स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ३
वेदव्यासः
अध्यायः ०४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
दाक्षायणी गता तत्र यत्र यज्ञो महानभूत्॥
तत्पितुः सदनं गत्वा ना नाश्चर्यसमन्वितम्॥ ३.१ ॥

द्वारि स्थिता तदा देवा अवतीर्य निजासनात्॥
नंदिनो हि महाभागा देवलोकं निरीक्ष्य च॥ ३.२ ॥

मातरं पितरं दृष्ट्वा सुहृत्संबंधि वांधवान्॥
अभिवाद्यैव पिरतं मातरं च मुदान्विता॥ ३.३ ॥

बभाषे वचनं देवी प्रस्तापसदृशं तदा॥
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः॥ ३.४ ॥

येन पूतमिदं सर्वं समग्रं सचराचरम्॥
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः॥ ३.५ ॥

द्रव्यं मंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम्॥
विना तेन कृतं सर्वमपवित्रं भविष्यति॥ ३.६ ॥

शंभुना हि विना तात कथं यज्ञः प्रवर्तते॥
एते कथं समायाता ब्रह्मणा सहिताः पितः॥ ३.७ ॥

हे भृगो त्वं न जानासि हे कश्यप महामते॥
अत्रे विशिष्ठ एकस्त्वं शक्र किं कृतमद्यते॥ ३.८ ॥

हे विष्णो त्वं महादेवं जानासि परमेश्वरम्॥
ब्रह्मन्किं त्वं न जानासि महादेवस्य विक्रमम्॥ ३.९ ॥

पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम्॥
कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम्॥ ३.१० ॥

भिक्षाटनं कृतं येन पुरा दारुवने विभुः॥
शप्तोयं भिक्षुको रुद्रो भवद्भिः सखिभिस्तदा॥ ३.११ ॥

शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम्॥
यस्यावयवमात्रेण पूरितं सचराचरम्॥ ३.१२ ॥

लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि॥
लयानाल्लिंगमित्याहुः सर्वे देवाः सवासवाः॥ ३.१३ ॥

सर्वे देवाश्च संभूता यतो देवस्य शूलिनः॥
सोऽसौ वेदांतगो देवस्त्वया ज्ञातुं न पार्यते॥ ३.१४ ॥

तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः॥
किं त्वया बहुनोक्तेन कार्यं नास्तीह सांप्रतम्॥ ३.१५ ॥

गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता॥
अमंगलो हि भर्ता ते अशिवोसौ सुमध्यमे॥ ३.१६ ॥

अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट्॥
तस्मान्नाकारितो भद्रे यज्ञार्थं चारुभाषिणि॥ ३.१७ ॥

मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना॥
रुद्रायाविदितार्थाय उद्धताय दुरात्मने॥ ३.१८ ॥

तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते॥
दक्षेणोक्ता तदा पुत्री सा सती लोकपूजिता॥ ३.१९ ॥

निंदायुक्तं स्वपितरं विलोक्य रुषिता भृशम्॥
चिंतयंती तदा देवी कथं यास्यामि मंदिरे॥ ३.२० ॥

शंकरं द्रष्टुकामांह किं वक्ष्ये तेन पृच्छिता॥
यो निंदति महादेवं निंद्यमानं श्रृणोति यः॥
तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ॥ ३.२१ ॥

तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम्॥ ३.२२ ॥

एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी॥
अपमानाभिभूता सा प्रविवेश हुताशनम्॥ ३.२३ ॥

हाहाकारेण महता व्याप्तमासीद्दिगंतरम्॥
सर्वे ते मंचमारूढाः शस्त्रैर्व्याप्ता निरंतराः॥ ३.२४ ॥

शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः॥
केचित्करतले गृह्य शिरांसि स्वानि चोत्सुकाः॥ ३.२५ ॥

नीराजयंतस्त्वरिता भस्मीभूताश्च जज्ञिरे॥
एवमूचुस्तदा सर्वे जगर्ज्जुरतिभीषणम्॥ ३.२६ ॥

शस्त्रप्राहारैः स्वांगानि चिच्छिदुश्चातिभीषणाः॥
ते तथा विलयं प्राप्ता दाक्षायण्या समं तदा॥ ३.२७ ॥

गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत्॥
ते सर्व ऋषयो देवा इंद्राद्याः समरुद्गणाः॥ ३.२८ ॥

विश्वेऽश्वनौ लोकपालास्तूष्णींबूतास्तदाभवन्॥
विष्णुं वरेण्यं केचिच्च प्रार्थयंतः समंततः॥ ३.२९ ॥

एवं भूतस्तदा यज्ञो जातस्तस्य दुरात्मनः॥
दक्षस्य ब्रह्मबंधोश्च ऋषयो भयमागताः॥ ३.३० ॥

एतस्मिन्नंतरे विप्रा नारदेन महात्मना॥
कथितं सर्वमेवैतद्दक्षस्य च विचेष्टितम्॥ ३.३१ ॥

