स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः १३
वेदव्यासः
अध्यायः १४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
ततस्ते गर्ज्जमानाश्च आक्षिपंतः सुरान्रणे॥
शतक्रतुप्रमुख्यांस्तन्महाबलपराक्रमान्॥ १३.१ ॥

विमानमारुह्य तदा महात्मा वैरोचनिः सर्वबलेन सार्द्धम्॥
दैत्यैः समेतो विविधैर्महाबलैः सुरान्प्रदुद्राव महाभयावहम्॥ १३.२ ॥

स्वानि रूपाणि बिभ्रंतः समापेतुः स हस्रशः॥
केचिद्व्याघ्रान्समारूढा महिषांश्च तथा परे॥ १३.३ ॥

अश्वान्केचित्समारूढा द्विपान्केचित्तथा परे॥
सिंहांस्तथा परे रूढाः शार्दूलाञ्छरभांस्तथा॥ १३.४ ॥

मयूरान्राजहंसांश्च कुक्कुटांश्च तथा परे॥
केचिद्धयान्समारूढा उष्ट्रानश्वतरानपि॥ १३.५ ॥

गजान्खरान्परे चैव शकटांश्च तथा परे॥
पादाता बहवो दैत्याः खङ्गशक्त्यृष्टिपाणयः॥ १३.६ ॥

परिघायुधिनः पाशशूलमुद्गरपाणयः॥
असिलोमान्विताः केचिद्भुशुंडीपरिघायुधाः॥ १३.७ ॥

हयनागरथाश्चान्ये समारूढाः प्रहारिणः॥
विमानानि समारूढा बलिमुख्याः सहस्रशः॥ १३.८ ॥

स्पर्द्धमानास्ततान्योन्यं गर्जंतश्च मुहुर्मुहुः॥
वृषपर्वा ह्युवा चेदं बलिनं दैत्यपुंगवम्॥ १३.९ ॥

त्वया कृतं महाबाहो इंद्रेण सह संगमम्॥
विश्वासो नैव कर्तव्यो दुर्हृदा च कथंचन॥ १३.१० ॥

ऊनेनापि हि तुच्छेन वैरिणापि कथंचन॥
मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते॥ १३.११ ॥

न विश्वसेत्पूर्वविरोधिना क्वचित्पराजिताः स्मोऽथ बले त्वयाधुना॥
पुराणदुष्टाः कथमद्य वै पुनर्मंत्रं विकर्तुं न च ते यतेरन्॥ १३.१२ ॥

इत्यूचुस्ते दुराधर्षा योद्धुकामा व्यवस्थिताः॥
ध्वजैश्छत्रैः पताकैश्च रणभूमिममंडयन्॥ १३.१३ ॥

चामरैश्च दिशः सर्वा लोपितं च रणस्थलम्॥
तथा सर्वे सुरास्तत्र दैत्यान्प्रति समुत्सुकाः॥ १३.१४ ॥

पीत्वामृतं महाभागा वाहान्यारुह्य दंशिताः॥
गजारूढो महेंद्रोपि वज्रपाणिः प्रतापवान्॥
सूर्यश्चोच्चैः श्रवारूढो मृगा रूढश्च चन्द्रमाः॥ १३.१५ ॥

छत्रचामरसंवीताः शोभिता विजयश्रिया॥
प्रणम्य विष्णुं ते सर्व इंद्राद्या जयकांक्षिणः॥ १३.१६ ॥

ते विष्णुना ह्यनुज्ञाता असुरान्प्रति वै रुषा॥
असुराश्च महाकाया भीमाक्षा भीमविक्रमाः॥ १३.१७ ॥

