ २१.४५ ॥

॥देवा ऊचुः॥
मदनद्वं समर्थोसि अस्माञ्जेतुं सदैव हि॥
महेशं प्रति गच्छाशु सुरकार्यार्थसिद्धये॥
पार्वत्या सहितं शंभुं कुरुष्वाद्य महामते॥ २१.४६ ॥

एवमभ्यर्थितो देवैर्मदनो विश्वमोहनः॥
जगाम त्वरितो भूत्वा अप्सरोभिः समन्वितः॥ २१.४७ ॥

ततो जगामाशु महाधनुर्द्धरो विस्फार्य चापं कुसुमान्वितं महत्॥
तथैव बाणांश्च मनोरमांश्च प्रगृह्य वीरो भुवनैकजेता॥
तस्मिन्हिमाद्रौ परिदृश्यमानोऽवनौ स्मरो योधयतां वरिष्ठः॥ २१.४८ ॥

तत्रागता तदा रंभा उर्वशी पुंजिकस्थली॥
सुम्लोचा मिश्रकेशी च सुभगा च तिलोत्तमा॥ २१.४९ ॥

अन्याश्च विविधाः जाताः साहाय्ये मदनस्य च॥
अप्सरसो गणैर्दृष्टा मदनेन सहैव ताः॥ २१.५० ॥

सर्वे गणाश्च सहसा मदनेन विमोहिताः॥
भृंगिणा च तदा रंभा चण्डेन सह चोर्वशी॥ २१.५१ ॥

मेनका वीरभद्रेण चण्डेन पुंजिकस्थली॥
तिलोत्तमादयस्तत्र संवृताश्च गणैस्तदा॥ २१.५२ ॥

अमत्तभूतैर्बहुभिस्त्रपां त्यक्त्वा मनीषिभिः॥
अकाले कोकिला भिश्च व्याप्तामासीन्महीतलम्॥ २१.५३ ॥

अशोकाश्चंपकाश्चूता यूथ्यश्चैव कदंबकाः॥
नीषाः प्रियालाः पनसा राजवृक्षाश्चरायणाः॥ २१.५४ ॥

द्राक्षावल्लयः प्रदृश्यंते बहुला नागकेशराः॥
तथा कदल्यः केतक्यो भ्रमरैरुपशोभिताः॥ २१.५५ ॥

मत्ता मदनसंगेन हंसीभिः कलहंसकाः॥
करेणुभिर्गजाह्यासञ्छिखंडीभिः शिखंडिनः॥ २१.५६ ॥

निष्कामा ह्यतुरा ह्यासञ्छिवसंपर्कजैर्गुणैः॥
अकस्माच्च तथाभूतं कथं जातं विमृश्य च॥ २१.५७ ॥

शैलादो हि महातेजा नंदी ह्यमितविक्रमः॥
रक्षसं विबुधानां वा कृत्यमस्तीत्यचिंतयत्॥ २१.५८ ॥

एतस्मिन्नंतरे तत्र मदनो हि धनुर्द्धरः॥
पंचबाणान्समारोप्य स्वकीये धनुषि द्विजाः॥
तरोश्छायां समाश्रित्य देवदारुगतां तदा॥ २१.५९ ॥

निरीक्ष्य शंभुं परमासने स्तितं तपो जुषाणं परमेष्ठिनां पतिम्॥
गंगाधरं नीलतमालकंठं कपर्दिनं चन्द्रकलासमेतम्॥ २१.६० ॥

भुजंगभोगांकितसर्वगात्रं पंचाननं सिंहविशालविक्रमम्॥
कर्पूरगौरे परयान्वितं च स वेद्धुकामो मदनस्तपस्विनम्॥ २१.६१ ॥

दुरासदं दीप्तिमतां वरिष्ठं महेशमुग्रं सह माधवेन॥
यावच्छिवं वेद्धुकामः शरेण तावद्याता गिरिजा विश्वमाता॥
सखीजनैः संवृता पूजनार्थं सदाशिवं मंगलं मंगलानाम्॥ २१.६२ ॥

