स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १८

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १७ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः १८
वेदव्यासः
अध्यायः १९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५


॥लोमश उवाच॥
कर्मणा परिभूतो हि महेंद्रो गुरुमब्रवीत्॥
विना यत्नेन संक्लेसात्तर्तुं कर्म्म किमुच्यताम्॥ १८.१ ॥

बृहस्पतिरुवाचेदं त्यक्त्वा चैवामगवतीम्॥
यास्यामोऽन्यत्र सर्वे वै सकुटुंबा जिगीपवः॥ १८.२ ॥

तथा चक्रुः सुराः सर्वे हित्वा चैवामरावतीम्॥
बर्हिणो रुपमास्थाय गतः सद्यः पुरंदरः॥ १८.३ ॥

काको भूत्वा यमः साक्षात्कृकलासो धनाधिपः॥
अग्निः कपोतको भूत्वा भेको भूत्वा महेश्वरः॥ १८.४ ॥

नैर्ऋतस्तत्क्षणादेव कपोतोऽभूत्ततो गतः॥
पाशी कपिंजलो भूत्वा वायुः पारावतोऽभवत्॥ १८.५ ॥

एवं नानातनुभृतो हित्वा ते त्रिदिवं गताः॥
कश्यपस्याश्रमं पुण्यं संप्राप्तास्ते भयातुराः॥ १८.६ ॥

अदितिं मातरं सर्वे शशंसुर्दैत्यचेष्टितम्॥ १८.७ ॥

अप्रियं तदुपाकर्ण्य ह्यदितिः पुत्रलालसा॥
उवाच कश्यपं सा तु सुराणां व्यसनं महत्॥
महर्षे श्रयतां वाक्यं श्रुत्वा तत्कर्तुमर्हसि॥ १८.८ ॥

दैत्यैः पराजिता देवा हित्वा चैवामरावतीम्॥
त्वदीयमाश्रमं प्राप्तास्तान्रक्षस्व प्रजापते॥ १८.९ ॥

तस्यास्तद्वचनं श्रुत्वा कश्यपो वाक्यमब्रवीत्॥
तपसा महता तन्वि जानीहि त्वं च भामिनि॥
अजेया ह्यसुराः साध्वि भृगुणा ह्यनुमोदिताः॥ १८.१० ॥

तेषां जयो हि तपसा उग्रेणाऽऽद्येन भामिनि॥
कुरु शीघ्रतरेणैव सुराणां कार्यसिद्धये॥ १८.११ ॥

व्रतमेतन्महाभागे कथयाम्यर्थसिद्धये॥
तत्कुरुष्व प्रयत्नेन यथोक्तविधिना शुभे॥ १८.१२ ॥

मासि भाद्रपदे देवि दशम्यां नियता शुचिः॥
एकभक्तं प्रकुर्वीत विष्णोः प्रीत्यर्थमेव च॥ १८.१३ ॥

प्रर्थनीयो हरिः साक्षात्सर्वकामवरेश्वरः॥
मंत्रेणानेन सुभगे तद्भक्तैर्वरवर्णिनि॥ १८.१४ ॥

तव भक्तोस्म्यहं नाथ दशम्यादिदिनत्रयम्॥
व्रतं चराम्यहं विष्णो अनुज्ञां दातुमर्हसि॥ १८.१५ ॥

अनेनैव च मंत्रेण प्रार्थनीयो जगत्पतिः॥
एकभक्तं प्रकुर्वीत तच्च भक्तं च केवलम्॥ १८.१६ ॥

रंभापत्रे च भोक्तव्यं वर्जितं लवणेन हि॥
एकादश्यां चोपवासं प्रकुर्वीत प्रयत्नतः॥ १८.१७ ॥

रात्रौ जागरणं कुर्यात्प्रयत्नेन सुमध्यमे॥
द्वादश्यां निपुणत्वेन पारणा तु विधानतः॥
कर्तव्या ज्ञातिभिः सार्द्धं भोजयित्वा द्विजीत्तमान्॥ १८.१८ ॥

एवं द्वादशमासांस्तु कुर्याद्व्रतमतंद्रितः॥
मासि भाद्रपदे प्राप्ते एकादश्यां प्रयत्नतः॥
विष्णुमभ्यर्च्य यत्नेन कलशोपरि संस्थितम्॥ १८.१९ ॥

सौवर्णं राजतं वापि यताशक्त्या प्रकल्पयेत्॥
श्रवणेन तु संयुक्तां द्वादशीं पापनाशिनीम्॥
व्रती उपवसेद्यत्नात्सर्वदोषप्रशांतये॥ १८.२० ॥

एवं हि कश्यपेनोक्तं श्रुत्वाऽदितिरथाचरत्॥
व्रतं सांवत्सरं यावन्नियमेन समन्वितता॥ १८.२१ ॥

वर्षांतेन व्रतेनैव परितुष्टो जनार्दनः॥
प्रादुर्बभूव द्वादश्यां श्रवणेन तदा द्विजाः॥ १८.२२ ॥

बटुरूपधरः श्रीशो द्विभुजः कमलेक्षमः॥
अतसीपुष्पसंकाशो वनमालाविभूषितः॥ १८.२३ ॥

तं दृष्ट्वा विस्मयाविष्टा पूजामध्येऽदितिस्तदा॥
कश्यपेन समायुक्ता साऽस्तौषीत्कमलेक्षणा॥ १८.२४ ॥

॥अदितिरुवाच॥
नमोनमः कारणकारणाय ते विश्वात्मने विश्वसृजे चिदात्मने॥
वरेण्यरूपाय परावरात्मने ह्यकुंठबोधाय नमोनमस्ते॥ १८.२५ ॥

