स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ०४
← अध्यायः ०३ | स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः अध्यायः ४ वेदव्यासः |
अध्यायः ०५ → |
॥लोमश उवाच॥
विष्णुनोक्तं वचः श्रुत्वा दक्षो वचनमब्रवीत्॥
वेदानामप्रमाणं च कृतं ते मधुसूदन॥ ४.१ ॥
वैदिकं कर्म चोत्सृज्य कथं सेश्वरतां व्रजेत्॥
तदुच्यतां महाविष्णो येन धर्मः प्रतिष्ठितः॥ ४.२ ॥
दक्षेणोक्तो महाविष्णुरुवाच परिसांत्वयन्॥
त्रैगण्यविषया वेदाः संभवंति न चान्यथा॥ ४.३ ॥
वेदोदितानि कर्माणि ईश्वरेण विना कथम्॥
सफलानि भविष्यंति विफलान्येव तानि च॥ ४.४ ॥
तस्मात्सर्वप्रयत्नेन ईश्वरं शरणं व्रऐजा॥
एवं ब्रुवति गोविन्द आगतः सैन्यसागरः॥
वीरभद्रेण सदृशो ददृशुस्तं तदा सुराः॥ ४.५ ॥
इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा॥
वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा॥ ४.६ ॥
भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि॥
तदा गणाः सुरैः सार्धं युयुधुस्ते गणान्विताः॥ ४.७ ॥
शरतोमरनागचैर्जघ्नुस्ते च परस्परम्॥
नेदुःशंखाश्च बहुशस्तस्मिन्रणमहोत्सवे॥ ४.८ ॥
तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः॥
तेन शब्देन महताश्लाघ्यमानास्तदा सुराः॥
लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान्॥ ४.९ ॥
खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः॥
देवैः पराजिताः सर्वे गणाः शतसहस्रशः॥ ४.१० ॥
इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः॥
कृताश्च तत्क्षणादेव भृगोर्मंत्रबलेन हि॥ ४.११ ॥
उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा॥
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च॥ ४.१२ ॥
तेनैव देवा जयिनो जातास्तत्क्षणमेव हि॥
स्वानां पराजयं दृष्ट्वा वीरभद्रो रुपान्वितः॥ ४.१३ ॥
भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः॥
वृषभस्थान्पुरस्कृत्य स्वयं चैव महाबलः॥
तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे॥ ४.१४ ॥
देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा॥
शूलघातैश्च ते सर्वे गणा देवान्प्रजघ्निरे॥ ४.१५ ॥
केचिद्द्विधाकृताः खङ्गैर्मुद्गरैश्चापि पोथिताः॥
परश्वधैः खंडशश्च कृताः केचिद्रणाजिरे॥ ४.१६ ॥
शूलैर्भिन्नाश्च शतशः केचिच्च शकलीकृताः॥
एवं पराजिताः सर्वे पलायनपरायणाः॥ ४.१७ ॥
परस्परं परिष्वज्य गतास्तेपि त्रिविष्टपम्॥
केवलं लोकपालाश्च इंद्राद्यास्तस्थुरुत्सुकाः॥
बृहस्पतिं पृच्छमानाः कुतोस्माकं जयो भवेत्॥ ४.१८ ॥
बृहस्पतिरुवाचेदं सुरेंद्रं त्वरितस्तदा॥
॥बृहस्पतिरुवाच॥
यदुक्तं विष्णुना पूर्वं तत्सत्यं जातमद्य वै॥ ४.१९ ॥
अस्ति चेदीश्वरः कश्चित्फलरूप्यस्य कर्म्मणः॥
कर्तारं भजते सोपि न ह्यकर्तुः प्रभुर्हिसः॥ ४.२० ॥
न मंत्रौषधयः सर्वे नाभिचारा न लौकिकाः॥
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा॥ ४.२१ ॥
ज्ञातुमीशाः संभवंति भक्त्याज्ञेयस्त्वनन्यया॥
शांत्या च परया तृष्ट्या ज्ञातव्यो हि सदाशिवः॥ ४.२२ ॥
तेन सर्वं संभवंति सुखदुःझखात्मकं जगत्॥
परंतु संवदिष्यामि कार्याकार्यविवक्षया॥ ४.२३ ॥