कनककुसुममालां संदधे नीलकंठे सितकिरणमनोज्ञादुर्ल्लभा सा तदानीम्॥
स्मितविकसितनेत्रा चारुवक्त्रं शिवस्य सकलजननित्री वीक्षमाणा बभूव॥ २१.६३ ॥

तावद्विद्धः शरेणैव मोहनाख्येन चत्वरात्॥
विध्यमानस्तदा शंभुः शनैरुन्मील्य लोचने॥
ददर्श गिरिजां देवोब्धिर्यथा शशिनः कलाम्॥ २१.६४ ॥

चारुप्रसन्नवदनां बिंबोष्ठीं सस्मितेक्षणाम्॥
सुद्विजामग्निजां तन्वीं विशालवदनोत्सवाम्॥ २१.६५ ॥

गौरीं प्रसन्नमुद्रां च विश्वमोहनमोहनाम्॥
यया त्रिलोकरचना कृता ब्रह्मादिभिः सह॥ २१.६६ ॥

उत्पत्तिपालनविनाशकरी च या वै कृत्वाग्रतः सत्त्वरजस्तमांसि॥
सा चेतनेन ददृशे पुरतो हरेण संमोहनी सकलमंगलमंगलैका॥ २१.६७ ॥

तां निरीक्ष्य भवो देवो गिरिजां लोकपावनीम्॥
मुमोह दर्शनात्तस्या मदनेनातुरीकृतः॥
विस्मयोत्फुल्लनयनो बभूव सहसा शिवः॥ २१.६८ ॥

एवं विलोकमानोऽसौ देवदेवो जगत्पतिः॥
मनसा दूयमानेन इदमाह सदाशिवः॥ २१.६९ ॥

अनया मोहितः कस्मात्तपःस्थोऽहं निरामयः॥
कुतः कस्माच्च केनेदं कृतमस्ति ममाप्रियम्॥ २१.७० ॥

ततो व्यलोकयच्छंभुर्द्दिक्षु सर्वासु सादरम्॥
तावद्दृष्टो दक्षिणस्यां दिशि ह्यात्तशरासनः॥ २१.७१ ॥

चक्रीकृतधनुः सज्जं चक्रे बेद्धुं सदाशिवम्॥
यावत्पुनः संधयति मदनो मदनांतकम्॥
तावद्दृष्टो महेशेन सरोषेण तदा द्विजाः॥ २१.७२ ॥

निरीक्षितस्तृतीयेन चक्षुषा परमेण हि॥
मदनस्तत्क्षणादेव ज्वालामालावृतोऽभवत्॥
हाहाकारो महानासीद्देवानां तत्र पश्यताम्॥ २१.७३ ॥

॥देवा ऊचुः॥
देवदेव महादेव देवानां वरदो भव॥
गिरिजायाः सहायार्थं प्रेषितो मदनोऽधुना॥ २१.७४ ॥

वृथा त्वयाथ दग्धोऽसौ मदनो हि महाप्रभः॥ २१.७५ ॥

त्वया हि कार्यं जगदेकबंधो कार्यं सुराणां परमेण वर्चसा॥
अस्यां समुत्पत्स्यति देव शंभो तेनैव सर्वं भवतीह कार्यम्॥ २१.७६ ॥

तारकेण महादेव देवाः संपीडिता भृशम्॥
तदर्थं जीवितं चास्य दत्त्वा च गिरिजां प्रभो॥ २१.७७ ॥

वरयस्व महाभाग देवाकार्ये भव क्षमः॥
गजासुरात्तवया त्राता वयं सर्वे दिवौकसः॥ २१.७८ ॥

कालकूटाच्च नूनं हि रक्षिताः स्मो न चान्यथा॥
भस्मासुराच्च सर्वेश त्वया त्राता न संशयः॥ २१.७९ ॥

मदनोयं समायातः सुराणां कार्यसिद्धये॥
तस्मात्त्वया रक्षणीय उपकारः परो हि नः॥ २१.८० ॥