इति स्मृतस्तदाऽदित्या देवानां परिरच्युतः॥
प्रहस्य भगवानाह अदितिं देवमातरम्॥ १८.२६ ॥

॥श्रीभगवानुवाच॥
तपसा परमेणैव प्रसन्नोहं तवानघे॥
अमुना वपुषा चैव देवानां कार्यसिद्धये॥ १८.२७ ॥

श्रुत्वा भगवतो वाक्यमदितिस्तमुवाचह॥
भगवन्पराजिता देवा असुरैर्बलवत्तरैः॥
तान्रक्ष शरणापन्नासुरान्सर्वाञ्जनार्दन॥ १८.२८ ॥

निशम्य वाक्यं किल तच्च तस्या विष्णुर्विकुंठाधिपतिः स एकः॥
ज्ञात्वा च सर्वं सुरचेष्टितं तदा बलेश्च सर्वं च चिकीर्षितं च॥ १८.२९ ॥

किं कार्यमद्यैव मया हि कार्यं येनैव देवा जयमाप्नुवंति॥
पराजयं दैत्यवराश्च सर्वे विष्णुः परात्मैव विचिंत्य सर्वम्॥ १८.३० ॥

गदमुवाच भगवान्गच्छस्वाद्य वधं प्रति॥
वैरोचनिं महाभागे घात यस्व त्वरान्विता॥ १८.३१ ॥

गदोवाच हृषीकेशं प्रहसन्तीव भामिनी॥
मया ह्यशक्यो वधितुं ब्रह्मण्यो हि बलिर्महान्॥ १८.३२ ॥

चक्रं प्रति तदा विष्मुरुवाच परिसांत्वयन्॥
त्वं गच्छ बलिनं हंतुं शीघ्रमेव सुदर्शन॥ १८.३३ ॥

तदोवाच त्वरेणैव चक्रपाणिं सुदर्शनम्॥
न शक्यते मया हंतुं बलिनं तं महाप्रभो॥ १८.३४ ॥

ब्रह्मण्योऽसि यथा विष्णो तथासौ दैत्यपुंगवः॥
धनुषा च तथैवोक्तः शार्ङ्गपाणिश्च विस्मितः॥
चिंतयामास बहुधा विमृश्य सुचिरं बहु॥ १८.३५ ॥

॥अत्रिरुवाच॥
तदा ते ह्यसुराः सर्वे किमकुर्वस्तदुच्यताम्॥ १८.३६ ॥

॥लोमश उवाच॥
तदा ते ह्यसुराः सर्वे बलिप्रभृतयो दिवि॥
रुरुधुर्नगरीं रम्यां योद्धुकामाः पुरंदरम्॥ १८.३७ ॥

न विदुर्ह्यसुराः सर्वे गतान्देवांस्त्रिविष्टपात्॥
नानारूपधरां स्तस्मात्कश्यपस्याश्रयं प्रति॥ १८.३८ ॥

प्राकारमारुह्य तदा हि संभ्रमाद्दैत्याः सुरेशं प्रति हंतुकामाः॥
यावत्प्रविष्टा ह्यमरावतीं तां शून्यामपश्यन्परितुष्टमानसाः॥ १८.३९ ॥

इंद्रासने च शुक्रेण ह्यभिषिक्तो बलिस्तदा॥
सहाभिषेकविधिना ह्यसुरैः परिवारितः॥ १८.४० ॥

तथैवाधिष्ठितो राज्ये बलिर्वैरोचनो महान्॥
शुशुभे परया भूत्या महेंद्राधिकृतस्तदा॥ १८.४१ ॥

नागैश्चासुरसंघैश्च सेव्यमानो महेंद्रवत्॥
सुरद्रुमो जितस्तेन कामधे नुर्मणिस्तथा॥ १८.४२ ॥

दानैर्द्दाता च सर्वेषां येऽन्ये दानित्वमागताः॥
सर्वेषामेव भूतानां दानैर्दाता बलिर्महान्॥ १८.४३ ॥

यान्यान्कामयते कामां स्तान्सर्वान्वितरत्यसौ॥
सर्वेभ्योऽपि स चार्थिभ्यो दानवानामधीश्वरः॥ १८.४४ ॥

॥शौनक उवाच॥
देवेंद्रो हि महाभाग न ददाति कदाचन॥
कथं बलिरसौ दाता कथयस्व यथातथम्॥ १८.४५ ॥

॥ लोमश उवाच॥
यत्नतो येन यत्किंचित्क्रियते सुकृतं नरैः॥
शुभं वाप्यशुभं वापि ज्ञातव्यं हि विपश्चिता॥ १८.४६ ॥

शक्रो हि याज्ञिको विप्रा अश्वमेधशतेन वै॥
प्राप्तराज्योऽमरावत्यां केवलं भोगलोलुपः॥ १८.४७ ॥

अर्थितं तत्फलं विद्धि पुनः कार्पण्यमाविशत्॥
पुनर्मरणमाविश्य श्रीणपुण्यो भविष्यति॥ १८.४८ ॥

य इंद्र कृमिरेव स्यात्कृमिरंद्रो हि जायते॥
तस्माद्दानात्परतरं नान्यदस्तीह मोचनम्॥ १८.४९ ॥

दानाद्धि प्राप्यते ज्ञानं ज्ञानान्मोक्षो न संशयः॥
मोक्षात्परतरा भक्तिः शूलपाणौ हि वै द्वजाः॥ १८.५० ॥

ददाति सर्वं सर्वेशः प्रसन्नात्मा सदाशिवः॥
किंचिदल्पेन तोयेन परितुष्यति शंकरः॥ १८.५१ ॥