त्वमिंद्र बालिशो भूत्वा लोकपालैः सहाद्य वै॥
आगतो बालिशो भूत्वा इदानीं किं करिष्यसि॥ ४.२४ ॥
एते रुद्रसहायाश्च गणाः परमशोभनाः॥
कुपिताश्च महाभागा न तु शेषं प्रकुर्वते॥ ४.२५ ॥
एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः॥
चिंतामापेदिरे सर्वे लोकपाला महेश्वराः॥ ४.२६ ॥
ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम्॥
सर्वे यूयं बालिशत्वादवदानार्थमागताः॥ ४.२७ ॥
अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन्॥
एवमुक्त्वा शितैर्बाणैर्जघानाथ रुषान्वितः॥ ४.२८ ॥
तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश॥ ४.२९ ॥
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च॥
यज्ञवाटे समायातो वीरभद्रो गणान्वतः॥ ४.३० ॥
तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम्॥
विज्ञप्तुकामाः सहसा ऊचुरेवं जनार्दनम्॥ ४.३१ ॥
रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः॥
एतच्छ्रुत्वा तु वचनमृषीणां वै जनार्दनः॥ ४.३२ ॥
योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः॥
वीरभद्रो महाबाहुः केशवं वाक्यमब्रवीत्॥ ४.३३ ॥
अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम्॥
दक्षस्य पक्षमाश्रित्य कथं जेष्यसि तद्वद॥ ४.३४ ॥
दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ॥
त्वं चापि यज्ञे दक्षस्य अवदानार्थमागतः॥
अवदानं प्रयच्छामि तव चापि महाभूज॥ ४.३५ ॥
एवमुक्त्वा प्रणम्यादौ विष्णुं सदृशरूपिणम्॥
वीरभद्रोऽग्रतो भूत्वा विष्णुं वाक्यमथाब्रवीत्॥ ४.३६ ॥
यथा शंभुस्तथा त्वं हि मम नास्त्यत्र संशयः॥
तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्तितः॥
नेष्याम्यपुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना॥ ४.३७ ॥
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य धीमतः॥
उवाच प्रहसन्देवो विष्णुः सर्वेश्वरेश्वरः॥ ४.३८ ॥
॥विष्णुरुवाच॥
रुद्रतेजःप्रसूतोसि पवित्रोऽसि महामते॥
अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः॥ ४.३९ ॥
अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः॥
तेनैव कारणेनात्र दक्षस्य यजनं प्रति॥ ४.४० ॥
आगतोऽहं वीरभद्र रुद्रकोपसमुद्भव॥
अहं निवारयामि त्वां त्वं वा मां विनिवारय॥ ४.४१ ॥
इत्युक्तवति गोविंदे प्रहस्य स महाभुजः॥
प्रश्रयावनतो भूत्वा इदमाह जनार्दनम्॥ ४.४२ ॥
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः॥
सेवकाश्च वयं सर्वे तव वा शंकरस्य च॥ ४.४३ ॥
तच्छ्रुत्वा वचनं तस्य सोऽच्युतः संप्रहस्य च॥
इदं विष्णुर्महावाक्यं जगाद परमेश्वरः॥ ४.४४ ॥
योधयस्व महाबाहो मया सार्धमशंकितः॥
तवास्त्रैः पूर्यमाणोऽहं गच्छामि भवनं स्वकम्॥ ४.४५ ॥
तथेत्युक्त्वा तु वीरोऽसौ वीरभद्रो महाबलः॥
गृहीत्वा परमास्त्राणि सिंहनादैर्जगर्ज ह॥ ४.४६ ॥
विष्णुश्चापि महाघोषं शंखनादं चकार सः॥
तच्छ्रुत्वा ये गता देवा रणं हित्वाऽऽययुः पुनः॥ ४.४७ ॥
व्यूहं चक्रुस्तदा सर्वे लोकपालाः सवासवाः॥
तदेन्द्रेण हतो नंदीवज्रेण शतपर्वणा॥ ४.४८ ॥
नंदीना च हतः शक्रस्त्रिशूलेन स्तनांतरे॥
वायुना च हतो भृंगी भृंगिणा वायुराहतः॥ ४.४९ ॥
