स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २
वेदव्यासः
अध्यायः ३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
एकदा तु तदा तेन यज्ञः प्रारंभितो महान्॥
तत्राहूतास्तदा सर्वे दीक्षितेन तपस्विना॥ २.१ ॥

ऋषयो विविधास्तत्र वशिष्ठाद्याः समागताः॥
अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः॥ २.२ ॥

दधीचो भगवान्व्यासो भरद्वाजोऽथ गौतमः॥
एते चान्ये च बहवः समाजग्मुर्महर्षयः॥ २.३ ॥

तथा सर्वे सुरगणा लोकपालस्तथाऽपरे विद्याधराश्च गंधर्वाः किंनराप्सरसां गणाः॥ २.४ ॥

सप्तलोकात्समानीतो ब्रह्मा लोकपितामहः॥
वैकुंठाच्च तथा विष्णुः समानीतो मरवं प्रति॥ २.५ ॥

देवेन्द्रो हि समानीत इंद्राण्या सह सुप्रभः॥
तथा चंद्रो हि रोहिण्या वरुणः प्रिययया सह॥ २.६ ॥

कुबेरः पुष्पकारूढो मृगाऽऽरूढोऽथ मारुतः॥
बस्ताऽऽरूढः पावकश्च प्रेताऽऽरूढोऽथ निर्ऋति॥ २.७ ॥

एते सर्वे समायाता यज्ञवाटे द्विजन्मनः॥
ते सर्वे सत्कृतास्तेन दक्षेण च दुरात्मना॥ २.८ ॥

भवनानि महार्हाणि सुप्रभाणि महांति च॥
त्वष्ट्रा कृतानि दिव्यानि कौशल्येन महात्मना॥ २.९ ॥

तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः॥ २.१० ॥

वर्त्तमाने महायज्ञे तीर्थे कनखले तथा॥
ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः॥ २.११ ॥

दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः॥
भार्यया सहितो विप्रैः कृतस्वत्ययनो भृशम्॥ २.१२ ॥

रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा॥
एतस्मिन्नंतरे तत्र दधीचिर्वाक्यमब्रवीत्॥ २.१३ ॥

॥दधीचिरुवाच॥
एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव॥
तथाऽपि यज्ञस्तु न शोभते भृशंपिनाकिना तेन महात्मना विना॥ २.१४ ॥

येनैव सर्वाण्यपि मंगलानि जातानि शंसंति महाविपश्चितः॥
सोऽसौ न दृष्टोऽत्र पुमान्पुराणो वृषध्वजो नीलकण्ठः कपर्दी॥ २.१५ ॥

अमंगलान्येव च मंगलानि भवंति येनाधिकृतानि दक्ष॥
त्रियंबकेनाथ सुमंगलानि भवंति सद्योह्यपमंगलानि॥ २.१६ ॥

तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना॥
त्वरितं चैव शक्रेण विष्णुना प्रभविष्णुना॥ २.१७ ॥

सर्वैरेव हि गंतव्यं यत्र देवो महेश्वरः॥ २.१८ ॥

दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः॥
तेन सर्वं पवित्रं स्याच्छंभुना योगिना भृशम्॥ २.१९ ॥

यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत्॥
तस्मात्सर्वप्रयत्नेन समानेयो वृषध्वजः॥ २.२० ॥

तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः॥
मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः॥ २.२१ ॥

यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च॥
प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः॥ २.२२ ॥

सत्यलोकात्समायातो ब्रह्मा लोकपितामहः॥
वेदैश्चोपनिषद्भिश्च आगमैर्विविधैः सह॥ २.२३ ॥

तथा सुरगणैः साकमागतः सुरराट्‌ स्वयम्॥
तथा यूयं समायाता ऋषयो वीतकल्मषाः॥ २.२४ ॥

येये यज्ञोचिताः शांतास्तेते सर्वे समागताः॥
वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः॥ २.२५ ॥

अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम्.॥
कन्या दत्ता मया विप्रा ब्रह्मणा नोदितेन हि॥ २.२६ ॥

अकुलीनो ह्यसौ विप्रा नष्टो नष्टप्रियः सदा॥
भूतप्रेतपिशाचानां पतिरेको दुरत्ययः॥ २.२७ ॥

आत्मसंभावितो मूढःस्तब्धो मौनी समत्सरः॥
कर्मण्यस्मिन्नयोग्योऽसौ नानीतो हि मयाऽधुना॥ २.२८ ॥

तस्मात्त्वया न वक्तव्यं पुनरेवं वचोद्विज॥
सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान्॥ २.२९ ॥

एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत्॥ २.३० ॥

॥दधीचिरुवाच॥
सर्वेषामृषिवर्याणां सुराणां भावितात्मनाम्॥
अनयोऽयं महाञ्जातो विना तेन महात्मना॥ २.३१ ॥

विनाशोऽपि महान्सद्योह्यत्रत्यानां भविष्यति॥
एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः॥ २.३२ ॥

यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ॥
मुनौ विनिर्गते दक्षः प्रहसन्निदमब्रवीत्॥ २.३३ ॥

गतः शिवप्रियो वीरो दधीचिर्नाम नामतः॥
आविष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः॥ २.३४ ॥
वेदबाह्य दुराचारास्त्याज्यास्ते ह्यत्र कर्मणि॥
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः॥ २.३५ ॥

यज्ञं मे सफलं विप्राः कुर्वंतु ह्यचिरादिव॥
तदा ते देवयजनं चक्रुः सर्वे सहर्षयः॥ २.३६ ॥