अत्रैवोदाहरंतीममितिहासं पुरातनम्॥
विरोचनसुतेनेदं कृतमस्ति न संशयः॥ १८.५२ ॥

कितवो हि महापापो देवब्राह्मणनिंदकः॥
निकृत्या परयोपेतः परदाररतो महान्॥ १८.५३ ॥

एकदा तु महापापात्कैतावाच्च जितं धनम्॥
गणिकार्थे च पुष्पाणि तांबूलं चंदनं तथा॥ १८.५४ ॥

कौपीनमात्रं तस्यैव कितवस्य प्रदृश्यते॥
कराभ्यां स्वस्तिकं कृत्वा गंधमाल्यादिकं च यत्॥ १८.५५ ॥

गणिकार्थमुपादाय धावमानो गृहं प्रति॥
तदा प्रस्खलितो भूमौ निपपात च तत्क्षणात्॥ १८.५६ ॥

पतनान्मूर्छया युक्तः क्षणमात्रं तदाऽभवत्॥
ततो मूर्छागतस्यास्य पापिनोऽनिष्टकारिणः॥ १८.५७ ॥

बुद्धिः सद्यः समुत्पन्ना कर्मणा प्राक्तनेन हि॥
निर्वेदं परमापन्नः कितवो दुःखसंयुतः॥ १८.५८ ॥

भूम्यां निपतितं यच्च गंधपुष्पादिकं महत्॥
समर्पितं शिवायेति कितवेनाप्यबुद्धिना॥ १८.५९ ॥

चित्रगुप्तेन चाख्यातं दत्तमस्ति त्वया पुनः॥
पतितं चैव देहांते शिवाय परमात्मने॥ १८.६० ॥

पचनीयोसि मे मंद नरकेषु महत्सु च॥
इत्युक्तो धर्मराजेन कितवो वाक्यमब्रवीत्॥ १८.६१ ॥

पापाचारो हि भगवन्कश्चिन्नैव मया कृतः॥
विमृश्यतां मे सुकृतं याथातथ्येन भो यम॥ १८.६२ ॥

चित्रगुप्तेन चाख्यातं द्त्तमस्ति त्वया पुनः॥
पतितं चैव देहांते शिवाय परमात्मने॥ १८.६३ ॥

तेन कर्मविपाकेन घटिकात्रयमेव च ॥

शचीपतेः पदं विद्धि प्राप्स्यसि त्वं न संशयः॥ १८.६४ ॥

आगतस्तत्क्षणाद्देवः सुर्वैः समन्वितः॥
ऐरावतं समारूढो नीतोऽसौ शक्रमंदिरम्॥
शक्रः प्रबोधितस्तेन गुरुणा भावितात्मना॥ १८.६५ ॥

घटिकात्रितयं यावत्तावत्कालं पुरंदर॥
निजासनेऽपि संस्थाप्यः कितवोऽपि ममाज्ञया॥ १८.६६ ॥

गुरोर्वचनमार्कर्ण्य कृत्वा शिरसि तत्क्षणात्॥
गतोऽन्वत्रैव शक्रोऽसौ कितवो हि प्रवेशितः॥
भवनं देवराजस्य नानाश्चर्यसमन्वितम्॥ १८.६७ ॥

शक्रासनेऽभिषिक्तोऽसौ राज्यं प्राप्तः शतक्रतोः॥
शंभोर्गंधप्रदानाच्च पुष्पतांबूलसंयुतम्॥ १८.६८ ॥

किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने॥
अर्पयंति सदा भक्त्या गंधपूष्पादिकं महत्॥ १८.६९ ॥

शिवसायुज्यमायाताः शिवसेनासमन्विताः॥
प्राप्नुवंति महामोदं शक्रो ह्येषां च किंकरः॥ १८.७० ॥

शिवपूजारतानां च यत्सुखं शांतचेतसाम्॥
ब्रह्मशक्रादिकानां च तत्सुखं दुर्लभं महत्॥ १८.७१ ॥

वराकास्ते न जानंति मूढा विषयलोलुपाः॥
वंदनीयो महादेवो ह्यर्चनीयः सदाशिवः॥ १८.७२ ॥

पूजनीयो महादेवः प्राणिभिस्तत्त्ववेदिभिः॥
तस्मादिंद्रत्वमगमत्कितवो घटिकात्रयम्॥ १८.७३ ॥

पुरोधसाभिषिक्तोऽसौ पुरंदरपदे स्थितः॥
तदानीं नारदेनोक्तः कितवोऽसौ महायशाः॥ १८.७४ ॥

इन्द्राणीमानयस्त्वेति यथा राज्यं सुशोभितम्॥
ततः प्रहस्य चोवाच कितवः शिववल्लभः॥ १८.७५ ॥

इन्द्राण्या नास्ति मे कार्यं न वाच्यं ते महामते॥
एवमुक्त्वाथ कितवः प्रदातुमुपचक्रमे॥ १८.७६ ॥

ऐरावतमगस्त्याय प्रददौ शिववल्लभः॥
विश्वामित्राय कितवो ददौ हयमुदारधीः॥ १८.७७ ॥

उच्चैःश्रवससंज्ञं च कामधेनुं महायशाः॥
ददौ वशिष्ठाय तदा चिंतामणिं महाप्रभम्॥ १८.७८ ॥

गालवाय महातेजास्तदा कल्पतरुं च सः॥
कौंडिन्याय महाभागः कितवोपि गृहं तदा॥ १८.७९
एवमादीन्यनेकानि रत्नानि विविधानि च॥
ददावृषिभ्यो मुदितः शिवप्रीत्यर्थमेव च॥ १८.८० ॥

घटितकात्रितयं यावत्तावत्कालं ददौ प्रभुः॥
घटिकात्रितयादूध्व पूर्वस्वामी समागतः॥ १८.८१ ॥

