स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २२
वेदव्यासः
अध्यायः २३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥सूत उवाच॥
एवमुक्तास्तदा देवा विष्णुना परमेष्ठिना॥
जग्मुः सर्वे महेशं च द्रष्टुकामाः पिनाकिनम्॥ २२.१ ॥

परे पारे परमेण समाधिना॥
योगपीठे स्तितं शंभुं गणैश्च परिवारितम्॥ २२.२ ॥

यज्ञोपवितविधिना उरसा बिभ्रंत वृतम्॥
वासुकिं सर्पराजं च कंबलाश्वतरौ तथा॥ २२.३ ॥

कर्णद्वये धारयंतं तथा कर्कोटकेन हि॥
पुलहेन च बाहुभ्यां धारयंतं च कंकणे॥ २२.४ ॥

सन्नृपुरे शङ्खकपद्मकाभ्यां संधारयंतं च विराजमानम्॥
कर्पूरगौरं शितिकंठमद्भुतं वृपान्वितं देववरं ददर्शुः॥ २२.५ ॥

तदा ब्रह्मा च विष्णुश्च ऋषयो देवदानवाः॥
तुष्टुवुर्विविधैः सूक्तैर्वेदोपनिपदन्वितैः॥ २२.६ ॥

॥ब्रह्मोवाच॥
नमो रुद्राय देवाय मदनांतकराय च॥
भर्गाय भूरिभाग्याय त्रिनेत्राय त्रिविष्टषे॥ २२.७ ॥

शिपिविष्टाय भीमाय शेषशायिन्नमोनमः॥
त्र्यंबकाय जगद्धात्रे विश्वरूपाय वै नमः॥ २२.८ ॥

त्वं धाता सर्वलोकानां पिता माता त्वमीश्वरः॥
कृपया परया युक्तः पाह्यस्मांस्त्वं महेश्वर॥ २२.९ ॥

इत्थं स्तुवत्सु देवेषु नन्दी प्रोवाच तान्प्रति॥
किमर्थमागता यूयं किं वा मनसि वर्तते॥ २२.१० ॥ (२२.११)
ते प्रोचुर्देवकार्यार्थं विज्ञप्तुं शंभुमागता॥
विज्ञप्तो नंदिना तेन शैलादेन महात्मना॥
ध्यानस्थितो महादेवः सुरकार्यार्थसिद्धये॥ २२.११ ॥

ब्रह्मादयः सुग्गणाः सुरसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य विसेषयंति॥
कार्य्यार्थिनोऽसुरवरैः परिभर्त्स्यमाना अभ्यागताः सपदि शत्रुभिरर्दिताश्च॥ २२.१२ ॥

तस्मात्त्वया हि देवेश त्रातव्याश्चाधुना सुराः॥
एवं तेन तदा शंभुर्विज्ञप्तो नंदिना द्विजाः॥ २२.१३ ॥

शनैःशनैरुपरमच्छंभुः परमकोपनः॥
समाधेः परमात्माऽसावुवाच परमेश्वरः॥ २२.१४ ॥

॥महादेव उवाच॥
कस्माद्युयं महाभागा ह्यागता मत्समीपगाः॥
ब्रह्मादयो ह्यमी देवा ब्रूत कारणमद्य वै॥ २२.१५ ॥

तदा ब्रह्मा ह्युवाचेदं सुरकार्यं महत्तरम्॥
तारकेण कृतं शंभो देवानां परमाद्भुतम्॥ २२.१६ ॥

कष्टात्कष्टतरं देव तद्विज्ञप्तुमिहागताः॥
हे शंभो तव पुत्रेण औरसेन हतो भवेत्॥
तारको देवशत्रुश्च नान्यथा मम भाषितम्॥ २२.१७ ॥

तस्मात्त्वया गिरिजा देव शंभो गृहीतव्या पाणिना दक्षिणेन॥
पाणिग्रहेणैव महानुभाव दत्ता गिरीन्द्रेण च तां कुरुष्व॥ २२.१८ ॥

ब्रह्मणो हि वचः श्रुत्वा प्रहसन्नब्रवीच्छिवः॥
यदा मया कृता देवी गिरिजा सर्वसुन्दरी॥ २२.१९ ॥

