स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः १२
वेदव्यासः
अध्यायः १३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
प्रणम्य परमात्मानं रमायुक्तं जनार्द्दनम्॥
अमृतार्थं ममंथुस्ते सुरासुरगणाः पुनः॥ १२.१ ॥

उदधेर्मथ्यमानाच्च निर्गतः सुमहायशाः॥
धन्वंतरिरिति ख्यातो युवा मृत्युञ्जयः परः॥ १२.२ ॥

पाणिभ्यां पूर्णकलशं सुधायाः परिगृह्य वै॥
यावत्सर्वे सुराः सर्वे निरीक्षंते मनोहरम्॥ १२.३ ॥

तदा दैत्याः समं गत्वा हर्तुकामा बलादिव॥
सुधया पूर्णकलशं धन्वंतरिकरे स्थितम्॥ १२.४ ॥

यावत्तरंगमालाभिरावृतोऽभूद्भिषक्तमः॥
शनैः शनैः समायातो दृष्टोऽसौ वृषपर्वणा॥ १२.५ ॥

करस्थः कलशस्तस्य हृतस्तेन बलादिव॥
असुराश्च ततः सर्वे जगर्जुरतिभीषणम्॥ १२.६ ॥

कलशं सुधया पूर्णं गृहीत्वा ते समुत्सुकाः॥
दैत्याः पातालमाजग्मुस्तदा देवा भ्रमान्विताः॥ १२.७ ॥

अनुजग्मुः सुसंनद्धा योद्धुकामाश्च तैः सह॥
तदा देवान्समालोक्य बलिरेवमभाषत॥ १२.८ ॥

॥ बलिरुवाच॥
वयं तु केवलं देवाः सुधया परितोषिताः॥
शीघ्रमेव प्रगंतव्यं भवद्भिश्च सुरोत्तमैः॥ १२.९ ॥

त्रिविष्टपं मुदा युक्तैः किमस्माभिः प्रयोजनम्॥
पुरास्माभिः कृतं मैत्रं भवद्भिः स्वार्थतत्परैः॥
अधुना विदितं तत्तु नात्र कार्या विचारणा॥ १२.१० ॥

एवं निर्भार्त्सितास्तेन बलिना सुरसत्तमाः॥
यथागतेन मार्गेण जग्मुर्नारायणं प्रभुम्॥ १२.११ ॥

तं दृष्ट्वा विष्णुना सर्वे सुरा भग्नमनोरथा॥
आश्वासिता वचोभिश्च नानानुनयको विदैः॥ १२.१२ ॥

मा त्रासं कुरुतात्रार्थ आनयिष्यामि तां सुधाम्॥
एवमाभाष्य भगवान्मुकुन्दोऽनाथसंश्रयः॥ १२.१३ ॥

स्थापयित्वा सुरान्सर्वांस्तत्रैव मधुसूदनः॥
मोहनीरूपमास्थाय दैत्यनामग्रतोऽभवत्॥ १२.१४ ॥

तावद्दैत्याः सुसंरब्धाः परस्परमथाब्रुवन्॥
विवादः सर्वदैत्यानाममृतार्थे तदाऽभवत्॥ १२.१५ ॥

एवं प्रवर्तमाने तु मोहिनीरूपमाश्रिताम्॥
दृष्ट्वा योषां तदा दैवात्सर्वभूतमनोरमाम्॥ १२.१६ ॥

विस्मयेन समाविष्टा बभूवुस्तृषितेक्षणाः॥
तां संमान्य तदा दैत्यराजो बलिरुवाच ह॥ १२.१७ ॥

॥बलिरुवाच॥
सुधा त्वया विभक्तव्या सर्वेषां गतिहेतवे॥
शीघ्रत्वेन महाभागे कुरुष्व वचनं मम॥ १२.१८ ॥

एवमुक्ता ह्युवाचेदं स्मयमाना बलिं प्रति॥
स्त्रीणां नैव च विश्वासः कर्तव्यो हि विपश्चिता॥ १२.१९ ॥

अनृतं साहसं माया मूर्खत्वमति लोभता॥
अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः॥ १२.२० ॥

निःस्नेहत्वं च विज्ञेयं धूर्तत्वं चैव तत्त्वतः॥
स्वस्त्रीणां चैव विज्ञेया दोषा नास्त्यत्र संशयः॥ १२.२१ ॥

यथैव श्वापदानां च वृका हिंसापरायणाः॥
काका यतांडजानां च श्वापदानां च जंबुकाः॥
धूर्ता तथा मनुष्याणां स्त्रीज्ञेया सततं बुधैः॥ १२.२२ ॥

मया सह भवद्भिश्च कथं सख्यं प्रवर्तते॥
सर्वथात्र न विज्ञेयाः के यूयं चैव क ह्यहम्॥ १२.२३ ॥

तस्माद्भवद्भिः संचिंत्यकार्याकार्यविचक्षणैः॥
कर्तव्यं परया बुद्ध्या प्रयातासुरसत्तमाः॥ १२.२४ ॥