विना तेन जगत्सर्वं नाशमेष्यति शंकर॥
निष्कामस्त्वं कथं शंभो स्वबुद्ध्या च विमृस्यताम्॥ २१.८१ ॥

तदोवाच रुषाविष्टो देवान्प्रति महेश्वरः॥
विना कामेन भो देवा भवितव्यं न चान्यथा॥ २१.८२ ॥

यदाःकामं पुरस्कृत्य सर्वे देवाः सवासवाः॥
पदभ्रष्टाश्च दुःखेन व्याप्ता दैन्यं समाश्रिताः॥ २१.८३ ॥

कामो हि नरकायैव सर्वेषां प्राणिनां ध्रुवम्॥
दुःखरूपी ह्यनंगोऽयं जानीध्वं मम भाषितम्॥ २१.८४ ॥

तारकोऽपि दुराचारो निष्कामोऽद्य भविष्यति॥
विनाकामेन च कथं पापमाचरते नरः॥ २१.८५ ॥

तस्मात्कामो मया दग्धः सर्वेषां शांतिहेतवे॥
युष्माभिश्च सुरैः सर्वैरसुरैश्च महर्षिभिः॥ २१.८६ ॥

अन्यैः प्राणिभिरेवात्र तपसे धीयतां मनः॥
कामक्रोधविहीनं च जगत्सर्वं मया कृतम्॥ २१.८७ ॥

तस्मादेनं पापिनं दुःखमूलं न जीवयिष्यामि सुराः प्रतीक्ष्यताम्॥
निरन्तरं चात्मसुखप्रबोधमानंदलक्षणमागाधमनन्यरूपम्॥ २१.८८ ॥

एवमुक्तास्तदा तेन शंभुना परमेष्ठिना॥
ऊचुर्महर्षयः सर्वे शकर लोकशंकरम्॥ २१.८९ ॥

यदुक्तं भवता शंभो परं श्रेयस्करं हि नः॥
किं तु वक्ष्याम देवेश श्रूयतां चावधार्यताम्॥ २१.९० ॥

यथा सृष्टमिदं विश्वं कामक्रोधसमन्वितम्॥
तत्सर्वं कामरूपं हि स कामो न तु हन्यते॥ २१.९१ ॥

धर्मार्थकामामोक्षाश्च चत्वारो ह्येकरूपताम्॥
नीतायेन महादेव स कामोऽयं न हन्यते॥ २१.९२ ॥

कथं त्वया हि संदग्धः कामो हि दुरतिक्रमः॥
येन संघटितं विश्वमाब्रह्मस्थावरात्मकम्॥ २१.९३ ॥

कामेन हीयते विश्वं कामेन पाल्यते॥
कामेनोत्पद्यते विश्वं तस्मात्कामो महाबलः॥ २१.९४ ॥

यस्मात्क्रोधो भवत्युग्रो येन त्वं च वशीकृतः॥
तस्मात्कामं महादेव संबोधयितुमर्हसि॥ २१.९५ ॥

त्वया संपादितो देव मदनो हि महाबलः॥
समर्थो हि समर्थत्वात्तत्सामर्थ्यं करिष्यति॥ २१.९६ ॥

ऋषिभिश्चैवमुक्तोऽपि द्विगुणं रूपमास्थितः॥
चक्षुषा हि तृतीयेन दग्धुकामो हरस्तदा॥ २१.९७ ॥

मुनिभिश्चारणैः सिद्धैर्गणैश्चापि सदाशिवः॥
स्तुतश्च वंदितो रुद्रः पिनाकी वृषवाहनः॥ २१.९८ ॥

मदनं च तथा दग्ध्वा त्यक्त्वा तं पर्वतं रुषा॥
हिमवंताभिधं सद्यस्तिरोधानगतोऽभवत्॥ २१.९९ ॥

तिरोधानगतं देवी वीक्ष्य दग्धं च मन्मथम्॥
सकोकिलं सचूतं च सभृंगं सहचंपकम्॥ २१.१०० ॥

तथैव दग्धं मदनं विलोक्य रत्या विलापं च तदा मनस्विनी॥
सबाष्पदीर्घं विमना विमृस्य कथं स रुद्रो वशगो भवेन्मम॥ २१.१०१ ॥