पुरंदरोऽमरावत्यामुपविश्य निजासने॥
ऋषिभिः संस्तुतश्चैव शच्या सह तदाऽभवत्॥ १८.८२ ॥

शचीमुवाच दुर्मेधाः कितवेनासि भामिनि॥
भुक्ता ह्यस्यैव कथय याथातथ्येन शोभने॥ १८.८३ ॥

तदा प्रहस्य चोवाच पुरंदरमकल्मषा॥
आत्मौपम्येन सर्वत्र पश्यति त्वं पुरंदर॥ १८.८४ ॥

असौ महात्मा कितवस्वरूपी शिवप्रसादात्परमार्थविज्ञः॥
वै राग्ययुक्तो हि महानुभावो येनापि सर्वं परमं प्रपन्नम्॥ १८.८५ ॥

राज्यादिकं मोहमयं च पाशं त्यक्ता परेभ्यो विजयी स जातः॥ १८.८६ ॥

वचो निशम्य देवेश इंद्राण्याः स पुरंदरः॥
व्रीडायुक्तोऽभवत्तूष्णीमिंद्रासनगतस्तदा॥ १८.८७ ॥

बृहस्पतिमुवाचेदं वाक्यं वाक्यविदां वरः॥
ऐरावतो न दृश्येत तथैवोच्चैःश्रवा हयः॥ १८.८८ ॥

पारिजातादयः सर्वे पदार्थाः केन वा हृताः॥
गुरुरुवाचेदं कितवेन कृतं महत्॥ १८.८९ ॥

ऋषिभ्यो दत्त मद्यैव यावत्सत्ता हि तस्य वै॥
स्वसत्तायां महत्यां च स्वसत्ता ये भवंति च॥ १८.९० ॥

अप्रमात्ताश्च ये नित्यं शिवध्यानपरायणाः॥
ते प्रियाः शंकरस्यैव हित्वा कर्मफलानि वै॥
केवलं ज्ञानमाश्रित्य ते यांति परमं पदम्॥ १८.९१ ॥

एतच्छ्रुत्वा वचनं तस्य चेंद्रो बृहस्पतेर्वाक्यमिदं वभाषे॥
प्रायो यमो वक्ष्यति सर्वमेतत्समृद्धये ह्यात्मनश्चैव शक्रः॥ १८.९२ ॥

तथेति मत्वा गुरुणा सहैव राजा सुराणां सहसा जगाम॥
स्वकार्यकामो हि तथा पुरंदरो ययौ पुरीं संयमिनीं तदानीम्॥ १८.९३ ॥

यमेन पूज्यमानो हि शक्रो वाक्यमुवाच ह॥
त्वया दत्तं मम पदं कितवाय दुरात्मने॥ १८.९४ ॥

अनेनैतत्कृतं कर्म्म जुगुप्सितं महत्तरम्॥
मदीयानि च रत्नानि यानि सर्वाण्यनेन वै॥
एभ्य एभ्यः प्रदत्तानि धर्म्म जानीहि तत्त्वतः॥ १८.९५ ॥

त्वं धर्मनामासि कथं कितवाय प्रदत्तवान्॥
मम राज्यविनाशाय कृतमस्ति त्वयाऽधुना॥ १८.९६ ॥

आनयस्व महाभाग गजादीनि च सत्वरम्॥
अन्यानि चैव रत्नानि दत्तानि च यतस्ततः॥ १८.९७ ॥

निशम्य वाक्यं शक्रस्य यमो वचनमब्रवीत्॥
कितवं च रुषाविष्टः किं त्वया पापिना कृतम्॥ १८.९८ ॥

भोगार्थं चैव यद्दत्तं शक्रराज्यं त्वयाऽधुन्॥
प्रदत्तं च द्विजातिभ्यो ह्यन्यथा वै कृतं महत्॥ १८.९९ ॥

अकार्यं वै त्वया मूढ परद्रव्यापहारणम्॥
तेन पापेन महता निरयं प्रतिगच्छसि॥ १८.१०० ॥

यमस्य वचनं श्रुत्वा कितवो वाक्यमब्रवीत्॥
अहं निरयगामी च नात्र कार्या विचारणा॥ १८.१०१ ॥

यावत्स्वता मम विभो जाता शक्रासने तथा॥
तावद्दत्तं हि यत्किंचिद्द्विजेभ्यो हि यथातथम्॥ १८.१०२ ॥

॥ यम उवाच॥
दानं प्रशस्तं भूम्यां च दृश्यते कर्म्मणः फलम्॥
स्वर्गे दानं न दातव्यं केनचित्कस्यचित्क्वचित्॥
तस्माद्दंड्योऽसि रे मूढ अशास्त्रीयं कृतं त्वया॥ १८.१०३ ॥

गुरुरात्मवतां शास्ता राजा शास्ताः दुरात्मनाम्॥
सर्वेषां पापशीलानां शास्तऽहं नात्र संशयः॥ १८.१०४ ॥

एवं निर्भर्त्सयित्वा तं कितवं धर्मराट्‌स्वयम्॥
उवाच चित्रगुप्तं च नरके पच्यतामयम्॥
तदा प्रहस्य चोवाच चित्रगुप्तो यमं प्रति॥ १८.१०५ ।
कथं निरयगामित्वं कितवस्य भविष्यति॥
येन दत्तो ह्यगस्त्याय गज ऐरावतो महान्॥ १८.१०६ ॥

तथाश्वो ह्यब्धिसंभूतो गालवाय महात्मने॥
विश्वामित्राय भद्रं ते चिंतामणिर्महाप्रभः॥ १८.१०७ ॥