॥बलिरुवाच॥
अद्यामृतं च सर्वेषां विभजस्व यथातथम्॥
त्वया दत्तं च गृह्णीमः सत्यंसत्यं वदामि ते॥ १२.२८ ॥

एवमुक्ता तदा देवी मोहिनी सर्वमंगला॥
उवाचाथासुरान्सर्वान्रोचयँल्लौकिकीं स्थितिम्॥ १२.२९ ॥

॥ भगवानुवाच॥
यूयं सर्वे कृतार्थाश्च जाता दैवेन केनचित्॥
अद्योपावाससंयुक्ता अमृतस्याधिवासनम्॥ १२.३० ॥

क्रियतामसुराः श्रेष्ठाः शुभेच्छा किंचिदस्ति वः॥
श्वेभूते पारणं कुर्याद्व्रतार्चनरतिश्च वः॥ १२.३१ ॥

न्यायोपार्जितवित्तेन दशमांशेन धीमता॥
कर्तव्यो विनियोगश्च ईशप्रीत्यर्थहेतवे॥ १२.३२ ॥

तथेति मत्वा ते सर्वे यथोक्तं देवमायया॥
चक्रुस्तथैव दैतेया मोहिता नातिकोविदाः॥ १२.३३ ॥

मयासुरेण च तदा भवनानि कृतानि वै॥
मनोज्ञानि महार्हाणि सुप्रभाणि महांति च॥ १२.३४ ॥

तेषुपविष्टास्ते सर्वे सुस्नाताः समलंकृताः॥
स्थापयित्वा सुसंरब्धाः पूर्णं कलशमग्रतः॥ १२.३५ ॥

रात्रौ जागरणं सर्वैः कृतं परमया मुदा॥
अथोषसि प्रवृत्ते च प्रातःस्नानयुता भवन्॥ १२.३६ ॥

असुरा बलिमुख्याश्च पंक्तिभूता यताक्रमम्॥
सर्वमावश्यकं कृत्वा तदा पानरता भवन्॥ १२.३७ ॥

बलिश्च वृषपर्वा च नमुचिः शंख एव च॥
सुदंष्ट्रश्चैव संह्लादी कालनेमिर्विभीषणः॥ १२.३८ ॥

वातापिरिल्वलः कुम्भो निकुम्भः प्रच्छदस्तथा॥
तथा सुन्दोपसुन्दौ च निशुम्भः शुम्भ एव च॥ १२.३९ ॥

महिषो महिषाक्षश्च बिडालाक्षः प्रतापवान्॥
चिक्षुराख्यो महाबाहुर्जृभणोऽथ वृषासुरः॥ १२.४० ॥

विबाहुर्बाहुको घोरस्तथा वै घोरदर्शनः॥
एते चान्ये च बहवो दैत्यदानवराक्षसाः॥
यथाक्रमं चोपविष्टा राहुः केतुस्तथैव च॥ १२.४१ ॥

तेषां तु कोटिसंख्यानां दैत्यानां पंक्तिरास्थिता॥ १२.४२ ॥

ततस्तया तदा देव्या अमृतार्थं हि वै द्विजाः॥
यज्जातं तच्छृणउध्वं हि तया देव्या कृतं महत्॥ १२.४३ ॥

सर्वे विज्ञापिताः सद्यो गृहीतकलशा तदा॥
शोभया परया युक्ता साक्षात्सा विष्णुमोहिनी॥ १२.४४ ॥

करस्थेन तदा देवी कलशेन विराजिता॥
शुशुभे परया कांत्या जगन्मंगलमंगला॥ १२.४५ ॥

परिवेषधराः सर्वे सुरास्ते ह्यसुरांतिकम्॥
आगतास्तत्क्षणादेव यत्र ते ह्यसुरोत्तमाः॥ १२.४६ ॥

तान्दृष्ट्वा मोहिनी सद्य उवाच प्रमदोत्तमा॥ १२.४७ ॥

॥मोहिन्युवाच॥
एते ह्यतिथयो ज्ञेया धर्म्मसर्वस्वसाधनाः॥
एभ्यो देयं यताशक्त्या यदि सत्यं वचो मम॥
प्रमाणं भवतां चाद्य कुरुध्वं मा विलंबथ॥ १२.४८ ॥

परेषामुपकारं च ये कुर्वंति स्वशक्तितः॥
धन्यास्ते चैव विज्ञेयाः पवित्राः लोकपालकाः॥ १२.४९ ॥

केवलात्मोदरार्थाय उद्योगं ये प्रकुर्वते॥
ते क्लेशभागिनो ज्ञेया नात्र कार्या विचारणा॥ १२.५० ॥

तस्माद्विभजनं कार्यं मयैतस्य शुभव्रताः॥
देवेभ्यश्च प्रयच्छध्वं यद्धि चात्मप्रियाप्रियम्॥ १२.५१ ॥

इत्युक्ते वचने देव्या तथा चक्रुरतं द्रिताः॥
आह्वयामासुरसुराः सर्वान्देवान्सवासवान्॥ १२.५२ ॥