तदा सर्वे सुरेन्द्राश्च ऋषयो मुनयस्तथा॥
सकामाश्च भविष्यंति अक्षमाश्च परे पथि॥ २२.२० ॥

मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये॥
मया ह्यधि कृता तन्वी गिरिजा च सुमध्यमा॥ २२.२१ ॥

तदानीमेव भो देवाः पार्वती मदनं च सा॥
जीवयिष्यति भो ब्रह्मन्नात्र कार्या विचारणा॥ २२.२२ ॥

एवं विमृश्य भो देंवाः कार्या कार्यविचारणा॥
मदनेनैव दग्धेन सुरकार्यं महत्कृतम्॥ २२.२३ ॥

यूयं सर्वे च निष्कामा मया नास्त्यत्र संशयः॥
यथाहं च सुराः सर्वे तथा यूयं प्रयत्नतः॥ २२.२४ ॥

तपः परमसंयुक्ताः पारयामः सुदुष्करम्॥
परमानन्दसंयुक्ताः सुखिनः सर्व एव हि॥ २२.२५ ॥

यूयं समाधिना तेन मदनेन च विस्मृतम्॥
कामो हि नरकायैव तस्मात्क्रोधोऽभिजायते॥ २२.२६ ॥

क्रोधाद्भवति संमोहः संमोहाद्भ्रमते मनः॥
कामक्रोधौ परित्यज्य भवद्भिः सुरसत्तमैः॥
सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित्॥ २२.२७ ॥

एवं विश्राव्य भगवान्स हि देवो वृषध्वजः॥
सुरान्प्रबोधयामास तथा ऋषिगणान्मुनीन्॥ २२.२८ ॥

तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः॥
आस्ते पुरा यथावच्च गणैश्च परिवारितः॥ २२.२९ ॥

ध्यानास्थितं च तं दृष्ट्वा नन्दौ सर्वान्विसृज्य तान्॥
सब्रह्मसेन्द्रान्विबुधानुवाच प्रहसन्निव॥ २२.३० ॥

यतागतेन मार्गेण गच्छध्वं मा विलंबितम्॥
तथेति मत्वा ते सर्वे स्वंस्वं स्थानमथाऽव्रजन्॥ २२.३१ ॥

गतेषु तेषु सर्वेषु समाधिस्थोऽभवद्भवः॥
आत्मानमात्मना कृत्वा आत्मन्येन विचंतयन्॥ २२.३२ ॥

परात्परतरं स्वच्छं निर्मलं निरवग्रहम्॥
निरञ्जनं निराभासं यस्मिन्मुह्यंति सूरयः॥ २२.३३ ॥

भानुर्नभात्यग्निरथो शशी वा न ज्योतिरेवं न च मारुतो न हि॥
यं केवलं वस्तुविचारतोऽपि सूक्ष्मात्परं सूक्ष्मतरात्परं च॥ २२.३४ ॥

अनिर्द्देश्य मचिन्त्यं च निर्विकारं निरामयम्॥
ज्ञप्तिमात्रस्वरूपं च न्यासिनो यांति तत्र वै॥ २२.३५ ॥

शब्दातीनं निर्गुणं निर्विकारं सत्तामात्रं ज्ञानगम्यं त्वगम्यम्॥
यत्तद्वस्तु सर्वदा कथ्यते वै वेदातीतैश्चागमैर्मन्त्रभूतैः॥ २२.३६ ॥

तद्वस्तुभूतो भगवान्स ईश्वरः पिनाकपाणिर्भगवान्वृध्वजः॥
येनैव साक्षान्मकरध्वजो हतस्तपो जुषाणः परमेश्वरः सः॥ २२.३७ ॥

॥लोमश उवाच॥
गिरिजा हि तदा देवी तताप परमं तपः॥
तपसा तेन रुद्रोऽपि उत्तमं भयमागतः॥ २२.३८ ॥

विजित्य तपसा देवी पार्वती परमेण हि॥
शम्भुं सर्वार्थदं स्थाणुं केवलं स्वस्वरूपिणम्॥ २२.३९ ॥

यदा जितस्तया देव्या तपसा वृषभध्वजः॥
समाधेश्चलितो भूत्वा यत्र सा पार्वती स्थिता॥ २२.४० ॥