तेषां बोरमभूद्युद्धं देवानां दानवैः सह॥
तुमुलं च महाघोरं सर्वभूतभयावहम्॥ १३.१८ ॥

शरधारान्वितं सर्वं बभूव परमाद्भुतम्॥
ततश्च टचटाशब्दा बभूवुश्च दिशोदश॥ १३.१९ ॥

ततो निमिषमात्रेण शरघातयुता भवन्॥
शरतोमरनाराचैराहताश्चापतन्भुवि॥ १३.२० ॥

विध्यमानास्तथा केचिद्विविधुश्चापरान्रणे॥
भल्लैर्भग्नाश्च पतिता नाराचैः शकलीकृताः॥ १३.२१ ॥

क्षुरप्रहारिताः केचिद्दैत्या दानवराक्षसाः॥
शिलीमुखैर्मारिताश्च भग्नाः केचिच्च दानवाः॥ १३.२२ ॥

एवं भग्नं दानवानां च सैन्यं दृष्ट्वा देवा गर्जमानाः समंतात्॥
हृष्टाः सर्वे संमिलित्वा तदानीं लब्ध्वा युद्धे ते जयं श्लाघयन्ते॥ १३.२३ ॥

शंखवादित्रघोषेण पूरितं च जगत्त्रयम्॥
देवान्प्रति कृतामर्षा दानवास्ते महाबलाः॥ १३.२४ ॥

बलिप्रभृतयः सर्वे संभ्रमेणोत्थिताः पुनः॥
विमानैः सूर्यसंकासैरनेकैश्च समन्विताः॥ १३.२५ ॥

द्वंद्वयुद्धं सुतुमुलं देवानां दानवैः सह॥
संप्रवृत्तं पुनश्चैव परस्परजिगीषया॥ १३.२६ ॥

बलिना दानवेंद्रेण महेंद्रो युयुधे तदा॥
तथा यमो महाबाहुर्नमुच्या सह संगतः॥ १३.२७ ॥

नैर्ऋतः प्रघसेनैव पाशी कुंभेन संगतः॥
निकुंभेनैव सुमहद्युद्धं चक्रे सदारयः॥ १३.२८ ॥

सोमेन सह राहुश्च युद्धं चक्रे सुदारुणम्॥
राहुणा चन्द्रदेहोत्थममृतं भक्षितं तदा॥
संपर्कादमृस्यैव यथा राहुस्तथाऽभवत्॥ १३.२९ ॥

तानि सर्वाणि दृष्टानि शंभुना परमेष्ठिना॥
आश्रयोऽहं च सर्वेषां भूतानां नात्र संशयः॥
असुराणां सुराणां च सर्वेषामपि वल्लभः॥ १३.३० ॥

एवमुक्तस्तदा राहुः प्रणम्य शिरसा शिवम्॥
मौलौ स्थितस्तदा चंद्रो अमृतं व्यसृजद्भयात्॥ १३.३१ ॥

तेन तस्य हि जातानि शिरांसि सुबहून्यपि॥
एकपद्येन तेषां च स्रजं कृत्वा मनोहराम्॥
बबंध शंभुः शिरसि शिरोभूषणवत्कृतम्॥ १३.३२ ॥

अशनात्कालकूटस्य नीलकंठोऽभवत्तदा॥
देवानां कार्यसिद्ध्यर्थं मुंडमाला तथा कृता॥ १३.३३ ॥

दधार शिरसा तां च मुण्डमालां महेश्वरः॥ १३.३४ ॥

तया स्रजाऽसौ शुशुभे महात्मा देवादिदेवस्त्रिपुरांतको हरः॥
गजासुरो येन निपातितो महानथांधको येन कृतश्च चूर्णः॥ १३.३५ ॥

गंगा धृता येन शिरस्सुमध्ये चंद्रं च चूडे कृतवान्भयापहः॥
वेदाः पुराणानि तथागमाश्च तथैव नानाश्रुतयोऽथ शास्त्रम्॥ १३.३६ ॥

जल्पंति नानागमभेदैर्मीमांसमानाश्च भवंति मूकाः॥
नानागमार्चायमतप्रभेदैर्निरूप्यमाणो जगदेकबंधुः॥ १३.३७ ॥

