स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३३
← अध्यायः ३२ | स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः अध्यायः ३३ वेदव्यासः |
अध्यायः ३४ → |
॥ऋषय ऊचुः॥
किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम्॥
तत्त्वं कथय विप्रेंद्र परं कौतूहलं हि नः॥ ३३.१ ॥
तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम्॥
न ह्यन्यो विद्यते लोके त्वद्विना वदतां वरः॥
तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः॥ ३३.२ ॥
एवमुक्तस्तदा तेन शौनकेन महात्मना॥
कथयामास तत्सर्वं पुष्कसेन कृतं यत्॥ ३३.३ ॥
॥लोमश उवाच॥
आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान्॥
क्रूरसंगो निष्कृतिको भूतानां भयवाहकः॥ ३३.४ ॥
जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु॥
भल्लैर्मृगाञ्छापदांश्च कृष्णसारांश्च शल्लकान्॥ ३३.५ ॥
खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान्॥
पक्षिणोऽघातयत्क्रुद्धो ब्राह्मणांश्च विशेषतः॥ ३३.६ ॥
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः॥
भार्या तथाविधआ तस्य पुष्कसस्य महाभया॥ ३३.७ ॥
एवं विहरतस्तस्य बहुकालोत्यवर्तत॥
गते बहुतिथेकाले पापौघनिरतस्य च॥ ३३.८ ॥
निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम्॥
एकदा निशि पापीयाच्छ्रीवृक्षोपरि संस्थितः॥
कोलं हंतुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि॥ ३३.९ ॥
माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः॥
मृगमार्गविलोकार्थी बिल्वपत्राण्यपातयत्॥ ३३.१० ॥
श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि॥
श्रीवृक्षमूले परिवर्तमाने लिंगं तस्योपरिदृष्टभावः॥ ३३.११ ॥
ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति॥
श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्वं शिवपूजनं तत्॥ ३३.१२ ॥
गंडूषवारिणा तेन स्नपनं च कृतं महत्॥
बिल्वपत्रैरसंख्यातैरर्चनं महत्कृतम्॥ ३३.१३ ॥
अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना॥
माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये॥ ३३.१४ ॥
पुष्कसोऽथ दुराचारो वॉक्षादवततार सः॥
आगत्य जलसंकाशं मत्स्यान्हंतुं प्रचक्रमे॥ ३३.१५ ॥
लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी॥
दुष्टा सा पापनिरता परद्रव्यापहारिणी॥ ३३.१६ ॥
गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता॥
वनमार्गं प्रपश्यंती पत्युरागमनेच्छया॥ ३३.१७ ॥
चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी॥
अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः॥ ३३.१८ ॥
तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः॥
रात्रौ यामद्वयं यातं किं मतंगः समागतः॥ ३३.१९ ॥
किं वा केसरलोभेन सिंहेनैव विदारितः॥
किं भुजंगफणारत्नहारी सर्पविषार्दितः॥ ३३.२० ॥
किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः॥
मधुलोभेन वृक्षाग्रात्स वै प्रपतितो भुवि॥ ३३.२१ ॥
क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति॥
एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति॥ ३३.२२ ॥
नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया॥
चिंतयंती पतिं चापि लुब्धकी त्वयन्निशाम्॥ ३३.२३ ॥
अथ प्रभाते विमले पुष्कसी वनमाययौ॥
अशनार्थं च तस्यान्नमादाय त्वरिता सती॥ ३३.२४ ॥
भ्रममाणावने तस्मिन्ददर्श महतीं नदीम्॥
तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता॥ ३३.२५ ॥
तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे॥
निरीक्ष्य चाथ मत्स्यान्स जालप्रोतान्समानयत्॥ ३३.२६ ॥
तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय॥
अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया॥ ३३.२७ ॥
कृतं किमद्य रे मंद गतेऽहनि च किं कृतम्॥
नाऽशितं च त्वया मूढ लंघितेनाद्य पापिना॥ ३३.२८ ॥
नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ॥
यावद्गतश्च भोक्तुं स तावच्छ्वा स्वयमागतः॥ ३३.२९ ॥
तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि॥
चंडी प्रकुपिता चैव श्वानं हंतुमुपस्थिता॥ ३३.३० ॥
आवयोर्भक्षितं चान्नमनेनैव च पापिना॥
किं च भक्षयसे मूढ भविताद्य वुभुक्षितः॥ ३३.३१ ॥
एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः॥
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः॥ ३३.३२ ॥
किमनेन शरीरेण नश्वरेण गतायुषा॥
शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम्॥ ३३.३३ ॥
ये पुष्णंति निजं देहं सर्वभावेन चाहताः॥
मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः॥ ३३.३४ ॥
तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम्॥
स्वस्था भव विमर्शेन तत्त्वबुद्ध्या स्थिरा भव॥ ३३.३५ ॥
बोधिता तेन चंडी सा पुष्कसेन तदा भृशम्॥
जागरादि च संप्राप्तः पुष्कसोऽपि चतुर्दशीम्॥ ३३.३६ ॥
शिवरात्रिप्रसंगाच्च जायते यद्ध्यसंशयम्॥
तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः॥ ३३.३७ ॥
यामद्वयं च संजातममावास्यां तु तत्र वै॥
आगताश्च गणास्तत्र बहवः शिवनोदिताः॥ ३३.३८ ॥
विमानानि बहून्यत्र आगतानि तदंतिकम्॥
दृष्टानि तेन तान्येव विमानानि गणास्तथा॥ ३३.३९ ॥
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति॥
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः॥ ३३.४० ॥
विमानस्थाश्च केचिच्च वृषारूढाश्च केचन॥
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः॥ ३३.४१ ॥
कपर्द्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः॥
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम्॥ ३३.४२ ॥
पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः॥
रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः॥ ३३.४३ ॥
॥गणा ऊचुः॥
प्रेषिताः स्मो वयं चंड शिवेन परमेष्ठिना॥
आगच्छ त्वरितो भुत्वा सस्त्रीको या नमारुह॥ ३३.४४ ॥
लिंगार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च॥
तेन कर्मविपाकेन प्राप्तोऽसि शिवसन्निधिम्॥ ३३.४५ ॥
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव॥
पुष्कसोऽपि स्वया बुद्ध्या प्रस्तावसदृशं वचः॥ ३३.४६ ॥
॥पुष्कस उवाच॥
किं मया कृतमद्यैव पापिना हिंसकेन च॥
मृगयारसिकेनैव पुष्कसेन दुरात्मना॥ ३३.४७ ॥
पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम्॥
कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम्॥ ३३.४८ ॥
परं कौतुकमापन्नः पृच्छामि त्वां यथातथम्॥
कथयस्व महाभाग सर्वं चैव यथाविधि॥ ३३.४९ ॥
इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि॥
कथयामास तत्सर्वं शिवधर्म मुदान्वितः॥ ३३.५० ॥
॥वीरभद्र उवाच॥
देवदेवो महादेवो देवानां पतिरीश्वरः॥
परितुष्टोऽद्य हे चंड स महेश उमापतिः॥ ३३.५१ ॥
प्रासंगिकतया माघे कृतं लिंगार्चनं त्वया॥
शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः॥
शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च॥ ३३.५२ ॥
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि॥
च्छेदितानि त्वया चंड पतितानि तदैव हि॥
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो॥ ३३.५३ ॥
ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम्॥
तेनैव जागरेणैव तुतोष जगदीश्वरः॥ ३३.५४ ॥
छलेनैव महाभाग कोलसंदर्शनेन हि॥
शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः॥ ३३.५५ ॥
तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा॥
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो महांश्च॥ ३३.५६ ॥
एवमुक्तस्तदा तेन वीरभद्रेण धीमता॥
पुष्कसोऽपि विमानाग्र्यमारुहोह च पश्यताम्॥ ३३.५७ ॥
गणानां देवतानां च सर्वेषां प्राणिनामपि॥
तदा दुंदुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः॥ ३३.५८ ॥
वीणावेणुमृदंगानि तस्य चाग्रे गतानि च॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥ ३३.५९ ॥
विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः॥
चामरैवर्वीज्यमानो हि च्छत्रैश्च विविधैरपि॥
महोत्सवेन महता आनीतो गंधमादनम्॥ ३३.६० ॥
शिवसान्निध्यमागच्चंडोसौ तेन कर्मणा॥
शिवरात्र्युपवासेन परं स्थानं समागमत्॥ ३३.६१ ॥
पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम्॥
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने॥ ३३.६२ ॥
पुष्पादिकं फलं गंधं तांबूलं भक्ष्यमृद्धिमत्॥
ये प्रयच्छंति लोकेऽस्मिन्रुद्रास्ते नात्र संशयः॥ ३३.६३ ॥
चंडेन वै पुष्कसेन सफलं तस्य चाभवत्॥
प्रसंगेनापि तेनैव कृतं तच्चाल्पबुद्धिना॥ ३३.६४ ॥
॥ऋषय ऊचुः॥
किं फलं तस्य चोद्देशः केन चैव पुना कृतम्॥
कस्माद्व्रतमिदं जातं कृतं केन पुरा विभो॥ ३३.६५ ॥
॥लोमश उवाच॥
यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना॥
कालचक्रं तदा जातं पुरा राशिमन्विताम्॥ ३३.६६ ॥
द्वादश राशयस्तत्र नक्षत्राणि तथैव च॥
सप्तविंशतिसंख्यानि मुख्यानि xxxxxx सिद्धये॥ ३३.६७ ॥
एभिः सर्वं प्रचंडं च राशिभिरुडुभिस्तथा॥
कालचक्रान्वितः कालः क्रीडयन्सृजते जगत्॥ ३३.६८ ॥
आब्रह्मस्तंबपर्यंतं सृजत्य वति हंति च॥
निबद्धमस्ति तेनैव कालेनैकेन भो द्विजाः॥ ३३.६९ ॥
कालो हि बलवाँल्लोके एक एव न चापरः॥
तस्मात्कालात्मकं सर्वमिदं नास्त्यत्र संशयः॥ ३३.७० ॥
आदौ कालः कालनाच्च लोकनायकनायकः॥