एवं विमृश्य सुचिरं गिरिजा तदानीं संमोहमाप च सती हि तथा बभाषे॥
संमुह्यमाना रुदतीं निरीश्यरतिर्महारूपवतीं मनस्विनीम्॥ २१.१०२ ॥

मा विषादं कुरु सखि मदनं जीवयाम्यहम्॥
त्वदर्थं भो विशालाक्षि तपसाऽऽराधयाम्यहम्॥ २१.१०३ ॥

हरं रुद्रं विरुपाक्षं देवदेवं जगद्गुरुम्॥
मा चिंतां कुरु सुश्रोमि मदनं जीवयाम्यहम्॥ २१.१०४ ॥

एवम श्वास्य तां साध्वी गिरिजां रतिरंजसा॥
तपस्तेपे च सुमहत्पतिं प्राप्तुं सुमध्यमा॥ २१.१०५ ॥

मदनो यत्र दग्धश्च रुद्रेण परमात्मना॥
तप्यमानां तपस्तत्र नारदो ददृशे तदा॥ २१.१०६ ॥

उवाच गत्वा सहसा भामिनीं रतिमंतिके॥
कस्यासि त्वं विशालाक्षि केन वा तप्यते तपः॥ २१.१०७ ॥
तरुणी रूपसंपन्ना सौभाग्येन परेण हि॥
नारदस्य वचः श्रुत्वा रोषेण महता तदा॥
उवाच वाक्यं मधुरं किंचिन्निष्ठुरमेव च॥ २१.१०८ ॥

॥रतिरुवाच॥
नारदोऽसि मया ज्ञातः कुमारस्त्वं न संशयः॥
स्वस्वरूपादर्शनं च कर्तुमर्हसि सुव्रत॥ २१.१०९ ॥

यथागतेन मार्गेण गच्छ त्वं मा विलंबितम्॥
बटो न किंचिज्जानासि केवलं कलिकृन्महान्॥ २१.११० ॥

परस्त्रीकामुकाः क्षुद्रा विटा व्यसनिनश्च ये॥
तथा ह्यकर्मिणः स्तब्धास्तेषां मध्ये त्वमग्रणीः॥ २१.१११ ॥

एवं निर्भर्त्सितो रत्या नारदो मुनिसत्तमः॥
स्वयं जगाम त्वरीतं शंबरं दैत्यपुंगवम्॥ २१.११२ ॥

शशंस दैत्यराजाय दग्धं मदनमेव च॥
रुद्रेण क्रोधयुक्तेन तस्य भार्या मनस्विनी॥ २१.११३ ॥

तामानय महाभाग भार्यां कुरु महाबल॥
अतीव रूपसंपन्ना या आनीतास्त्वयानघ॥
तासां मध्ये रूपवती रतिः सा मदनप्रिया॥ २१.११४ ॥

एवमाकर्ण्य वचनं देवर्षेर्भावितात्मनः॥
जगाम सहसा तत्र यत्रास्ते सा सुशोभना॥ २१.११५ ॥

तां दृष्ट्वा सु विशालाक्षीं रतिं मदनमोहिनीम्॥
उवाच प्रहसन्वाक्यं शंबरो देवसंकटः॥ २१.११६ ॥

एहि तन्वि मया सार्द्धं राज्यं भोगान्यथेष्टतः॥
भुंक्ष्व देवि प्रसादान्मे तपसा किं प्रयोजनम्॥ २१.११७ ॥
एवमुक्ता तदा तेन शंबरेण महात्मना॥
उवाच तन्वी मधुरं महिषी मदनस्य सा॥ २१.११८ ॥

विधवाहं महाबाहो नैवं भाषितुमर्हसि॥
राजा त्वं सर्वदैत्यानां लक्ष्णैः परिवारितः॥ २१.११९ ॥

एतत्तद्वचनं श्रुत्वा शंबरः काममोहितः॥
करे ग्रहीतु कामोऽसौ तदा रत्या निवारितः॥ २१.१२० ॥