शूलेन सितधारेण संनद्धो दण्डधारिणा॥
यमेन सह संग्रामं महाकालो बलान्वितः॥ ४.५० ॥
कुबेरेण च संगम्य कूष्मांडानां पतिः स्वयम्॥
वरुणेन समं युद्धं मुंडश्चैव महाबलः॥ ४.५१ ॥
युयुधे परयाशक्त्या त्रैलोक्यं विस्मयन्निव॥
नैर्ऋतेन समागम्य चंडश्चबलवत्तरः॥ ४.५२ ॥
युयुधे परमास्त्रेण नैर्ऋत्यं च विडंबयन्॥
योगिनीचक्रसंयुक्तो भैरवो नायको महान्॥ ४.५३ ॥
विदार्य देवानखिलान्पपौ शोणितमद्बुतम्॥
क्षेत्रपालास्तथा चान्ये भूतप्रमथगुह्यकाः॥ ४.५४ ॥
साकिनी डाकिनी रौद्रा नवदुर्गास्तथैव च॥
योगिन्यो यातुदान्यश्च तथा कूष्मांडकादयः॥
नेदुः पपुः शोणितं च बुभुजुः पिशितं बहु॥ ४.५५ ॥
भक्ष्यमाणं तदा सैन्यं विलोक्य सुरराट्स्वयम्॥
विहाय नंदिनं पश्चाद्वीरभद्रं समाक्षिपत्॥ ४.५६ ॥
वीरभद्रो विहायैव विष्णुं देवेन्द्रमास्थितः॥
तयोर्युद्धमभूद्धोरं बुधांगारकयोरिव॥ ४.५७ ॥
वीरभद्रं यदा शक्रो हंतुकामस्त्वरान्वितः॥
तावच्छंक्रं गजस्थं हि पुरयामास मार्गणैः॥ ४.५८ ॥
वीरभद्रो रुषाविष्टो दुर्निवार्यो महाबलः॥
तदेद्रेंणाहतः शीघ्रं वज्रेण शतपर्वणा॥ ४.५९ ॥
सगजं च सवज्रं च वासवं ग्रस्तुमुद्युतः॥
हाहाकारो महा नासीद्भूतानां तत्र पश्यताम्॥ ४.६० ॥
वीरभद्रं तताभूतं तथाभूतं हंतुकामं पुरंदरम्॥
तव्रमाणस्तदा विष्णुर्वीरभद्राग्रतः स्थितः॥ ४.६१ ॥
शक्रं च पृष्ठतः कृत्वा योधयामास वै तदा॥
वीरभद्रस्य विष्णोश्च युद्धं परमभूत्तदा॥ ४.६२ ॥
शस्त्रास्त्रैर्विविधाकारैर्योधयामासतुस्तदा॥
पुनर्नंदिनमालोक्य शक्रो युद्ध विशारदः॥ ४.६३ ॥
द्वंद्वयुद्धं सुतुमुलं देवानां प्रमथैः सह॥
प्रमथा मथिता देवैः सर्वे ते प्राद्रवन्रणात्॥ ४.६४ ॥
गणान्पराङ्मुखान्दृष्ट्वा सर्वे ते व्याधयो भृशम्॥
रुद्रकोपात्समुद्भूता देवाश्चापि प्रदुद्रुवुः॥ ४.६५ ॥
ज्वरैस्तु पीडितान्देवान्दृष्ट्वा विष्णुर्हसन्निव॥
जीवग्राहेण जग्राह देवांस्तांश्च पृथक्पृथक्॥ ४.६६ ॥
देवाश्चिनौ तदाहूय व्याधीन्हंतुं तदा भृतिम्॥
ददौ ताभ्यां प्रयत्नेन गणयित्वा सुबुद्धिमान्॥ ४.६७ ॥
ज्वरांश्च सन्निपातांश्च अन्ये भूतद्रुहस्तदा॥
तान्सर्वान्निगृहीत्वाथ अश्विनौ तौ मुदान्वितौ॥
विज्वरानथ देवांश्च कृत्वा मुमुदतुश्चिरम्॥ ४.६८ ॥
तैर्जितं योगिनीचक्रं भैरवं व्याकुलीकृतम्॥
तीक्ष्णाग्रैः पातयामासुः शरैर्भूतगणानपि॥ ४.६९ ॥
सुरैर्विद्रावितं सैन्यं विलोक्य पतितं भुवि॥
वीरभद्रो रुपाविष्टो विष्णुं वचनमब्रवीत्॥ ४.७० ॥
त्वं शूरोसि महाबाहो देवानां पालको ह्यसि॥
युध्यस्व मां प्रयत्नेन यदि ते मतिरीदृशी॥ ४.७१ ॥
इत्युक्त्वा तं समासाद्य विष्णुं सर्वेश्वरेश्वरम्॥
ववर्ष निशितैर्बाणैर्वीरभद्रो महाबलः॥ ४.७२ ॥
तदा चक्रेण भगवान्वीरभद्रं जघान सः॥
आयांतं चक्रमालोक्य ग्रसितं तत्क्षणाच्च तत्॥ ४.७३ ॥
ग्रसितं चक्रमालोक्य विष्णुः परपुरंजयः॥
मुखं तस्य परामृज्य विष्णुनोद्गिलितं पुनः॥ ४.७४ ॥
स्वचक्रमादाय महानुभावो दिवं गतोऽथो भुवनैकभर्ता॥
ज्ञात्वा च तत्सर्वमिदं च विष्णुः कृती कृतं दुष्प्रसहं परेषाम्॥ ४.७५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रादीनां विष्ण्वादिभिः सह युद्धवर्णनंनाम चतुर्थोऽध्यायः॥ ४ ॥ छ ॥