शिवं हि नित्यं परमात्मदैवं वेदैकवेद्यं परमात्मदिव्यम्॥
विहाय तं मूढजनाः प्रमत्ताः शिवं न जानंति परात्मरूपम्॥ १३.३८ ॥

येनैव सृष्टं विधृतं च येन येन श्रितं येन कृतं समग्रम्॥
यस्यांशभूतं हि जगत्कदाचिद्वेदांतवेद्यः परमात्मा शिवश्च॥ १३.३९ ॥

आढ्यो वापि दरिद्रो वा उत्तमो ह्यधमोऽपि वा॥
शिवभक्तिरतो नित्यं शिव एव न संशयः॥ १३.४० ॥

यो वा परकृतां पूजां शिवस्योपरि शोभिताम्॥
दृष्ट्वा संतोषमायाति दायं प्राप्नोति तत्समम्॥ १३.४१ ॥

ये दीपमालां कुर्वंति कार्तिक्यां श्रद्धयान्विताः॥
यावत्कालं प्रज्वलंति दीपास्ते लिंगमग्रतः॥
तावद्युगसहस्राणि दाता स्वर्गे महीयते॥ १३.४२ ॥

कौसुंभतैलसंयुक्ता दीपा दत्ताः शिवालये॥
दातारस्तेऽपि कैलासे मोदन्ते शिवसंनिधौ॥ १३.४३ ॥

अतसीतैलसंयुक्ता दीपा दत्ताः शिवालये॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै॥ १३.४४ ॥

ज्ञानिनोऽपि हि जायंते दीपदानफलेन हि॥ १३.४५ ॥

तिलतैलेन संयुक्ता दीपा दत्ताः शिवालये॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै॥ १३.४६ ॥

घृताक्ता यैः कृता दीपा दीपिताश्च शिवालये॥
ते यांति परमं स्थानं कुललक्षसमन्विताः॥ १३.४७ ॥

कर्पूरागुरुधूपैश्च ये यजंति सदा शिवम्॥
आरार्तिकां सकर्प्पूरां ये कुर्वंति दिनेदिने॥
ते प्राप्नुवंति सायुज्यं नात्र कार्या विचारणा॥ १३.४८ ॥

एककालं द्विकालं वा त्रिकालं ये ह्यतंद्रिताः॥
लिंगार्चनं प्रकुर्वंति ते रुद्रा नात्र संशयः॥ १३.४९ ॥

रुद्राक्षधारणं ये च कुर्वंति शिवपूजने॥
दाने तपसि तीर्थे च पर्वकाले ह्यतंद्रिताः॥
तेषां यत्सुकृतं सर्वमनंतं भवति द्विजाः॥ १३.५० ॥

रुद्राक्षा ये शिवेनोक्तास्ताच्छृणुध्वं द्विजोत्तमाः॥
आरम्भैकमुखं तावद्याबद्वक्त्राणि षोडश॥
एतेषां द्वौ च विज्ञेयौ श्रेष्ठौ तारयितुं द्विजाः॥ १३.५१ ॥

रुद्राक्षाणां पंचमुखखस्तथा चैकमुखः स्मृतः॥
ये धारयंत्येकमुखं रुद्राक्षमनिशं नराः॥
रुद्रलोकं च गच्छंति मोदन्ते रुद्रसंनिधौ॥ १३.५२ ॥

जपस्तपः क्रिया योगः स्नानं दानार्चनादिकम्॥
क्रियते यच्छृभं कर्म्म ह्यनंतं चाक्षधारणात्॥ १३.५३ ॥

शुनः कंठनिबद्धोऽपि रुद्राक्षो यदि वर्तते॥
सोऽपि संतारितस्तेन नात्र कार्या विचारणा॥ १३.५४ ॥

तथा रुद्राक्षसंबंधात्पापमपिक्षयं व्रजेत्॥
एवं ज्ञात्वा शुभं कर्म कार्यं रुद्राक्षबंधनात्॥ १३.५५ ॥