विमृश्य मनसा सर्वमजेयत्वं च तस्य वै॥
मा स्पृश त्वं च रे मूढ मम संस्पर्शजेन वै॥ २१.१२१ ॥

संपर्केण च दग्धोऽसि नान्यथा मम भाषितम्॥
तदोवाच महातेजाः शंबरः प्रहसन्निव॥ २१.१२२ ॥

विभीषिकाभिर्बह्वीभिर्मां भीषयसि मानिनि॥
गच्छ शीघ्रं मम गृहं बहूक्त्या किं प्रयोजनम्॥ २१.१२३ ॥

इत्युच्यमानेन तदा नीता सा प्रसभं तथा॥
स्वपुरं परमं तन्वी शंबरेण मनस्विनी॥ २१.१२४ ॥

कृता महानसेऽध्यक्षा नाम्ना मायावतीति च॥ २१.१२५ ॥

॥ऋषय ऊचुः॥
पार्वत्याधिकृतं सर्वं मदनानयनं प्रति॥
संबरेण हृतातन्वी मदनस्य प्रिया सती॥
अत ऊर्ध्वं तदा सूत किं जातं तत्र वर्ण्यताम्॥ २१.१२६ ॥

॥सूत उवाच॥
गतं तदा शिवं दृष्ट्वा दग्ध्वा मदनमोजसा॥
पार्वती तपसा युक्ता स्थिता तत्रैव भामिनी॥ २१.१२७ ॥

पित्रा तेन तदा तन्वी मात्रा चैव विचारिता॥
बाले एहि गृहे शीघ्रं मा श्रमं कर्तुमर्हसि॥ २१.१२८ ॥

उक्ता ताभ्यां तदा साध्वी गिरिजा वाक्यमब्रवीत्॥ २१.१२९ ॥

॥पार्वत्युवाच॥
नागच्छामि गृहं मातस्तात मे श्रृणु तत्त्वतः॥
वाक्यं धर्मार्थयुक्तं च येन त्वं तोषमेष्यसि॥ २१.१३० ॥

शंभुः परेषां परमो दग्धो येन महाबलः॥
मदनो मम सान्निध्यमानयेऽत्रैव तं शिवम्॥ २१.१३१ ॥

दुर्लभोहि तदा शंभुः प्राणिनां गृहमिच्छताम्॥
नागच्छामि गृहं मातस्तस्मात्सर्वं विमृश्यताम्॥ २१.१३२ ॥

तदोवाच महातेजा हिमवान्स्वसुतां प्रति॥
दुराराध्यः शिवः साक्षात्सर्वदेवनमस्कृतः॥
त्वया प्राप्तुमशक्यो हि तस्मात्त्वं स्वगृहं व्रज॥ २१.१३३ ॥

सा बाष्पपूरितेनैव कंठेन स्वसुतां प्रति॥
उवाच मेना तन्वंगियाहि शीघ्रं गृहं प्रति॥ २१.१३४ ॥

तदा प्रहस्य चोवाच मातरं प्रति पार्वती॥
प्रतिज्ञां श्रृणु मे मातस्तपसा परमेण हि॥ २१.१३५ ॥

अत्रैव तं समानीय वरयामि विचक्षणम्॥
नाशयामि रुद्रस्य रुद्रत्वं वारवर्णिनि॥ २१.१३६ ॥

सुखरूपं परित्यज्य गिरिजा च मनस्विनी॥
शंभोरारधनं चक्रे परमेण समाधिना॥ २१.१३७ ॥

जया च विजया चैव माधवी च सुलोचना॥
सुश्रुता च श्रुता चैव तथैव च शुकी परा॥ २१.१३८ ॥

प्रम्लोचा सुभगा श्यामा चित्रांगी चारुणी स्वधा॥
एताश्चान्याश्च बहवः सख्यस्ता गिरिजां प्रति॥
उपासांचक्रिरे सा च देवगर्भा च भामिनी॥ २१.१३९ ॥