ततो लोका हि संजाताः सृष्टिश्च तदनंतरम्॥ ३३.७१ ॥
सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च॥
क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम्॥ ३३.७२ ॥
निमिषाणां च षष्ट्या वै फल इत्यभिधीयते॥
पंचदश्या अहोरात्रैः पक्षइत्यभिधीयते॥ ३३.७३ ॥
पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः॥
तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः॥ ३३.७४ ॥
प्रतिपद्दिनमारभ्य पौर्णमास्यंतमेव च॥
पक्षं पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते॥ ३३.७५ ॥
पूर्णचंद्रमसी या तु सा पूर्णा देवताप्रिया॥
नष्टस्तु चंद्रो यस्यां वा अमा सा कथिता बुधैः॥ ३३.७६ ॥
अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह॥
त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च॥
तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः॥ ३३.७७ ॥
योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा॥
अमावास्या तिथीनां च पूर्णिमा वै तथैव च॥ ३३.७८ ॥
संक्रांतयस्तथाज्ञेयाः पवित्रा दानकर्मणि॥
तथाष्टमी प्रिया शंभोर्गणेशस्य चतुर्थिका॥ ३३.७९ ॥
पञ्चमी नागराजस्य कुमारस्य च षष्ठिका॥
भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया॥ ३३.८० ॥
ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा॥
विष्णुप्रिया द्वादशी च अंतकस्य त्रयोदशी॥ ३३.८१ ॥
चतुर्द्दशी तथा शंभोः प्रिया नास्त्यत्र संशयः॥
निशीथसंयुता या तु कृष्णपक्षे चतुर्द्दशी॥
उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी॥ ३३.८२ ॥
शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी॥
अत्रैवोदाहरंतीममितिहासं पुरातनम्॥ ३३.८३ ॥
ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चंचला॥
श्वपचाभिरता सा च कामुकी कामहेतुतः॥ ३३.८४ ॥
तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः॥
दुः सहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः॥ ३३.८५ ॥
महापापप्रयोगाच्च पापमारभते सदा॥
कितवश्च सुरापायी स्तेयी च गुरुतल्पगः॥ ३३.८६ ॥
मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः॥
अधर्मिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम्॥
शिवरात्र्यां च संप्राप्तो ह्युषितः शिवसन्निधौ॥ ३३.८७ ॥
श्रवणं शैवशास्त्रस्य यदृच्छाजातमंतिके॥
शिवस्य लिंगरूपस्य स्वयंभुवो यदा तदा॥ ३३.८८ ॥
स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात्॥
तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान्॥ ३३.८९ ॥
भुक्त्वा पुण्यतामाँल्लोकानुषित्वा शाश्वतीः समाः॥
चित्रांगदस्य पुत्रोभूद्भूपालेश्वरलक्षणः॥ ३३.९० ॥
नाम्ना विचित्रवीर्योऽसौ सुभगः संदुरी प्रियः॥
राज्यं महत्तरं प्राप्य निःस्तंभो हि महानभूत्॥ ३३.९१ ॥
शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत्॥
शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः॥
रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ॥ ३३.९२ ॥
शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः॥
प्रमुंचंश्चैव नेत्राभ्यां रोमांचपुलकावृतः॥ ३३.९३ ॥
आयुष्यं च गतं तस्य शिवध्यानपरस्य च॥
शिवो हि सुलभो लोके पशूनां ज्ञाननिनामपि॥ ३३.९४ ॥
संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः॥
शिवरात्र्युपवासेन प्राप्तो ज्ञानमनुत्तमम्॥ ३३.९५ ॥
ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम्॥
सर्वभूतात्मकं ज्ञात्वा केवलं च सदा शिवम्॥
विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित्॥ ३३.९६ ॥
एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम्॥
प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः॥ ३३.९७ ॥
मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात्॥
तेन लब्धं शिवाज्जन्म पुरा यत्कथितं मया॥ ३३.९८ ॥
दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात्॥
य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः॥
वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः॥ ३३.९९ ॥
शिवरात्रिव्रतेनैव तारिता बहवः पुरा॥
प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः॥ ३३.१०० ॥
मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः॥
प्राप्ताः सिद्धिमनेनेव व्रतेन परमेण हि॥ ३३.१०१ ॥
ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके॥
द्यूतं तथैवाक्षयुतं परेशो युक्तो भवान्या स भृशं चकार॥ ३३.१०२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवरात्रिव्रतमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः॥ ३३ ॥ छ ॥