त्रिपुण्ड्रधारणं येषां विभूत्वा मन्त्रपूतया॥
ते रुद्रलोके रुद्राश्च भविष्यंति न संशयः॥ १३.५६ ॥

कपिलायाश्च संगृह्य गोमयं चांतरिक्षगम्॥
शुष्कं कृत्वाथ संदाह्यं विभूत्यर्थं शिवप्रियैः॥ १३.५७ ॥

विभूतीति समाख्याता सर्वपापप्रणाशिनी॥
ललाटेंऽगुष्ठरेखा च आदौ भाव्या प्रयत्नतः॥ १३.५८ ॥

मध्यमां वर्जयित्वा तु अंगुलीक्द्वयेन च॥
एवं त्रिरेखासंयुक्तो ललाटे यस्य दृश्यते॥
स शैवः शिववज्ज्ञेयो दर्शनात्पापनाशनः॥ १३.५९ ॥

जटाधराश्च ये शैवाः सप्त पंच तथा नव॥
जटा ये स्थापियिष्यंति शैवेन विधिना युताः॥ १३.६० ॥

ते शिवं प्राप्नुवं तीह नात्र कार्या विचारणा॥
रुद्राक्षधारणं कार्यं शिवभक्तैर्विशेषतः॥ १३.६१ ॥

अल्पेन वा महत्त्वेन पूजितो वा सदाशिवः॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते॥ १३.६२ ॥

तस्माच्छिवात्परतरं नास्ति किंचिद्द्विजोत्तमाः॥
यदैवमुच्यते शास्त्रे तत्सर्वं शिवकारणम्॥ १३.६३ ॥

शिवो दाता हि लोकानां कर्ता चैवानुमोदिता॥
शिवशक्त्यात्मकं विश्वं जानीध्वं हि द्विजोत्तमाः॥ १३.६४ ॥

शिवेति द्व्यक्षरं नाम त्रायते महतो भयात्॥
तस्माच्छिवश्चिंत्यतां वै स्मर्यतां च द्विजोत्तमाः॥ १३.६५ ॥

॥ऋषय ऊचुः॥
सोमनाथस्य माहात्म्यं ज्ञातं तस्य प्रसादतः॥
राहोः शिरोभयात्सर्वे रक्षिताः परमेष्ठिना॥ १३.६६ ॥

सुराश्चेंद्रादयश्चान्ये तस्मिन्युद्धे सुदारुणे॥
अत ऊर्ध्वं सुराः सर्वे किमकुर्वत उच्यताम्॥ १३.६७ ॥

शिवस्य महिमा सर्वः श्रुतस्तव मुखोद्गतः॥
अथ युद्धस्य वृत्तान्तः कथ्यतां परमार्थतः॥ १३.६८ ॥

॥लोमश उवाच॥
यदा हि दैत्यैश्च पराजिताः सुराः शम्भुं च सर्वे शरणं प्रपन्नाः॥
शिवं प्रणेमुः सहसा सुरोत्तमा युद्धाय सर्वे च मनो दधुस्तदा॥ १३.६९ ॥

तथैव दैत्या अपि युध्यमाना उत्साहयुक्तातिबलाश्च सर्वे॥
देवैः समेताश्च पुनः पुनश्च युद्धं प्रचक्रुः परमास्त्रयुक्ताः॥ १३.७० ॥

एवं च सर्वे ह्यसुराः सुराश्च शक्त्यृष्टिशूलैः परिघैः परश्वधैः॥
जयार्थिनोमर्षयुताः परस्परं सिंहा यथा हैमवतीं दुरात्ययाः॥
निहन्यमाना ह्यसुराः सुरैस्तदा नानास्त्रयोगैः परमैर्निपेतुः॥ १३.७१ ॥

चक्रुस्ते सकलामुर्वी मांसशोणितकर्दमाम्॥
महीं वृक्षाद्रिसंयुक्तां ससागरवनाकराम्॥ १३.७२ ॥