तपसा परमोग्रेण चरंती चारुहासिनी॥
मदनो यत्र दग्धश्च रुद्रेण च महात्मना॥
तत्रैव वेदिं कृत्वा च तस्योपरि सुसंस्थिता॥ २१.१४० ॥

त्यक्त्वा जलाशनं बाला पर्णादा ह्यभवच्च सा॥
ततः साऽर्द्राणि पर्णानि त्यक्त्वा शुष्काणि चाददे॥ २१.१४१ ॥

शुष्काणि चैव पर्णानि नाशितानि तया यदा॥
अपर्णेति च विख्याता बभुव तनुमध्यमा॥ २१.१४२ ॥

वायुपानरता जाता अंबुपानादनंतरम्॥
कालक्रमेण महता बभूव गिरिजा सती॥
एकांगुष्ठेन च तदा दधार च निजं वपुः॥ २१.१४३ ॥

एवमुग्रेण तपसा शंकराराधनं सती॥
चकार परया तुष्ट्या शंभोः प्रीत्यर्थमेव च॥ २१.१४४ ॥

परं भावं समाश्रित्य जगन्मंगलमंगला॥
तुष्ट्यर्थं च महेशस्य तताप परमं तपः॥ २१.१४५ ॥

एवं दिव्यसहस्राणि वर्षाणि च तताप वै॥
हिमा लयस्तदागत्य पार्वतीं कृतनिश्चयाम्॥ २१.१४६ ॥

सभार्यः स सुतामाप्त उवाच च महासतीम्॥
मा खिद्यतां महादेवि तपसानेन भामिनि॥ २१.१४७ ॥

क्व रुद्रो दृश्यते बाले विरक्तो नात्र संशयः॥
त्वं तन्वी तरुणी बाला तपसा च विमोहिता॥ २१.१४८ ॥

भविष्यति न संदेहः सत्यं प्रतिवदामि ते॥
तस्मादुत्तिष्ठ याह्याशु स्वगृहं वरवर्णिनि॥ २१.१४९ ॥

किं तेन तव रुद्रेण ये दग्धः पुराऽनघे॥
मदनो निर्विकारित्वात्तं कथं प्रार्थयिष्यसि॥ २१.१५० ॥

गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते॥
तथैव दुर्गमः शर्भुर्जानीहि त्वं शुचिस्मिते॥ २१.१५१ ॥

तथैव मेनया चोक्ता तथा सह्याद्रिणा सती॥
मेरुणा मंदरेणैव मैनाकेन तथैव च॥ २१.१५२ ॥

एभिरुक्ता तदा तन्वी पार्वती तपसि स्थिता॥
उवाच प्रहसन्त्तेव हिमवंतं शुचिस्मिता॥ २१.१५३ ॥

पुरा प्रोक्तं त्वया तात अंब किं विस्मृतं त्वया॥
अधुनैव प्रतिज्ञां च श्रृणुध्वं मम बांधवाः॥ २१.१५४ ॥

विरक्तोऽसौ महादेवो मदनो येन वै हतः॥
तं तोषयामि तपसा शंकरं लोकशंकरम्॥ २१.१५५ ॥

सर्वे यूयं च गच्छंतु नात्र कार्या विचारणा॥
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम्॥ २१.१५६ ॥

तमानयामि चात्रैव तपसा केवलेन हि॥
तपोबलेन महता सुसेव्यो हि सदाशिवः॥ २१.१५७ ॥

तं जानीध्वं महाभागाः सत्यंसत्यं वदाम्यहम्॥ २१.१५८ ॥

संभाषमाणा जननीं तदानीं हिमालयं चैव तथा च मेनाम्॥
तथैव मेरुं मितभाषिणी तदा सा मंदरं पर्वतराजकन्या॥
जग्मुस्तदा तेन पथा च पर्वता यथागतेनापि विचक्षमाणाः॥ २१.१५९ ॥

गतेषु तेषु सर्वेषु सखीभिः परिवारिता॥
तत्रैव च तपस्तेपे परमार्था सती तदा॥ २१.१६० ॥