जगाम त्वरितेनैव देवदेवः पिनाकधृक्॥
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम्॥ २२.४१ ॥

वेदिकोपरि विन्यस्तां यथैव शशिनः कलाम्॥
स देवस्तां निरीक्ष्याथ बटुर्भूत्वाथ तत्क्षणात्॥ २२.४२ ॥

ब्रह्मचारिस्वरूपेण महेशो भगवान्भवः॥
सखीनां मध्यमाश्रित्य ह्युवाच बटुरूपवान्॥
किमर्थमालिमध्यस्था तन्वी सर्वांगसुन्दरी॥ २२.४३ ॥

केयं कस्य कुतो याता किमर्थं तप्यते तपः॥
सर्वं मे कथ्यतां सख्यो याथा तथ्येन संप्रति॥ २२.४४ ॥

तदोवाच जया रुद्रं तपसः कारणं परम्॥ २२.४५ ॥

हिमाद्रेर्दुहितेयं वै तपसा रुद्रमीश्वरम्॥
प्राप्तुकामा पतित्वन सेय मत्रोपविश्य च॥ २२.४६ ॥

तपस्तताप सुमहत्सर्वेषां दुरतिक्रमम्॥
बटो जानीहि मे वाक्यं नान्यथा मम भाषितम्॥ २२.४७ ॥

तच्छत्वा वचनं तस्याः प्रहस्येदमुवाच ह॥
श्रृण्वतीनां सखीनां वै महेशो बटुरूपवान्॥ २२.४८ ॥

मूढेयं पार्वती सख्यो न जानाति हिताहितम्॥
किमर्थं च तपः कार्यं रुद्रपाप्त्यर्थमेव च॥ २२.४९ ॥

सोऽमंगलः कपाली च श्मशानालय एव च॥
अशिवः शिवशब्देन भण्यते च वृथाथ वै॥ २२.५० ॥

अनया हि वृतो रुद्रो यदा सख्यः समेष्यति॥
तदेयमशुभा तन्वी भविष्यति न संशयः॥ २२.५१ ॥
यो दक्षशापाद्विकृतो यज्ञबाह्योऽभवद्विटा॥
ये ह्यंगभूताः शर्वस्य सर्पा ह्यासन्महाविषाः॥ २२.५२ ॥

शवभस्मान्वितो रुद्रः कृत्तिवासा ह्यमंगलः॥
पिशाचैः प्रमथैर्भूतैरावृतो हि निरंतरम्॥ २२.५३ ॥

तेन रुद्रेण किं कार्यमनया सुकुमारया॥
निवार्यतां सखीभिश्च मर्तुकामा पिशाचवत्॥ २२.५४ ॥

इंद्रं हित्वा मनोज्ञं च यमं चैव महाप्रभम्॥
नैर्ऋतं च विशालाक्षं वरुणं च अपां पतिम्॥ २२.५५ ॥

कुबेरं पवनं चैव तथैव च विभावसुम्॥
एवमादीनि वाक्यानि उवाच परमेश्वरः॥
सखीनां श्रृण्वतीनां च यत्र सा तपसि स्थिता॥ २२.५६ ॥

इत्याकर्ण्य वचस्तस्य रुद्रस्य बटुरूपिणः॥
चुकोप च शिवा साध्वी महेशं बटुरूपिणम्॥ २२.५७ ॥

जये त्वं विजये साध्वि प्रम्लोचेऽप्यथ सुन्दरि॥
सुलोचने महाभागे समीचीनं कृतं हि मे॥ २२.५८ ॥

किमेतस्य बटोः कार्यं भवतीनामिहाधुना॥
बटुस्वरूपमास्थाय आगतो देवनिंदकः॥ २२.५९ ॥

अयं विसृज्यतां सख्यः किमनेन प्रयोजनम्॥
बटुस्वरूपिणं रुद्रं कुपिता सा ततोऽब्रवीत्॥ २२.६० ॥

बटो गच्छाशु त्वरितो न स्थेयं च त्वयाऽधुना॥
किमनेन प्रलापेन तव नास्ति प्रयोजनम्॥ २२.६१ ॥

बटुर्निर्भर्त्सितस्तत्र तया चैवं तदा पुनः॥
प्रहस्य वै स्थिरो भूत्वा पुनर्वाक्यमथाब्रवीत्॥ २२.६२ ॥

