स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १४
← अध्यायः १३ | स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः अध्यायः १४ वेदव्यासः |
अध्यायः १५ → |
॥लोमश उवाच॥
ततो युद्धमतीवासीदसुरैर्विष्णुना सह॥
ततः सिंहाः सपक्षास्ते दंशिताः परमाद्भुताः॥ १४.१ ॥
असुरैरुह्यमानास्ते रहुत्मंतं व्यदारयन्॥
सिंहास्ते दारितास्तेन खंडशश्च विदारिताः॥ १४.२ ॥
विष्णुना च तदा दैत्याश्चक्रेण शकलीकृताः॥
हतांस्तानसुरान्दृष्ट्वा कालनेमिः प्रतापवान्॥ १४.३ ॥
त्रिशूलेनाहनद्विष्णुं रोषपर्याकुलेक्षणः॥
तमायांतं च जगृहे मुकुंदोऽनाथसंश्रयः॥ १४.४ ॥
करेण वामेन जघान लीलया तं कालनेमिं ह्यसुरं महाबलम्॥
तेनैव शूलेन समाहतोऽसौ मूर्च्छान्वितोऽसौ सहसा पपात॥ १४.५ ॥
पतितः पुनरुत्थाय शनैरुन्मील्य लोचने॥
पुरतः स्थितमालोक्य विष्णुं सर्वगुहाशयम्॥ १४.६ ॥
लब्धसंज्ञोऽब्रवीद्वाक्यं कालनेमिर्महाबलः॥
तव युद्धं न दास्यामि नास्ति लोके स्पृहा मम॥ १४.७ ॥
ये येऽसुरा हता युद्धे अक्षयं लोकमाप्नुयुः॥
ब्रह्मणो वचनात्सद्य इंद्रेण सह संगताः॥ १४.८ ॥
भुंजतो विविधान्भोगान्देववद्विचरंति ते॥
इंद्रेण सहिताः सर्वे संसारे च पतंत्यथ॥ १४.९ ॥
तस्माद्युद्धेन मरणं न कांक्षे क्षणभंगुरम्॥
अन्यजन्मनि मे वीर वैरभावान्न संशयः॥
दातुमर्हसि मे नाथ कैवल्यं केवलं परम्॥ १४.१० ॥
तथेति दैत्यप्रवरो निपातितः परेण पुंसा परमार्थदेन॥
दत्त्वाऽभयं देवतानां तदानीं तथा सुधां देवताभ्यः प्रदत्त्वा॥ १४.११ ॥
कालनेमिर्हतो दैत्यो देवा जाता ह्यकटकाः॥
शल्यरूपो महान्सद्यो विष्णुना प्रभविष्णुना॥ १४.१२ ॥
तिरोधानं गतः सद्यो भगवान्कमलेक्षणः॥
इंद्रोऽपि कदनं कृत्वा दैत्यानां परमाद्भुतम्॥ १४.१३ ॥
पतितानां क्लीबरूपाणां भग्नानां भीतचेतसाम्॥
मुक्तकच्छशिखानां च चक्रे स कदनक्रियाम्॥ १४.१४ ॥
अर्थशास्त्रपरो भूत्वा महेंद्रो दुरातिक्रमः॥
दैत्यानां कालरूपोऽसौ शचीपतिरुदारधीः॥ १४.१५ ॥
एवं निहन्य्मानानामसुराणां शचीपतेः॥
निवारणार्थं भगवानागतो नारदस्तदा॥ १४.१६ ॥
॥ नारद उवाच॥
युद्धहताश्च ये वीरा ह्यसुरा रणमण्डले॥
तेषामनु कथं कर्ता भीतानां च विहिंसनम्॥ १४.१७ ॥
ये भीतांश्च प्रपन्नांश्चघातयंति मदोद्धताः॥
ब्रह्मघ्नास्तेऽपि विज्ञेया महापातकसंयुताः॥ १४.१८ ॥
तस्मात्त्वया न कर्त्तव्यं मनसापि विहिंसनम्॥
एवमुक्तस्तदा शक्रो नारदेन महात्मना॥ १४.१९ ॥
सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम्॥
तदा सर्वे सुरगणाः सुहृद्भ्यश्च परस्परम्॥
बभूवुर्मुदिताः सर्वे यक्षगंधर्वकिंनराः॥ १४.२० ॥
तदा इंद्रोऽमरावत्यां हस शच्याऽभिषेचितः॥ १४.२१ ॥
देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा॥
शक्रोऽपि विजयं प्राप्तः प्रसादाच्छंकरस्य च॥ १४.२२ ॥
तदा महोत्सवो विप्रा देवलोके महानभूत्॥
शंखाश्च पटहाश्चैव मृदंगा मुरजा अपि॥
तथानकाश्च भेर्यश्च नेदुर्दुंदुभयः समम्॥ १४.२३ ॥
गायकाश्चैव गंधर्वाः किन्नराश्चाप्सपोगणाः॥
ननृतुर्जगुस्तुष्टुवुश्च सिद्धचारणगुह्यकाः॥ १४.२४ ॥
एवं विजयमापन्नः शक्रो देवेस्वरस्तदा॥
देवैर्हतास्तदा दैत्याः पतितास्ते महीतले॥ १४.२५ ॥
गतासवो महात्मानो बलिप्रमुखतो ह्यमी॥
तपस्तप्तुं पुरा विप्रो भार्गवो मानसोत्तरम्॥ १४.२६ ॥
गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत्॥
अवशेषाश्च ये दैत्यास्ते गता भार्गवं प्रति ॥ १४.२७ ॥
कथितं वै महद्धृत्तमसुराणां क्षयावहम्॥
निशम्य मन्युमाविष्टो ह्यागतो भृगुनंदनः॥ १४.२८ ॥
शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि॥
विद्यया मृतजीविन्या पतितान्समजीवयत्॥ १४.२९ ॥
निद्रापायगता यद्वदुत्थितास्ते तदाऽसुराः॥
उत्थितः स बलिः प्राह भार्गवं ह्यमितद्युतिम्॥ १४.३० ॥
जीवितेन किमद्यैव मम नास्ति प्रयोजनम्॥
पातितस्त्रिदशेंद्रेण यथा कापुरुषस्तथा॥ १४.३१ ॥
बलिनोक्तं वचः श्रुत्वा शुक्रो वचनमब्रवीत्॥
मनस्विनो हि ये शूराः पतंति समरे बुधा॥ १४.३२ ॥
ये शस्त्रेण हताः सद्यो म्रियमाणा व्रजंति वै॥
त्रिविष्टपं न संदेह इति वेदानुशासनम्॥ १४.३३ ॥
एवमाश्वासयामास बलिनं भृगुनंदनः॥
तपस्तताप विविधं दैत्यानां सिद्धिदायकम्॥ १४.३४ ॥
तथा दैत्य गताः सर्वे भृगुणा च प्रचोदिताः॥
पातालमवसन्सर्वे बलिमुख्याः सुखेन वै॥ १४.३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे देवासुरसंग्रामे भार्गवेण मृतदैत्यसंजीवनवर्णनंनाम चतुर्दशोऽध्यायः॥ १४ ॥ छ ॥