शिरांसि च कबन्धानि कवचानि महांति च॥
ध्वजारथाः पताकाश्च गजवाजिशिरांसि च॥ १३.७३ ॥

बहन्त्यश्चापगा ह्यासन्नद्यो भीरुभयावहाः॥
अगाधाः शोणितोदाश्च तरंतो ब्रह्मराक्षसाः॥
तयंति परान्भूतप्रतप्रमथराक्षसान्॥ १३.७४ ॥

शाकिनीडाकिनीसंघा यक्षिण्योऽथ सहस्रशः॥
नानाकेलिषु संयुक्ताः परस्परमुदान्विताः॥ १३.७५ ॥

एवं संक्रीडमानास्ते भूतप्रमथराक्षसाः॥
रणे तस्मिन्महारौद्रे देवासुरसमागमे॥ १३.७६ ॥

बलिना सह देवेन्द्रो युयुधेऽद्भुतविक्रमः॥
शक्त्या जघान देवेंद्रं वैरोचनिरमर्षणः॥ १३.७७ ॥

तां शक्तिं वञ्चयामास महेन्द्रो लघुविक्रमः॥
जघान स बलिं यत्नाद्दैत्येंद्रं परमेण हि॥ १३.७८ ॥

वज्रेण शितधारेण बाहुं चिच्छेद विक्रमी॥
गातासुरपतद्भूमौ विमानात्सूर्यसंन्निभात्॥ १३.७९ ॥

पतितं च बलिं दृष्ट्वा वृषपर्वा रूपान्वितः॥
ववर्ष शरधाराभिः पयोद इव पर्वतम्॥ १३.८० ॥

महेंद्रं सगजं चैव सहमानं शिताञ्छरान्॥
तदा युद्धमभूद्वोरं महेन्द्रवृषपर्वणोः॥ १३.८१ ॥

निपात्य वृषपर्वाणमिंद्रः परबलार्दनः॥ १३.८२ ॥

ततो वज्रेण महता दानवानवधीद्रणे॥
शिरसि च्छेदिताः केचित्केचित्कंधरतो हताः॥ १३.८३ ॥

विह्वलाश्च कृताः केचिदिंद्रेण कुपितेन च॥
तथा यमेन निहता वायुना वरुणेन च॥ १३.८४ ॥

कुबेरेण हताश्चान्ये नैर्ऋतेन तथा परे॥
अग्निना निहताः केचिदीशेनैव विदारिताः॥ १३.८५ ॥

एवं तदा तैर्निहता बलीयसो महासुरा विक्रमशानिनश्च॥
सुरैस्तु सर्वैः सह लोकपालैः शिवप्रसादा भिहतास्तदानीम्॥ १३.८६ ॥

ततो महादैत्यवरो दुरात्मा स कलानेमिः परमास्त्रयुक्तः॥
ययौ तदानीं सुरसत्तमांस्तान्हंतुं सदा क्रूरमतिः स एकः॥ १३.८७ ॥

सिंहारूढो दंशितश्च त्रिशुलेन हि संयुतः॥
दैत्यानामर्बुदेनैव सिंहारूढेन संवृतः॥ १३.८८ ॥

ते सिंहा दंशिताः सर्वे महाबलपराक्रमाः॥
तेषु सिंहेषु चारूढा महादैत्याश्च तत्समाः॥ १३.८९ ॥

आयांतीं दैत्यसेनां तां सर्वां सिंहविभूषिताम्॥
कालनेमियुतां दृष्ट्वा देवा इंद्रपुरोगमाः॥
भयमाजग्मुरतुलं तदा ध्यानपरा भवन्॥ १३.९० ॥

किं कुर्मोऽद्य वयं सर्वे कथं जेष्याम चाद्भुतम्॥
एतादृशमसंख्याकमनीकं सिंहसंवृतम्॥ १३.९१ ॥