शनैः शनैरवितथं विजयां प्रति सत्वरम्॥
कस्मात्कोपस्तयातन्वि कृतः केनैव हेतुना॥ २२.६३ ॥

सर्वेषामपि तद्वाच्यं वचनं सूक्तमेव यत्॥
यथोक्तेन च वाक्येन कस्मात्तन्वी प्रकोपिता॥ २२.६४ ॥

यः शंभुरुच्यते लोके भिक्षुको भिक्षुकप्रियः॥
यदि मे ह्यनृतं प्रोक्तं तदा कोप इहोचितः॥ २२.६५ ॥

इयं तावत्सुरूपा च विरूपोऽसौ सदाशिवः॥
विशालाक्षी त्वियं बाला विरूपाक्षो भवस्तथा॥ २२.६६ ॥

एवंभूतेन रुद्रेण मोहितेयं कथं भवेत्॥
सभाग्यो हि पतिः स्त्रीणां सदा भाव्यो रतिप्रियः॥ २२.६७ ॥

इयं कथं मोहितास्ति निर्गुणेन युगात्मिका॥
न श्रुतो न च विज्ञातो न दृष्टः केन वा शिवः॥ २२.६८ ॥

सकामानां च भूतानां दुर्लभो हि सदाशिवः॥
तपसा परमेणैव गर्वितेयं सुमध्यमा॥ २२.६९ ॥

निःस्तंभो हि सदा स्थाणुः कथं प्राप्स्यति तं पतिम्॥
मयोक्तं किं विशालाक्षि कस्मान्मे रुषिताऽधुना॥ २२.७० ॥

यावद्रोषो भवेन्नॄणां नारीणां च विशेषतः॥
तेन रोषेण तत्सर्वं भस्मीभूतं भविष्यति॥ २२.७१ ॥

सुकृतं चोर्जितं तन्वि सत्यमेवोदितं सति॥
कामः क्रोधश्च लोभश्च दंभो मात्सर्यमेव च॥ २२.७२ ॥

च प्रपंचश्चतेन सर्वं विनश्यति॥
तस्मात्तपस्विभिर्युक्तं कामक्रोधादिवर्जनम्॥ २२.७३ ॥

यदीश्वरो हृदि मध्ये विभाव्यो मनीषिभिः सर्वदा ज्ञप्तिमात्रः॥
तदा सर्वैर्मुनिवृत्त्या विभाव्यस्तपस्विभिर्नान्यथा चिंतनीयः॥ २२.७४ ॥

एतच्छ्रुत्वा वचनं तस्य शंभोस्तदाब्रवीद्विजया तं च सर्वम्॥
गच्छात्र किंचित्तव नास्ति कार्यं न वक्तव्यं वचनं बालिशान्यत्॥ २२.७५ ॥

एवं विवदमानं तं बटुरूपं सदाशिवम्॥
विसर्जयामास तदा विजया वाक्यकोविदा॥ २२.७६ ॥

तिरोधानं गतः सद्यो महेशो गिरिजां प्रति॥
अलक्ष्यमाणः सर्वासां सखीनां परमेश्वरः॥ २२.७७ ॥

प्रादुर्बभूव सहसा निजरूपधरस्तदा॥
यदा ध्यानस्थिता देवी निजध्यानपरा सती॥ २२.७८ ॥

तदा हृदिस्थो देवेशो बहिर्हृष्टिचरोभवत्॥
नेत्रे उन्मील्य सा साध्वी गिरिजायतलोचना॥
अपश्यद्देवदेवेशं सर्वलोकमहेश्वरम्॥ २२.७९ ॥

द्विभुजं चैकवक्त्रं कृत्तिवाससमद्भुतम्॥
कपर्दं चंद्ररेखांकं निवीतं गजचर्मणा॥ २२.८० ॥

कर्णस्थौ हि महानागौ कंबलाश्वतरौ तदा॥
वासुकिः सर्पराजश्च कृताहारो महाद्युति॥ २२.८१ ॥

वलयानि महार्हाणि तदा सर्पमयानि च॥
कृतानि तेन रुद्रेण तथा शोभाकराणि च॥ २२.८२ ॥

एवंभूतस्तदा शंभुः पार्वतीं प्रति चाग्रतः॥
उवाच त्वरया युक्तो वरं वरय भामिनि॥ २२.८३ ॥