एवमादीनि रत्नानि दत्तानि कितेवन हि॥
तेन कर्मविपाकेन पूजनीयो जगत्त्रये॥ १८.१०८ ॥

शिवमुद्दिश्य यदत्तं स्वर्गे मर्त्ये च यैर्नरैः॥
तत्सर्वं त्वक्षयं विद्यान्निश्छिद्रं कर्म चोच्यते॥
तस्मान्नरकगामित्वं कितवस्य न विद्यते॥ १८.१०९ ॥

यानियानि च पापानि कितवस्य महात्मनः॥
भस्मीभूतानि सर्वाणि जातानि स्मरणाच्च वै॥ १८.११० ॥

शंभोः प्रसादात्सर्वाणि सुकृतानि च तत्क्षणात्॥
तद्वचश्चित्रगुप्तस्य निशम्य प्रेतराट् स्वयम्॥ १८.१११ ॥

प्रहस्यावाङ्‌मुखो भूत्वा इद माह शतक्रतुम्॥
त्वं हि राजा सुरेंद्राणां स्थविरो राज्यलंपटः॥ १८.११२ ॥

अश्वमेधशतेनैव एकं जन्मार्जितं कृतम्॥
त्वया नास्त्यत्र संदेहो ह्यर्ज्जितं तेन वै महत्॥ १८.११३ ॥

प्रार्थयित्वा ह्यगस्त्यादीन्मुनीन्सर्वान्विशेषतः॥
अर्थेन प्रणिपातेन त्वया लभ्यानि तानि च॥
गजादिकानि रत्नानि येन त्वं च सुखी त्वरन्॥ १८.११४ ॥

तथेति मत्वा वचनं पुरंदरो गतः पुरीं स्वामविवेकदृष्टिः॥
अभ्यर्थयामास विनम्रकंधरश्चर्षीस्ततो लब्धवान्पारिजातम्॥ १८.११५ ॥

अनेनैव प्रकारेण लब्धराज्यः पुरंदरः॥
जातस्तदामरावत्यां राजा सह महात्मभिः॥ १८.११६ ॥

कितवस्य पुनर्जन्म दत्तं वैवस्वतेन हि॥
किंचितकर्मविपाकेन विरोचनसुतोऽभवत्॥ १८.११७ ॥

सुरुचिर्जननी तस्य कितवस्याभवत्तदा॥
विरोचनस्य महिषी दुहिता वृषपर्वणः॥
तस्थौ जठरमास्थाय तस्याः सोऽपि महात्मनः॥ १८.११८ ॥

तदाप्रभृति तस्यैव प्रह्लादस्यात्मजात्स वै॥
सुरुचेश्च तथाप्यासीद्धर्मेदाने महामतिः॥ १८.११९ ॥

तेनैव जठरस्थेन कृता मतिरनुत्तमा॥
कितवेन कृता विप्रा दुर्लभा या मनीषिणाम्॥ १८.१२० ॥

एकदा वै तदा शक्रो ययौ वैरोचनं प्रति॥
हंतुकामो हि दैत्येंद्रं विप्रो भूत्वाऽथ याचकः॥ १८.१२१ ॥

विरोचनगृहं प्राप्त इंद्रो वाक्यमुवाच ह॥
स्थविरो ब्राह्मणो भूत्वा देहीति मम सुव्रत॥
मनस्वी त्वं च दैत्येंद्र दाता च भुवनत्रये॥ १८.१२२ ॥

तव विप्रा महाभाग चरितं परमाद्भुतम्॥
वर्णयन्ति समा जेषु स्थित्वा कीर्ति च निर्मलाम्॥
याचकोऽहं च दैत्येंद्र दातुरर्महसि सुव्रत॥ १८.१२३ ॥

तस्य तद्वचनं श्रुत्वा दैत्येंद्रो वाक्यमब्रवीत्॥
किं दातव्यं तव विभो वद शीघ्रं ममाधुना॥ १८.१२४ ॥

इंद्रो हि विप्ररूपेण विरोचनमुवाच ह॥
याचयामि च दैत्येंद्र यदहं परिभावितः॥ १८.१२५ ॥

आत्मप्रीत्या च दातव्यं मम नास्त्यत्र संशयः॥
उवाच प्रहसन्वाक्यं प्रह्लादस्यात्मजोऽसुरः॥ १८.१२६ ॥

ददाम्यात्मशिरो विप्र यदि कामयसेऽधुना॥
इदं राज्यमनायासमियं श्रीर्नान्यगामिनी॥
अहं समर्पयिष्यामि तव नास्त्यत्र सशयः॥ १८.१२७ ॥

इत्युक्तस्तेन दैत्येन विमृश्य च तदा हरिः॥
उवाच देहि मे स्वीयं शिरो मुकुटसेवितम्॥ १८.१२८ ॥

एवमुक्ते तु वचने शक्रेण द्विजरूपिणा॥
त्वरन्महेंद्राय तदा शिवर उत्कृत्त्य वै मुदा॥
स्वकरेण ददौ तस्मै प्रह्लादस्यात्मजोऽसुरः॥ १८.१२९ ॥

प्रह्लादेन पुरा यस्तु कृतो धर्म्मः सुदुष्करः॥
केवलां भक्तिमाश्रित्य विष्णोस्तत्परचेतसा॥ १८.१३० ॥

दानात्परतरं चान्यत्क्वचिद्वस्तु न विद्यते॥
तद्दानं च महापुण्यमार्तेभ्यो यत्प्रदीयते॥ १८.१३१ ॥

स्वशक्त्या यच्च किंचिच्च तदानंत्याय कल्पते॥
दानात्परतरं नान्यत्त्रिषु लोकेषु विद्यते॥ १८.१३२ ॥