उपविष्टाश्च ते सर्वे अमृतार्थं च भो द्विजाः॥
तेषूपविश्यमानेषु ह्युवाच परमं वचः॥
मोहिनी सर्वधर्म्मज्ञा असुराणां स्मयन्निव॥ १२.५३ ॥

॥मोहिन्युवाच॥
आदौ ह्यभ्यागताः पूज्या इति वै वैदिकी श्रुतिः॥ १२.५४ ॥

तस्माद्यूयं वेदपराः सर्वे देवपरायणाः॥
ब्रुवंतु त्वरितेनैव आदौ केषां ददाम्यहम्॥
अमृतं हि महाभागा बलिमुख्या वदंतु भोः॥ १२.५५ ॥

बलिनोक्ता तदा देवी यत्ते मनसि रोचते॥
स्वामिनी त्वं न संदेहो ह्यस्माकं सुंदरानने॥ १२.५६ ॥

एवं संमानिता तेन बलिना भावितात्मना॥
परिवेषणकार्यार्थं कलशं गृह्य सत्वरा॥ १२.५७ ॥

तस्मान्नरेन्द्रकरभोरुलसद्दृकूला श्रोणीतटालसगतिर्मविह्वलांगी॥
सा कूजती कनकनूपुरसिंजितेन कुंभस्तनी कलशपाणिरथाविवेश॥ १२.५८ ॥

तदा तु देवी परिवेषयंती सा मोहिनी देवगणाय साक्षात्॥
ववर्ष देवेषु सुधारसं पुनः पुनः सुधाहाररसामृतं यथा॥ १२.५९ ॥

पुनश्च ते देवगणाः सुधारसं दत्तं तया परया विश्वमूर्त्या॥
बलिमुख्याः सह लोकपाला गंधर्वयक्षाप्सरसां गणाश्च॥ १२.६० ॥

सर्वे दैत्या आसनस्था पुनश्च ते देवगणाः सुधारसं दत्तं पीडिताश्च॥
तूष्णींभूता बलिमुख्या द्विजेंद्रा मनस्विनो ध्यानपरा बभूवुः॥ १२.६१ ॥

ततस्तथाविधान्दृष्ट्वा दैत्यांस्तान्मोहमाश्रितान्॥
तदा राहुश्च केतुश्च द्वावेतौ दैत्यपुंगवौ॥ १२.६२ ॥

देवानां रूपमास्थाय अमृतार्थं त्वरान्वितौ॥
उपविष्टौ तदा पङ्क्त्यां देवानाममृतार्थिनौ॥ १२.६३ ॥

यदामृतं पातुकामो राहुः परमदुर्जयः॥
चन्द्रार्काभ्यां प्रकथितो विष्णोरमिततेजसः॥ १२.६४ ॥

तदा तस्य शिरश्छिन्नं राहोर्दुर्विग्रहस्य च॥
शिवरो गगनमापेदे कबंधं च महीतले॥
भ्रममाणं तदा ह्यद्रींश्चूर्णयामास वै तदा॥ १२.६५ ॥

साद्रिश्च सर्वभूलोकश्चूर्णितश्च तदाऽभवत्॥
तया तेन च देहेन चूर्णितं सचराचरम्॥ १२.६६ ॥

दृष्ट्वा तदा महादेवस्तस्योपरि तु संस्थितः॥
निवासः सर्वदेवानां तस्याः पादतलेऽभवत्॥ १२.६७ ॥

पीडनं तत्समीपेथ निवास इति नाम वै॥ १२.६८ ॥

महतामालयं यस्माद्यस्यास्तच्चरणांबुजम्॥
महालयेति विख्याता जगत्त्रयविमोहिनी॥ १२.६९ ॥

केतुश्च धूमरूपोऽसावाकाशे विलयं गतः॥
सुधां समर्प्य चंद्राय तिरोधानगतोऽभवत्॥ १२.७० ॥

वासुदेवो जगद्योनिर्जगतां कारणं परम्॥
विष्णोः प्रसादात्तज्जातं सुराणां कार्यसिद्धिदम्॥ १२.७१ ॥

असुराणां विनाशाय जातं दैवविपर्ययात्॥
विना दैवेन जानीध्वमुद्यमो हि निरर्थकः॥ १२.७२ ॥

यौगपद्येन तैः सर्वैः क्षीराब्धेर्मंथनं कृतम्॥
सिद्धिर्जाता हि देवानामसिद्धिरसुरान्प्रति॥ १२.७३ ॥

ततश्च ते देववरान्प्रकोपिता दैत्याश्च मायाप्रवि मोहिताः पुनः॥
अनेकशस्त्रास्त्रयुतास्तदाऽभवन्विष्णौ गते गर्जमानास्तदानीम्॥ १२.७४ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे समुद्रमंथनाख्याने देवानाममृतप्राशनवर्णनंनाम द्वादशोऽध्यायः॥ १२ ॥ ।
छ ॥