व्रीडया परया युक्ता साध्वी प्रोवाच शंकरम्॥
त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा॥ २२.८४ ॥

दक्षयज्ञविनाशं च यदर्थं कृतवान्प्रभो॥
स त्वं साहं समुत्पन्ना मेनायां कार्यसिद्धये॥ २२.८५ ॥

देवानां देवदेवेश तारकस्य वधं प्रति॥
भवतो हि मया देव भविष्यति कुमारकः॥ २२.८६ ॥

तस्मात्त्वया हि कर्तव्यं मम वाक्यं महेश्वर॥
गंतव्यं हिमवत्पार्श्व नात्र कार्या विचारणा॥ २२.८७ ॥

याचस्व मां महादेव ऋषिभिः परिवारितः॥
करिष्यति न संदेहस्तव वाक्यं च मे पिता॥ २२.८८ ॥

दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव॥
यथोक्तविधिना तत्र विवाहो न कृतस्त्वया॥७२२.८९ ॥

न ग्रहाः पूजितास्तेन दक्षेण च महात्मना॥
ग्रहाणां विषयत्वेन सच्छिद्रोऽयं महानभूत्॥ २२.९० ॥

तस्माद्यथोक्तविधिना कर्तुमर्हसि सुव्रत॥
विवाहं स्वं महाभाग देवानां कार्यसिद्धये॥ २२.९१ ॥

तदोवाच महाबाहो गिरिजां प्रहसन्निव॥
स्वभावेनैव तत्सर्वं जंगमाजंगमं महत्॥
जातं त्वया मोहितं च त्रिगुणैः परिवेष्टितम्॥ २२.९२ ॥

अहंकारात्समुत्पन्नं महत्तत्त्वं च पार्वति॥
महत्तत्त्वात्तमो जातं तमसा वेष्टितं नभः॥ २२.९३ ॥

भसो वायुरुत्पन्नो वायोरग्निरजायत॥
अग्नेरापः समुत्पन्ना अद्भ्यो जाता मही तदा॥ २२.९४ ॥

मह्यादिकानि स्थास्नूनि चराणि च वरानने॥
दृश्यंयत्सर्वमेवैतन्नश्वरं विद्धि मानिनि॥ २२.९५ ॥

एकोऽनेकत्वमापन्नो निर्गुणो हि गुणावृतः॥
स्वज्योतिर्भाति यो नित्यं परज्योत्स्नान्वितोऽभवत्॥
स्वतंत्रः परतंत्रश्च त्वया देवि महत्कृतम्॥ २२.९६ ॥

मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना अवधृतं परया च बुद्ध्या॥
सर्वात्मभिः सुकृतिभिः परमार्थभावैः संसक्तिरिंद्रियगणैः परिवेष्टितं च॥ २२.९७ ॥

के ग्रहाः के उडुगणाः के बाध्यंते त्वया कृताः॥
विमुक्तं चाधुना देवि शर्वार्थं वरवर्णिनि॥ २२.९८ ॥

गुणकार्यप्रसंगेन आवां प्रादुर्भवः कृतः॥
त्वं हि वै प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी॥ २२.९९ ॥

व्यापारदक्षा सततमहं चैव सुमध्यमे॥
हिमालयं न गच्छामि न याचामि कथंचन॥ २२.१०० ॥

देहीति वचनात्सद्यः पुरुषो याति लाघवम्॥
इत्थं ज्ञात्वा च भो देवि किमस्माकं वदस्व वै॥ २२.१०१ ॥

कार्यं त्वदाज्ञया भद्रे तत्सर्वं वक्तुमर्हसि॥
तेनोक्तात्र तदा साध्वी उवाच कमलेक्षणा॥ २२.१०२ ॥

त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा॥
तथापि शंभो कर्तव्यं मम चोद्वहनं महत्॥ २२.१०३ ॥

देहो ह्यविद्ययाक्षिप्तो विदेहो हि भवान्परः॥
तथाप्येवं महादेव शरीरावरणं कुरु॥ २२.१०४ ॥

