स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ११
वेदव्यासः
अध्यायः १२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥महेश्वर उवाच॥
प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः॥
स्नात्वा शुक्लतिलैः शुद्धैः शुक्लपक्षे सदा नृभिः॥ ११.१ ॥

कृत्वा चावस्यकं सर्वं गणेशस्यार्चनक्रियाम्॥
प्रयत्नेनैव कुर्वीत गंधमाल्याक्षतादिभिः॥ ११.२ ॥

ध्यानमादौ प्रकर्तव्यं गणेशस्य यथाविधि॥
आगमा बहवो जाता गणेशस्य यथा मम॥ ११.३ ॥

बहुधोपासका यस्मात्तमः सत्त्वरजोन्विताः॥
गणभेदेन तान्येव नामानि बहुधाऽभवत्॥ ११.४ ॥

पंचवक्त्रो गणाध्यक्षो दशबाहुस्त्रिलोचनः॥
कांतस्फटिकसंकाशो नीलकंठो गजाननः॥ ११.५ ॥

मुखानि तस्य पंचैव कथयामि यतातथम्॥ ११.६ ॥

मध्यमं तु मुखं गौरं चतुर्दन्तं त्रिलोचनम्॥
शुंडादंडमनोज्ञं च पुष्करे मोदकान्वितम्॥ ११.७ ॥

तथान्यत्पीतवर्णं च नीलं च शुभलक्षणम्॥
पिंगलं च तथा शुभ्रं गणेशस्य शुभाननम्॥ ११.८ ॥

तथा दशभुजेष्वेव ह्यायुधानि ब्रवीमि वः॥
पाशं पस्शुपद्मे च अंकुशं दंतमेव च॥ ११.९ ॥

अक्षमालां लांगलं च मुसलं वरदं तथा॥
पूर्णं च मोदकैः पात्रं पाणिना च विचिंतयेत्॥ ११.१० ॥

लंबोदर विरूपाक्षं निवीतं मेखलान्वितम्॥
योगासने चोपविष्टं चंद्रलेखां कशेखरम्॥ ११.११ ॥

ध्यानं च सात्त्विकं ज्ञेयं राजसं हि नृणामिव॥
शुद्धचामीकराभासं गजाननमलौकिकम्॥ ११.१२ ॥

चतुर्भुजं त्रिनयनमेकदंतं महोदरम्॥
पाशांकुशधरं देवं दंतमोदकपात्रकम्॥ ११.१३ ॥

नीलं च तामसं ध्यानमेवं त्रिविधमुच्यते॥
ततः पूजा प्रकर्तव्या भवद्भिः शीघ्रमेव च॥ ११.१४ ॥

एकविंशतिदूर्वाभिर्द्वाभ्यां नाम्ना पृथक्पृथक्॥
सर्वनामभिरेकैव दीयते गणनायके॥ ११.१५ ॥

तथैव नामभिर्देया एकविंशतिमोदकाः॥
दशनामान्यहं वक्ष्ये पूजनार्थं पृथक्पृथक्॥ ११.१६ ॥

गणाधिप नमस्तेस्तु उमापुत्राघनाशन॥
विनायकेशपुत्रोति सर्वसिद्धिप्रदायक॥ ११.१७ ॥

एकदंतेभवक्त्रेति तथा मूषकवाहन॥
कुमारगुरवे तुभ्यं पूजनीयः प्रयत्नतः॥ ११.१८ ॥

एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम्॥
विष्णुं गुहाशयं सद्यो ब्रह्माणं च सदाशिवः॥ ११.१९ ॥

तिरोधान गतः सद्यः शंभुः परमशोभनः॥
प्रणम्य शंभुं ते सर्वे गणाध्यक्षार्च्चने रताः॥ ११.२० ॥

ततः संपूज्य विधिवद्गणाध्यक्षार्च्चने रताः॥
उपचारैरनेकैश्च दूर्वाभिश्च पृथक्पृथक्॥ ११.२१ ॥

संतुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत्॥
प्रदक्षिणं नमस्कृत्य तैः सर्वैरभितोषितः॥ ११.२२ ॥

तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन्॥
उपहासपरास्ते वै देवान्प्रत्यसुरोत्तमाः॥ ११.२३ ॥

पूजयित्वा शांकरिं ते पुनः क्षीरार्णवं ययुः॥
ब्रह्मा विष्णुश्च ऋषयो देवदैत्याः सुरोत्तमाः॥ ११.२४ ॥

मंथानं मंदरं कृत्वा रज्जुं कृत्वाथ वासुकिम्॥
ममंथुश्च तदा देवा विष्णुं कृत्वाथ सन्निधौ॥ ११.२५ ॥

मथ्यमाने तदाब्धौ च निर्गतश्चंद्र अग्रतः॥
पीयूषपूर्णः सर्वेषां देवानां कार्यसिद्धये॥ ११.२६ ॥

॥ शौनक उवाच॥
अर्णवे किं पुरा चंद्रो निक्षिप्तः केन सुव्रत॥
गजादिकानि रत्नानि कथितानि त्वया पुरा॥ ११.२७ ॥

एतत्सर्वं समासेन आदौ कथय मे प्रभो॥
ज्ञात्वा सर्वे वयं सूत पश्चादावर्णयामहे॥ ११.२८ ॥