तदाकर्ण्येश्वरो वाक्यं नारदस्य मुखोद्गतम्॥
चुकोप परमं क्रुद्ध आसनादुत्पतन्निव॥ ३.३२ ॥

उद्धृत्य च जटां रुद्रो लोकसंहारकारकः॥
आस्फोटयामास रुषा पर्वतस्य शिरोपरि॥ ३.३३ ॥

ताडनाच्च समुद्भूतो वीरभद्रो महायशाः॥
तथा काली समुत्पन्ना भूतकोटिभिरावृता॥ ३.३४ ॥

कोपान्निःश्वसितेनैव रुद्रस्य च महात्मनः॥
जातं ज्वराणां च शतं सन्निपातास्त्रयोदश॥ ३.३५ ॥

विज्ञप्तो वीरभद्रेण रुद्रो रौद्रपराक्रमः॥
किं कार्यं भवतः कार्यं शीघ्रमेव वद प्रभो॥ ३.३६ ॥

इत्युक्तो भगवान्रुद्रः प्रेषयामास सत्वरम्॥
गच्छ वीर महा बाहो दक्षयज्ञं विनाशय॥ ३.३७ ॥

शासनं शिरसा धृत्वा देवदेवस्य शूलिनः॥
कालिकाऽऽलिहितो वीरः सर्वभूतैः समावृतः॥
वीरभद्रो महातेजा ययौ दक्षमखं प्रति॥ ३.३८ ॥

तदानीमेव सहसा दुर्निमित्तानि चाभवन्॥
रूक्षो ववौ तदा वायुः शर्कराभिः समावृतः॥ ३.३९ ॥

असृग्वर्षति देवश्च तिमिरेणाऽऽवृता दिवशः॥
उल्कापाताश्च बहवः पेतुरुर्व्यां सहस्रशः॥ ३.४० ॥

एवंविधान्यरिष्टानि ददृशुर्विबुधादयः॥
दक्षोऽपि भयमापन्नो विष्णुं शरणमाययौ॥ ३.४१ ॥

रक्षरक्ष महाविष्णो त्वं हि नः परमो गुरुः॥
यज्ञोऽसि त्वं सुरश्रेष्ठ भयान्मां परिमोचय॥ ३.४२ ॥

दक्षेण प्रार्थ्य मानो हि जगाद मधुसूदनः॥
मया रक्षा विदातव्या भवतो नात्र संशयः॥ ३.४३ ॥

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते॥
त्रीणी तत्र प्रवर्तंते दुर्भिक्षं त्वया धर्ममजानताः॥
ईश्वरावज्ञया सर्वं विफलं च भविष्यति॥ ३.४४ ॥

अपूज्या यत्र पूज्यं ते पूजनीयो न पूज्यते॥
त्रीणी तत्र प्रवर्तंते दुर्भिक्षं मरणं भयम्॥ ३.४५ ॥

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः॥
अमानितान्महेशात्त्वां महद्भयमुपस्थितम्॥ ३.४६ ॥

अधुनैव वयं सर्वे प्रभवो न भवामहे॥
भवतो दुर्न्नयेनेव नात्र कार्या विचारणा॥ ३.४७ ॥

विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत्॥
विविर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः॥ ३.४८ ॥

वीरभद्रो महाबाहू रुद्रेणैव प्रचोदितः॥
काली कात्यायनीशाना चामुंडा मुंडमर्द्दिनी॥ ३.४९ ॥

भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा॥
नवदुर्गादिसहितो भूतानां च गणो महान्॥ ३.५० ॥

शाकिनी डाकिनी चैव भूतप्रमथगुह्यकाः॥
तथैव योगिनीचक्रं चतुः षष्ट्या समन्वितम्॥ ३.५१ ॥

निजन्मुः सहसा तत्र यज्ञवाटं महाप्रभम्॥
वीरभद्रसमेता सर्वे हरपराक्रमाः॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः॥ ३.५२ ॥

पार्षदाः शंकरस्यैते सर्वे रुद्रस्वरूपिणः॥
पंचवक्त्रा नीलकंठाः सर्वे ते शस्त्रपाणयः॥ ३.५३ ॥

छत्रचामरसंवीताः सर्वे हरपराक्रमाः॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः॥ ३.५४ ॥

अर्धचंद्रधराः सर्वे सर्वे चैव महौजसः॥
सर्वे ते वृषभारूढाः सर्वे ते वेषभूषणाः॥ ३.५५ ॥

सहस्रबाहुर्भुजगाधिपैर्वृतस्त्रिलोचनो भीमबलो भयावहः॥
एभिः समेतश्च तदा महात्मा स वीरभद्रोऽभिजगाम यज्ञम्॥ ३.५६ ॥

युग्यानां च सहस्रेण द्विप्रमाणेन स्यंदनम्॥
सिंहानां प्रयुतेनैव वाह्यमानं च तस्य तत्॥ ३.५७ ॥

तथैव दंशिताः सिंहा बहवः पार्श्वरक्षकाः॥
शार्दूला मकरा मत्स्या गजाश्चैव सहस्रशः॥
छत्राणि विविधान्येव चामराणि तथैव च॥ ३.५८ ॥