प्रपंचरचनां शंभो कुरु वाक्यान्मम प्रभो॥
याचस्व मां महादेव सौभाग्यं चैव देहि मे॥ २२.१०५ ॥

इत्येवमुक्तः स तया महात्मा महेश्वरो लोकविडंबनाय॥
तथेति मत्वा प्रहसञ्जगाम स्वमालयं देववरैः सुपूजितः॥ २२.१०६ ॥

एतस्मिन्नंतरे तत्र हिमवान्गिरिभिः सह॥
मेनया भार्यया सार्द्धमाजगाम त्वरान्वितः॥ २२.१०७ ॥

पार्वतीदर्शनार्थं च सुतैश्च परिवारितः॥
तेन दृष्टा महादेवी सखीभिः परिवारिता॥ २२.१०८ ॥

पार्वत्या च तदा दृष्टो हिमवान्गिरिभिः सह॥
अभ्युत्थानपरा साध्वी प्रणम्य शिरसा तदा॥
पितरौ च तदा भ्रातॄन्बंधूंश्चैव च सर्वशः॥ २२.१०९ ॥

स्वमंकमारोप्य महायशास्तदा सुतां परिष्वज्य च बाष्पपूरितः॥
उवाच वाक्यं मधुरं हिमालयः किं वै कृतं साध्वि यथा तथेन॥ २२.११० ॥

तत्कथ्यतां महाभागे सर्वं शुश्रूषतां हि नः॥
तच्छ्रुत्वा मधुरं वाक्यमुवाच पितरं प्रति॥ २२.१११ ॥

तपसा परमेणैव प्रार्थितो मदनांतकः॥
शांतं च मे महात्कार्यं सर्वेषामपि दुर्ल्लभम्॥ २२.११२ ॥

तत्र तुष्टो महादेवो वरणार्थं समागतः॥
स मयोक्तस्तदा शंभुर्ममषाणिग्रहः कथम्॥ २२.११३ ॥

क्रियते च तदा शंभो मम पित्रा विनाधुना॥
यतागतेन मार्गेण गतोऽसौ त्रिपुरांतकः॥ २२.११४ ॥

तस्यास्तद्वचनं श्रुत्वा अवाप परमां मुदम्॥
बंधुभिः सह धर्मात्मा उवाच स्वसुतां पुनः॥ २२.११५ ॥

स्वगृहं चाद्य गच्छामो वयं सर्वे च भूधराः॥
अनया राधितो देवः पिनाकी वृषभध्वजः॥ २२.११६ ॥

इत्यूचुस्ते सुराः सर्वे हिमालयपुरोगमाः॥
पार्वतीसहिताः सर्वे तुष्टुर्वाग्भिरादृताः॥ २२.११७ ॥

तां स्तूयमानां च तदा हिमालयो ह्यारोप्य चांसं वरवर्णिनीं च॥
सर्वेथ शैलाः परिवार्य चोत्सुकाः समानयामासुरथ स्वमालयम्॥ २२.११८ ॥

देवदुंदुभयो नेदुः शंखतूर्याण्यनेकशः॥
वादित्राणि बहून्येव वाद्यमानानि सर्वशः॥ २२.११९ ॥

पुष्पर्षेण महता तेनानीता गृहं प्रति॥ २२.१२० ॥

सा पूज्यमाना बहुभिस्तदानीं महाविभूत्युल्लसिता तपस्विनी॥
तथैव देवैः सह चारणैश्च महर्षिभिः सिद्धगणैश्च सर्वशः॥ २२.१२१ ॥

पूज्यमाना तदा देवी उवाच कमलासनम्॥
देवानृषीन्पितॄन्यक्षानन्यान्सर्वान्समागतान्॥ २२.१२२ ॥

गच्छध्वं सर्व एवैते येन्ये ह्यत्र समागताः॥
स्वंस्वं स्थानं यताजोषं सेव्यतां परमेश्वरः॥ २२.१२३ ॥

एवं तदानीं स्वपितुर्गृहं गता संशोभमाना परमेण वर्चसा॥
सा पार्वती देववरैः सुपूजिता संचिंतयंती मनसा सदाशिवम्॥ २२.१२४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे पार्वत्यै शंकरेण स्वरूपदर्शनंनामद्वाविंशोऽध्यायः॥ २२ ॥