सात्त्विकं राजसं चैव तामसं च प्रकीर्तिततम्॥
तथा कृतमनेनैव दानं सात्त्विकलक्षणम्॥ १८.१३३ ॥

शिर उत्कृत्त्य चेंद्राय प्रदत्तं विप्ररूपिणे॥
किरीटः पतितस्तत्र मणयो हि महाप्रभाः॥ १८.१३४ ॥

ऐकपद्येन पतितास्ते जाता मंडलाय वै॥
दैत्यानां च नरेंद्राणां पन्नगानां तथैव च॥ १८.१३५ ॥

विरोचनस्य तद्दानं त्रिषु लोकेषु विश्रुतम्॥
गायंत्यद्यापि कवयो दैत्येंद्रस्य महात्मनः॥ १८.१३६ ॥

विरोचनस्य पुत्रोऽभूत्कितवोऽसौ महाप्रभः॥
मृते पितरि जातोऽसौ माता तस्य पतिव्रता॥ १८.१३७ ॥

कलेवरं च तत्याज पतिलोकं गता ततः॥
भार्गवेणाभिषिक्तोऽसौ जनकस्य निजासने॥ १८.१३८ ॥

नाम्ना बलिरिति ख्यातो बभूव च महायशाः॥
तेन सर्वे सुरगणास्त्रासिताः सुमहाबलाः॥ १८.१३९ ॥

गतस्ते कथिताः पूर्वं कश्यपस्याश्रमं शुभम्॥
तदा बलिरभूदिन्द्रो देवपुर्यां महायशाः॥ १८.१४० ॥

स्वयं तताप तपसा सूर्यो भूत्वा तदाऽसुरः॥
ईशो भूत्वा स्वयं चास्ते ऐशान्यां दिशि पालयन्॥ १८.१४१ ॥

तथा च नैर्ऋतो भूत्वा तथा त्वंबुपतिः स्वयम्॥
धनाध्यक्ष उदीच्यां वै स्वयमास्ते बलिस्तदा॥
एवमास्ते बलिः साक्षात्स्वयमेव त्रिलोकभुक्॥ १८.१४२ ॥

शिवार्चनरतेनैव कितवेन बलिर्द्विजाः॥
पूर्वाभ्यासेन तेनैव महादानरतोऽभवत्॥ १८.१४३ ॥

एकदा तु सभामध्ये आस्थितो भृगुणा सह॥
दैत्येंद्रैः संवृतः श्रीमाञ्छंडामर्कौ वचोऽब्रवीत्॥ १८.१४४ ॥

आवासः क्रियतामत्र क्रियतामत्र असुरैर्म्मम सन्निधौ॥
हित्वा पातालमद्यैव मा विलंबितुमर्हथ॥ १८.१४५ ॥

भार्गवस्तदुपश्रुत्य प्रहस्येदमुवाच ह॥
यज्ञैश्च विविधैश्चैव स्वर्गलोके महीयते॥ १८.१४६ ॥

याज्ञिकैश्च महाराज नान्यथा स्वर्गमेव हि॥
भोक्तुं हि पार्यते राजन्नान्यता मम भाषितम्॥ १८.१४७ ॥

गुरोर्वचनमाज्ञाय दैत्येंद्रो वाक्यमब्रवीत्॥
मया कॉतं च यत्कर्म तेन सर्वे महासुराः॥
स्वर्गे वसंतु सुचिरं नात्र कार्या विचारणा॥ १८.१४८ ॥

प्रहस्यो वाच भगवान्भार्गवाणां महातपाः॥
बलिनं बालिशं मत्वा शुक्रो बुद्धिमतां वरः॥ १८.१४९ ॥

यत्त्वयोक्तं च वचनं बले मम न रोचते॥
इहैव त्वं समा गत्य वस्तुं चेच्छसि सुव्रत॥ १८.१५० ॥

अश्वमेधशतेनैव यज त्वं जातवेदसम्॥
कर्म्मभूमिं गतो भूत्वा मा विलंबितुमर्हसि॥ १८.१५१ ॥

तथेति मत्वा स बलिर्महात्मा हित्वा तदानीं त्रिदिवं मनस्वी॥
दैत्यैः समेतो गुरुणा च संगतो ययौ भुवं सोनुचरैः समेतः॥ १८.१५२ ॥

तन्नर्मदाया गुरुकुल्यसंज्ञकं तीरे महातीर्थमुदारशोभम्॥
गत्वा तदा दैत्यपतिर्महात्मा जित्वा समग्रं वसुधावलं च॥ १८.१५३ ॥

ततोऽश्वमेधैर्बहुभिर्विचक्षणो गुरुप्रयुक्तः स महायशाबलिः॥
ईजे च दीक्षां परमामुपेतो वैरोचनिं सत्यवतां वरिष्ठः॥ १८.१५४ ॥

कृत्वा ब्राह्मणमाचार्यमृत्विजः षोडशाऽभवन्॥
सुपरीक्षितेन तेनैव भार्गवेण महात्मना॥ १८.१५५ ॥

यज्ञानामूनमेकेन शतं दीक्षापरेण हि॥
बलिना चाश्वमेधानां पूर्णं कर्तुं समादधे॥ १८.१५६ ॥

यावद्यज्ञशतं पूर्णं तस्य राज्ञो भविष्यति॥
पुरा प्रोक्तं मया चात्र ह्यदित्या व्रतमुत्तमम्॥ १८.१५७ ॥

व्रतेन तेन संतुष्टो भगवान्हरिरीश्वरः॥
बटुरूपेम महता पुत्रभूतो बभूव ह॥ १८.१५८ ॥

अदित्याः कश्यपेनैव उपनीतस्तदा प्रभुः॥
उपनीतेऽथ संप्राप्तो ब्रह्मा लोकपितामहः॥ १८.१५९ ॥