मूर्द्धनिध्रियमाणानि सर्वतोग्राणि सर्वशः॥
ततो भेरीमहानादाः शंखाश्च विविधस्वनाः॥
पटहा गोमुखाश्चैव श्रृंगाणि विविधानि च॥ ३.५९ ॥

ततोऽवाद्यंत तान्येव घनानि सुषिराणि च॥
कलगानपराः सर्वे सर्वे मृदंगवादिनः॥ ३.६० ॥

अनेकलास्यसंयुक्ता वीरभद्राग्रतोभवन्॥
रणवादित्रनिर्घोषैर्जगर्जुरमितौजसः॥ ३.६१ ॥

तेन नादेन महता नादितं भुवनत्रयम्॥
एवं सर्वे समायाता गणा रुद्रप्रणोदिताः॥ ३.६२ ॥

यज्ञवाटं च दक्षस्य विनाशार्थं प्रहारिणः॥
रजसा चाऽऽवृतं व्योम तमसा च वृता दिशः॥ ३.६३ ॥

सप्तद्वीपवती पृथ्वी चचाल साद्रिकानना॥
ते दृष्ट्वा महदाश्चर्य्यं लोकक्षयकरं तदा॥ ३.६४ ॥

उत्तस्थुर्युगपत्सर्वे देवदैत्यनिशाचराः॥
ते वै ददृशुरायांतीं रुद्रसेना भयावहाम्॥ ३.६५ ॥

पृथ्वीं केचित्समायाता गगने केचिदागताः॥
दिशश्च प्रदिशश्चैव समावृत्य तथापरे॥ ३.६६ ॥

अनंता ह्यक्षयाः सर्वे शूरा रुद्रसमा युधि॥
एवंभूतं च तत्सैन्यं रुद्रैश्च परिवारितम्॥
दृष्ट्वो चुर्विस्मिताः सर्वे यामोऽद्य शस्त्रपाणयः॥ ३.६७ ॥

इंद्रो हि गजमारूढो मृगारूढः सदागतिः॥
यमो महिषमारूढो यमदंडसमन्वितः॥ ३.६८ ॥

कुबेरः पुष्पकारूढः पाशी मकरमेव च॥
अग्निर्बस्तमारूढो निर्ऋतिः प्रेतमेव च॥ ३.६९ ॥

तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः॥
आरुह्य वाहनान्येव स्वानिस्वानि प्रतिपिनः॥ ३.७० ॥

स्वेषामुद्योगमालोक्य दक्षश्चाश्रुमुखस्ततः॥
दंडवत्पतितो भूमौ सर्वानेवाभ्यभाषत॥ ३.७१ ॥

युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान्॥
सत्कर्मसिद्धये यूयं प्रमाणं सुमहाप्रभाः॥ ३.७२ ॥

विष्णो त्वं कर्मणः साक्षाद्यज्ञानां परिपालकः॥
धर्मस्य वेदगर्भस्य ब्रह्मण्यस्त्वं च माधव॥ ३.७३ ॥

तस्माद्रक्षा विधातव्या यज्ञस्याऽस्य महाप्रभो॥
दक्षस्य वचनं श्रुत्वा उवाच मधुसूदनः॥ ३.७४ ॥

मया रक्षा विधातव्या धर्मस्य परिपालने॥
तत्सत्यं तु त्वयोक्तं हि किं तु तस्य व्यतिक्रमः॥ ३.७५ ॥

यातस्त्वद्यैव यज्ञस्य यत्त्वयोक्तं सदाशिवम्॥
नैमिषेऽनिमिषक्षेत्रे तदा किं न स्मृतं त्वया॥ ३.७६ ॥

योऽयं रुद्रो महातेजा यज्ञरूपः सदाशिवः॥
यज्ञबाह्यः कृतो मूढ तच्च दुर्म्मत्रितं तव॥ ३.७७ ॥

रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव॥
न पश्यामि च तं विप्र त्वां वै रक्षति दुर्म्मतिम्॥ ३.७८ ॥

किं कर्म्म किमकर्म्मेति तन्न पश्यसि दुर्म्मते॥
समर्थं केवलं कर्मन भविष्यति सर्वदा॥ ३.७९ ॥

सेश्वरं कर्म विद्ध्योतत्समर्थत्वेन जायते॥
न ह्यन्यः कर्म्मणो दाता ईश्वरेण विना भवेत्॥ ३.८० ॥

ईश्वरस्य च ये भक्ताः शांतास्तद्गतमानसाः॥
कर्म्मणो हि फलं तेषां प्रयच्छति सदाशिवः॥ ३.८१ ॥

केवलं कर्म चाश्रित्य निरीश्वरपरा जनाः॥
निरयं ते च गच्छंति कोटियज्ञशतैरपि॥ ३.८२ ॥

पुनः कर्ममयैः पाशैर्बद्धा जन्मनिजन्मनि॥
निरयेषु प्रपच्यंते केवलं कर्म्मरूपिणः॥ ३.८३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रप्रादुर्भाववर्णनंनाम तृतीयोऽध्यायः॥ ३ ॥