तपसा तेन महता तप्तमासीच्चराचरम्॥
तदा सुरासुराः सर्वे ब्रह्माणं शरणं गताः॥ २१-१६१ ॥

॥देवा ऊचुः॥
त्वया सृष्टमिदं सर्वं जगद्देव चराचरम्॥
त्रातुमर्हसि देवान्नस्त्वदन्यो नोपपद्यते॥ २१.१६२ ॥

अस्माकं रक्षणे शक्त इत्याकर्ण्य वचस्तदा॥
विमृश्य च तदा ब्रह्मा मनसा परमेण हि॥ २१.१६३ ॥

गिरिजातपसोद्भूतं दावाग्निं परमं महत्॥
ज्ञात्वा ब्रह्मा जगा माशु क्षीराब्धिं परमाद्भुतम्॥ २१.१६४ ॥

तत्र सुप्तं सुप्लयंके शेषाख्ये चातिशोभने॥
लक्ष्म्या पादोपयुगलं सेव्यमानं निरंतरम्॥ २१.१६५ ॥

दूरस्थेनापि तार्क्ष्येण नतकंधरधारिणा॥
सेव्यमानं श्रिया कांत्या क्षांत्या वृत्त्या दयादिभिः॥ २१.१६६ ॥

नवशक्तियुतं विष्णुं पार्पदैः परिवारितम्॥
कुमुदोथ कुमुद्वांश्च सनकश्च सनंदनः॥ २१.१६७ ॥

सनातनो महाभागः प्रसुप्तो विजयोऽरिजित्॥
जयंतश्च जयत्सेनो जयश्चैव महाप्रभः॥ २१.१६८ ॥

सनत्कुमारः सुतपा नारदश्चैव तुंबुरुः॥
पांचजन्यो महाशंखो गदा कौमोदकी तथा॥ २१.१६९ ॥

सुदर्शनं तथा चापं शार्ङ्गं च परमाद्भुतम्॥
एतानि वै रूपवंति दृष्टानि परमेष्ठिना॥ २१.१७० ॥

विष्णोः समीपे परमामनो भृशं समेत्य सर्वे सुरदानवास्तदा॥
विष्णुं चाहुः परमेष्ठिनां पतिं तीरे तदानीमुदधेर्महात्मनः॥ २१.१७१ ॥

त्राहित्राहि महाविष्णो तप्तान्नः शरणागतान्॥
तपसोग्रेण महता पार्वत्याः परमेण हि॥
शेषासने चोपविष्ट उवाच परमेश्वरः॥ २१.१७२ ॥

युष्माभिः सहितश्चापि व्रजामि परमेश्वरम्॥
महादेवं प्रार्थयामो गिरिजां प्रति वै सुराः॥ २१.१७३ ॥

पाणिग्रहार्थमधुना देवदेवः पिनाकधृक्॥
यथा नेष्यति तत्रैव करिष्यामोऽधुना वयम्॥ २१.१७४ ॥

तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः॥
तपसोग्रेण संयुक्तो ह्यास्ते परममंगलः॥ २१.१७५ ॥

विष्णोस्तद्वचनं श्रुत्वा ऊचुः सर्वे सुरासुराः॥
न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम्॥ २१.१७६ ॥

यदा दग्धः पुरा तेन मदनो दुरतिक्रमः॥
तथैव धक्ष्यत्यस्माकं नात्र कार्या विचारणा॥ २१.१७७ ॥

प्रहस्य भगवान्विष्णुरुवाच परमेश्वरः॥
मा भयं क्रियतां सर्वैः शिवरूपी सदाशिवः॥ २१.१७८ ॥

स न धक्ष्यति सर्वेषां देवानां भयनाशनः॥
तस्माद्भवद्भिर्गतव्यं मया सार्द्धं विचक्षणाः॥ २१.१७९ ॥

शंभुं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं च परं पराणाम्॥
तपो जुषाणं परमार्थरूपं परात्परं तं शरणं व्रजामि॥ २१.१८० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पार्वतीपश्चर्यावर्णनंनामैकविंशतितमोऽध्यायः॥ २१ ॥ छ ॥