दत्तं यज्ञोपवीतं च ब्रह्मणा परमेष्ठिना॥
दंडकाष्ठं प्रदत्तं हि सोमेन च महात्मना॥ १८.१६० ॥

मेखला च समानीता अजिनं च महाद्भुतम्॥
तथा च पादुके चैव मह्या दत्ते महात्मनः॥ १८.१६१ ॥

तत्र भिक्षा समानीता भवान्या चार्थसिद्धये॥
एवं भगवते दत्तं विष्णवे बटुरूपिणे॥ १८.१६२ ॥

अभिवंद्य श्रीशो वामनो ह्दितिं तथा॥
कश्यपंच महातेजा यज्ञवाटं जगाम च॥
याज्ञिकस्य बलेराह च्छलनार्थं स्वयं प्रभुः॥ १८.१६३ ॥

तदा महेशः स जगाम स्वर्गं प्रकंपयन्गां प्रपदा भरेण॥
स वामनो बटुरूपी च साक्षाद्विष्णुः परात्मा सुरकार्यहेतोः॥ १८.१६४ ॥

गीर्भिर्यथार्थाभिरभिष्टुतो जनैर्मुनीश्वरैर्देवगणैर्महात्मा॥
त्वरेण गच्छन्स च यज्ञवाटं प्राप्तस्तदानीं जगदेकबंधुः॥ १८.१६५ ॥

उद्गापयन्साम यतो हि साक्षाच्चकार देवो बटुरूपवेषः॥
उद्गीयमानो भगवान्स ईश्वरो वेदांत वेद्यो हरिरीश्वरः प्रभुः॥ १८.१६६ ॥

ददर्श तं महायज्ञमश्वमेधं बलेस्तदा॥
द्वारि स्थितो महातेजा वामनो बटुरूपधृक्॥ १८.१६७ ॥

ब्रह्मरूपेण महता व्याप्तमासीद्दिगंतरम्॥
पवमानस्य च बटोर्वामनस्य महात्मनः॥ १८.१६८ ॥

तच्छ्रुत्वा च बलिः प्राह शंडामर्क्कौ च बुद्धिमान्॥
ब्राह्मणाः कतिसंख्याश्च आगताः संति ईक्ष्यताम्॥ १८.१६९ ॥

तथेति मत्वा त्वरितावुत्थितौ तौ तदा द्विजाः॥
शंडामर्कौ समागम्य मंडपद्वारि संस्थितौ॥ १८.१७० ॥

ददृशाते महात्मानं श्रीहरिं बटुरूपिणम्॥
त्वरितौ पुनरायातौ बलेः शंसयितुं तदा॥ १८.१७१ ॥

ब्रह्मचारी समायात एक एव न चापरः॥
पठनादौ महाराज चागतस्तव सन्निधौ॥
किमर्थं तन्न जानीमो जानीहि त्वं महामते॥ १८.१७२ ॥

एवमुक्ते तु वचने ताभ्यां स च महामनाः॥
उत्थितस्तत्क्षणादेव दर्शनार्थे बटुं प्रति॥ १८.१७३ ॥

स ददर्श महातेजा विरोचनसुतो महान्॥
दंडवत्पतितो भूमौ ननाम शिरसा बटुम्॥ १८.१७४ ॥

आनयित्वा बटुं सद्यः संनिवेश्यः निजासने॥
अर्घ्यपाद्येन महताभ्यर्चयामास तं बटुम्॥ १८.१७५ ॥

विनम्रकंधरो भूत्वा उवाच श्लक्ष्णया गिरा॥
कुतः कस्माच्च कस्यासि तच्छिघ्रं कथ्यतां प्रभो॥ १८.१७६ ॥

तच्छ्रुत्वा वचनं तस्य विरोचनसुतस्य वै॥
मनसा हृषितश्चासौ वामनो वक्तुमारभत्॥ १८.१७७ ॥

॥भगवानुवाच॥
त्वं हि राजा त्रिलोकेशो नान्यो भवितुमर्हसि॥
स्वकुलं न्यूनतां गच्छेद्यो वै कापुरुषः स्मृतः॥ १८.१७८ ॥

समं वा चाधिको वापि यो गच्छेत्पुरुषः स्मृतः॥
त्वया कृतं च यत्कर्म्म न कृतं पूर्वजैस्तव॥ १८.१७९ ॥

दैत्यानां च वरिष्ठा ये हिरण्यकसिपादयः॥
कृतं महत्तपो येन दिव्यं वर्षसहस्रकम्॥ १८.१८० ॥

शरीरं भक्षितं यस्य जुषाणस्य तपो महत्॥
पिपीलिकाभिर्बहुभिर्दंशैश्चैव समावृतम्॥ १८.१८१ ॥

अभवत्तस्य तज्ज्ञात्वा सुरेंद्रो ह्यगमत्पुरा॥
नगरं तस्य च तदा सैन्येन महता वृतः॥ १८.१८२ ॥

तत्सन्निधौ हताः सर्वे असुरा दैत्यशत्रुणा॥
विंध्या तु महिषी तस्य नीयमाना निवारिता॥ १८.१८३ ॥

नारदेन पुरा राजन्किंचित्कार्यं चिकीर्षुणा॥
शंभोः प्रसादादखिलं मनसा यत्समीक्षितम्॥
दैत्येंद्रेण च तत्सर्वं तपसैव वशीकृतम्॥ १८.१८४ ॥