एतस्मिन्नंतरे तत्र पर्वते गंधमादने॥
धारागृहे विमानेन सखीभिः परिवारिता॥ २.३७ ॥

दाक्षायणी महादेवी चकार विविधास्तदा॥
क्रीडा विमानमध्यस्ता कन्दुकाद्याः सहस्रशः॥ २.३८ ॥

क्रीडासक्ता तदा देवी ददर्शाथ महासती॥
यज्ञं प्रयांतं सोमं च रोहिण्या सहितं प्रभुम्॥ २.३९ ॥

क्व गमिष्यति चंद्रोऽयं विजये पृच्छ सत्वरम्॥
तयोक्ता विजया देवी तं पप्रच्छ यथोचितम्॥ २.४० ॥

कथितं तेन तत्सर्वं दक्षस्यैव मखादिकम्॥
तच्छ्रुत्वा त्वरिता देवी विजया जातसंभ्रमा॥
कथयामास तत्सर्वं यदुक्तं शशिना भृशम्॥ २.४१ ॥

विमृश्य कारणं देवी किमाह्वानं करोति न॥
दक्षः पिता मे माता च विस्मृता मां कुतोऽधुना॥ २.४२ ॥

पृच्छामि शंकरं चाद्य कारणं कृतनिश्चया॥
स्थापयित्वा सखीस्तत्र आगता शंकरं प्रति॥ २.४३ ॥

ददर्शतं सभामध्ये त्रिलोचनमवस्थितम्॥
गणैः परिवृतं सर्वैश्चंडमुंडादिभिस्तदा॥ २.४४ ॥

बाणो भृंगिस्तथा नंदी शैलादो हि महातपाः॥
महाकालो महाचंडो महामुंडो महाशिराः॥ २.४५ ॥

धूम्राक्षो धूम्रकेतुश्च धूम्रपादस्तथैव च॥
एते चान्ये च बहवो गणा रुद्रानुवर्तिनः॥ २.४६ ॥

केचिद्भयानका रौद्राः कबंधाश्च तथा परे॥
विलोचनाश्च केचिच्च वक्षोहीनास्तथा परे॥ २.४७ ॥

एवंभूताश्च शतशः सर्वे ते कृत्तिवाससः॥
जटाकलापसंभूषाः सर्वे रुद्राक्षभूषणाः॥ २.४८ ॥

जितेंद्रिया वीतरागाः सर्वे विषयवैरिणः॥
एभिः सर्वैः परिवृतः शंकरो लोकशंकरः॥
दृष्टस्तया उपाविष्ट आसने परामाद्भुते॥ २.४९ ॥

आक्षिप्तचित्ता सहसा जगाम शिवसंनिधिम्॥
शिवेन स्थापिता स्वांके प्रीतियुक्तेन वल्लभा॥ २.५० ॥

प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम्॥
किमागमनकार्यंमे वद शीघ्रं सुमध्यमे॥ २.५१ ॥

एवमुक्ता तदा तेन उवाचासितलोचना॥ २.५२ ॥

॥सत्युवाच॥
पितुर्मम महायज्ञे कस्मात्तव न रोचते॥
गमनं देवदेवश तत्सर्वं कथय प्रभो॥ २.५३ ॥

सुहृदामेष वै धर्मः सुहृद्भिः सह संगतिम्॥
कुर्वंति यन्महादेव सुहृदां प्रीतिवर्धिनीम्॥ २.५४ ॥

तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः॥
यज्ञवाटं पितुर्मेऽद्य वचनान्मे सदाशिव॥ २.५५ ॥

तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः॥
त्वया भद्रे न गंतव्यं दक्षस्य यजनं प्रति॥ २.५६ ॥

तस्य ये मानिनः सर्वे ससुरासुकिंनराः॥
ते स्रेव यजनं प्राप्ताः पितुस्तव न संशयः॥ २.५७ ॥

अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम्॥
अपमानं प्राप्नुवन्ति मरणादधिकं ततः॥ २.५८ ॥

परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत्॥
तस्मात्त्वाया न गंतव्यं दक्षस्य यजनं शुभे॥ २.५९ ॥

एवमुक्ता सती तेन महेशेन महात्मना॥
उवाच रोषसंयुक्तं वाक्यं वाक्यविदां वरा॥ २.६० ॥

यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर॥
अनाहूतोऽसि तेनाद्य पित्रा मे दृष्टचारिणा॥
तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः॥ २.६१ ॥

तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम॥
अनुज्ञां देहि मे नाथ देवदेव जगत्पते॥ २.६२ ॥

इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम्॥
विज्ञाताखिलदृग्द्रष्टा भगवान्भूतभावनः॥ २.६३ ॥

स तामुवाच देवेशो महेशः सर्वसिद्धिदः॥
गच्छ देवि त्वरायुक्ता वचनान्मम सुव्रते॥ २.६४ ॥

एतं नंदिनमारुह्य नानाविधगणान्विता॥
गणाः षष्टिसहस्राणि जग्मूरौद्राः शिवज्ञया॥ २.६५ ॥

तैर्गणैः संवृता देवी जगाम पितृमंदिरम्॥
निरीक्ष्य तद्बलं सर्वं महादेवोतिविस्मितः॥ २.६६ ॥

भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः॥
प्रेषयामास चाव्यग्रो महादेवोऽनु पृष्ठतः॥ २.६७ ॥

देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः॥
दाक्षायणी पित्रवमानिता सती न यास्यतीति स्वपुरं पुनर्जगौ॥ २.६८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे दक्षयज्ञं प्रति सतीदेव्यागमनवर्णनंनाम द्वितीयोऽध्यायः॥ २ ॥