एवं विचिंत्यमानास्ते ह्यागतस्तत्र नारदः॥
नारदेन च तत्सर्वं पुरावृत्तं महत्तरम्॥ १३.९२ ॥

कथितं च महेंद्राय कालनेमेस्तपोबलम्॥
अजेयत्वं च संग्रामे वरदानबलेन तु॥ १३.९३ ॥

विष्णुं विना वयं देवा अशक्ता रणमंडले॥
जेतुं च स ततो विष्णुः स्मर्यतां परमेश्वरः॥
तमालनीलो वरदः सर्वैर्विजयकांक्षिभिः॥ १३.९४ ॥

नारदस्य वचः श्रुत्वा तदा देवास्त्वरान्विताः॥
ध्यानेन च महाविष्णुं ततः परबलार्द्दनम्॥
स्मरंतः परमात्मानमिदमूचुश्च तं विभुम्॥ १३.९५ ॥

॥ देवा ऊचुः॥
नमस्तुभ्यं भगवते नमस्ते विश्वमंगलम्॥
श्रीनिवास नमस्तुभ्यं श्रीपते ते नमोनमः॥ १३.९६ ॥

अद्यास्मान्भयभीतांस्त्वं कालनेमिभयार्दितान्॥
त्रातुमर्हसि दैत्याच्च देवानामभयप्रद॥ १३.९७ ॥

एवं ध्यातः संस्मृतश्च प्रादुर्भूतो हरिस्तदा॥
नीलो गरुडमारुह्य जगतामभयप्रदः॥ १३.९८ ॥

चक्रपाणिस्तदायातो देवानां विजयाय च॥
गगनस्थं महाविष्णुं गरुडोपरि संस्थितम्॥
श्रीवासमेनं दुर्द्धर्षं योद्धुकामं ददर्शिरे॥ १३.९९ ॥

तथा दृष्ट्वा कालनेमिस्तदानीं प्रहस्यमानोऽतिरुषा बलान्वितः॥
कस्त्वं महाभाग वरेण्यरूपः श्यामो युवा वारणमत्तविक्रमः॥
करे गृहीतं निशितं महाप्रभं चक्रं च कस्मात्कथयस्व मे प्रभो॥ १३.१०० ॥

॥श्रीभगवानुवाच॥
युद्धार्थमिह चायातो देवानां कार्यसिद्धये॥
त्वं स्थिरो भव रे मंद दहाम्यद्य न संशयः॥ १३.१०१ ॥

श्रुत्वा भगवतो वाक्यं कालनेमिः प्रतापवान्॥
उवाच रुषितो भूत्वा भगवंतमधोक्षजम्॥ १३.१०२ ॥

मूलभूतो हि देवानां भगवान्युद्धदुर्मदः॥
युद्धं कुरु मया सार्द्धं यदि शूरोऽसि संप्रति॥ १३.१०३ ॥

प्रहस्य भगवान्विष्णुरुवाचेदं महाप्रभः॥
गगनस्थो भव त्वं हि महीस्थोऽहं भवामि वै॥ १३.१०४ ॥

अप्रशस्तं च विषमं युद्धं चैव यथा भवेत्॥
तथा कुरु महाबाहो गगनो वा महीतले॥ १३.१०५ ॥

तथेति मत्वा हि महानुभावो दैत्यैः समेतोऽर्बुदसंख्यकैश्च॥
सिंहोपरिस्थैश्च महानुभावैर्महाबलैः क्रूरतरैस्तदानीम्॥ १३.१०६ ॥

गगनमथ जगाहे मंदमंदं महात्मा ह्यसुरगणसमेतो विश्वरूपं जिघांसुः॥
त्रिशिखमपरमुग्रं गृह्य संदेशचेष्टादशनविकृतवक्त्रो योद्धुकामो हरिं सः॥ १३.१०७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे समुद्रमंथनाख्याने देवासुरसंग्रामवर्णनंनाम त्रयोदशोऽध्यायः॥ १३ ॥