तस्याः पुत्रो महातेजा येन नीतोऽभवत्सभाम्॥
तस्य पुत्रो महाभाग पिता ते पितृवत्सलः॥
नाम्ना विरोचनो विद्वानिंद्रो येन महात्मना॥ १८.१८५ ॥

दानेन तोषितो राजन्स्वेनैव शिरसा तदा॥
तस्यात्मजोसि भो राजन्कृतं ते परमं यशः॥ १८.१८६ ॥

यशोदीपेन महता दग्धाः शलभवत्सुराः॥
इंद्रोपि निर्जितो येन त्वया नास्त्यत्र संशयः॥ १८.१८७ ॥

श्रुतमस्ति मया सर्वं चरितं तव सुव्रत॥
अल्पकोऽहमिहायातो ब्रह्मचर्यव्रते स्थितः॥ १८.१८८ ॥

उटजार्थे च मे देहि भूमीं भूमिभृतांवर॥
बटोस्तस्यैव तद्वाक्यं श्रुत्वा बलिरभाषत॥ १८.१८९ ॥

हे बटो पंडितो भूत्वा यदुक्तं वचनं पुरा॥
शिशुत्वात्तन्न जानासि श्रुत्वा मन्ये यथार्थतः॥ १८.१९० ॥

वद शीघ्रं महाभाग कियन्मात्रां महीं तव॥
दास्यामि त्वरितेनैव मनसा तद्विमृश्यताम्॥ १८.१९१ ॥

तदाह वामनो वाक्यं स्मयन्मधुरया गिरा॥
असंतोषपरा ये च विप्रा नष्टा न संशयः॥ १८.१९२ ॥

संतुष्टा ये हि विप्रास्ते नान्ये वेषधरा ह्यमी॥
स्वधर्मनिरता राजन्निर्दंभा निरवग्रहाः॥ १८.१९३ ॥

निर्मत्सरा जितकोधावदान्या हि महामते॥
विप्रास्ते हि महाभाग तैरियं धार्यते मही॥ १८.१९४ ॥

मनस्वी त्वं बहुत्वाच्च दातासि भुवनत्रये॥
तथापि मे प्रदातव्या मही त्रिपदसंमिता॥ १८.१९५ ॥

बहुत्वे नास्ति मे कार्यं मह्या वै सुरसूदन॥
प्रवेशमात्रमुटजं तथा मम भविष्यति॥ १८.१९६ ॥
त्रिपदं पूर्यतेऽस्माकं वस्तुं नास्त्यत्र संशयः॥
देहि मे क्रमतो राजन्यावद्भूमिभविष्यति॥
तावत्संख्या प्रदातव्या यदि दातासि भो बले॥ १८.१९७ ॥

प्रहस्य तमुवाचेदं बलिर्वैरोचनात्मजः॥
दास्यामि ते महीं कृत्सां सशैलवनकाननाम्॥ १८.१९८ ॥

मदीयां वै महाभाग मया दत्तां गृहाम वै॥
याचकोऽसि बटो पश्य दानं दैत्याप्रयाचसे॥ १८.१९९ ॥

याचको ह्यल्पको वास्तु दाता सर्वं विमृश्य वै॥
तथा विलोक्य चात्मानं ह्यर्थिभ्यश्च ददाति वै॥ १८.२०० ॥

आत्मौपम्येन सर्वत्र यो ददाति ह्युदारधीः॥
तस्मान्न याचितव्यं हि अर्थिना मंदभागिना॥ १८.२०१ ॥

बटो ददाम्यहं तेऽद्य ससैलवनकाननाम्॥
पृथ्वीं सपर्वतां साब्धिं नान्यथा मम भाषितम्॥ १८.२०२ ॥

पुनः प्रोवाच स बटुर्विरोचनसुतं प्रति॥
पूर्यते मम दैत्येंद्र क्रमतो हि पदैस्त्रिभिः॥ १८.२०३ ॥

बटोस्तद्वचनं श्रुत्वा असुरेन्द्रो बलिस्तदा॥
उवाच प्रहसन्वाक्यं मन्यमानो बलिर्भृशम्॥
गृह्यतां च मया दत्तां पदैस्त्रिभिरलंकृताम्॥ १८.२०४ ॥

इत्युक्तो वामनः प्राह प्रहसन्नसुरं प्रति॥
संकल्प्य सकलां पृथ्वीं दातुमर्हसि सुव्रत॥ १८.२०५ ॥

तथेति मत्वा बलिना सुपूजितः स वामनः कश्यपनंदनो महान्॥
बलिस्तदानीं सहसा नितांतं संस्तूयमानस्त्वृषिभिर्मुनींद्रैः॥ १८.२०६ ॥

तं पूजयित्वा स बलिर्यावद्दातुं समुद्यतः॥
गुरुणा वारित स्तावद्विरोचनसुतो महान्॥ १८.२०७ ॥

न दातव्यं त्वया दानं विष्णवे बटुरूपिणे॥
इंद्रार्थमागतः सद्यो यज्ञविघ्नं करोति ते॥
तस्मात्त्वया न पूज्यो हि विष्णुरध्यात्मदीपकः॥ १८.२०८ ॥

पुरा कृतमनेनैव मोहिनीरूपधारिणा॥
देवेभ्यश्चामृतं दत्तं राहुर्येन हतो महान्॥ १८.२०९ ॥

येन विद्राविता दैत्याः कालनेमिर्हतो बली॥ १८.२१० ॥

एवंविधोऽयं पुरुषो महात्मा स ईश्वरो विश्वपतिः स एव॥
विमृश्य सर्वं मनसा महामते हिताहितं कर्तुमि हार्हसि त्वम्॥ १८.२११ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे बलियज्ञे वामनगमनवर्णनं नामाष्टादशोऽध्यायः॥ १८ ॥ छ ॥