तेषां तद्वचनं श्रुत्वा सूतो वाक्यमुपाददे॥ ११.२९ ॥

चंद्र आपोमयो विप्रा अत्रिपुत्रो गुणान्वितः॥
उत्पन्नो ह्यनसूयायां ब्रह्मणोंऽशात्समुद्भवः॥
रुद्रस्यांशाद्धि दुर्वासा विष्णोरंशात्तु दत्तकः॥ ११.३० ॥

क्षीराब्धिं मथ्यमानं तु दृष्ट्वा चंद्रो मुदान्वितः॥
क्षीराब्धिरपि चंद्रं च दृष्ट्वा सोऽप्युत्सुकोऽभवत्॥ ११.३१ ॥

प्रविष्टश्चोभयप्रीत्या श्रृण्वतां भो द्विजोत्तमाः॥
चंद्रो ह्यमृत पूर्णोभूदग्रतो देवसन्निधौ॥ ११.३२ ॥

दृष्ट्वा च कांतिं त्वरितोऽथ चंद्रो नीराजितो देवगणैस्तदानीम्॥
वादित्रगोषैस्तुमुलैरनेकैर्मृदंगशंखैः पटहैरनेकैः॥ ११.३३ ॥

नमश्चक्रुश्च ते सर्वे ससुरासुरदानवाः॥
तदा गर्गं पृच्छमाना बलं चंद्रस्य तत्त्वतः॥ ११.३४ ॥

गर्गेणोक्तास्तदा सर्वेषां बलमद्य वै॥
केंद्रस्थानगताः सर्वे भवतामुत्तमा ग्रहाः॥ ११.३५ ॥

चंद्रं मुरुः समायातो बुधश्चैव समागतः॥
आदित्यश्च तथा शुक्रः शनिरंगारको महान्॥ ११.३६ ॥

तस्माच्चंद्रबलं श्रेष्ठं भवतां कार्यसिद्धये॥
गोमंतसंज्ञकोनाम मुहूर्तोऽयं जयप्रदः॥ ११.३७ ॥

एवमाश्वासिता देवा गर्गेणैव महात्मना॥
ममंथुरब्धिं त्वरिता गर्जमाना महाबलाः॥ ११.३८ ॥

द्विगुणं बलमापन्ना महात्मानो दृढव्रताः॥
महेशं स्मरमाणास्ते गणेशं च पुनः पुनः॥ ११.३९ ॥

निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः॥
निर्गता सुरभिः साक्षाद्देवानां कार्यसिद्धये॥ ११.४० ॥

तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा॥
तरंगोपरि गच्छंती शनकैः शनकैस्ततः॥ ११.४१ ॥

कामधेनुं समायांतीं दृष्ट्वा सर्वे सुरासुराः॥
पुष्पवर्षेण महता ववर्षुरमितप्रभाम्॥ ११.४२ ॥

तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः॥
आनीता जलमध्याच्च संवृता गोशतैरपि॥ ११.४३ ॥

तासु नीलाश्च कृष्णश्च कपिलाश्च कपिंजलाः॥
बभ्रवः श्यामका रक्ता जंबूवर्णाश्च पिंगलाः॥
आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत॥ ११.४४ ॥

असुरासुरसंवीतां कामधेनुं ययाचिरे॥
ऋषयो हर्षसंयुक्ता देवान्दैत्यांश्च तत्क्षणात्॥ ११.४५ ॥

सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च॥
सुरभीसहिता गावो दातव्या नात्र संशयः॥ ११.४६ ॥

तैर्याचितास्तेऽत्र सुरासुराश्च ददुश्च ता गाः शिवतोषणाय॥
तैः स्वीकृतास्ता ऋषिभिः सुमंगलैर्महात्मभिः पुण्यतमैः सुरभ्यः॥ ११.४७ ॥

पुण्याहं मुनिभिः सर्वैः कारितास्ते तदा सुराः॥
देवानां कार्यसिद्ध्यर्थमसुराणां क्षयाय च॥ ११.४८ ॥

पुनः सर्वे सुसंरब्धा ममंथुः क्षीरसागरम्॥
मथ्यमानात्तदा तस्मादुदधेश्च तथाऽभवत्॥ ११.४९ ॥

कल्पवृक्षः पारिजातश्चूतः संतानकस्तथा॥
तान्द्रुमानेकतः कृत्वा गन्धर्वनगरोपमान्॥
ममंथुरुग्रं त्वरिताः पुनः क्षीरार्णवं बुधा॥ ११.५० ॥

निर्मथ्यमानादुदधेरभवत्सूर्यवर्चसम्॥
रत्नानामुत्तमं रत्नं कौस्तुभाख्यं महाप्रभम्॥ ११.५१ ॥

स्वकीयेन प्रकाशेन भासयंतं जगत्त्रयम्॥
चिंतामणिं पुरस्कृत्य कौस्तुभं ददृशुर्हि ते॥ ११.५२ ॥

सर्वे सुरा ददुस्तं वै कौस्तुभं विष्णवे तदा॥
चिंतामणि ततः कृत्वा मध्ये चैव सुरासुराः॥
ममंथुः पुनरेवाब्धिं गर्जंतस्ते बलोत्कटाः॥ ११.५३ ॥

मथ्यमानात्ततस्तस्मादुच्चैःश्रवाः समद्भुतम्॥
बभूव अश्वो रत्नानां पुनश्चैरावतो गजः॥ ११.५४ ॥

तथैव गजरत्नं च चतुःषष्ट्या समन्वितम्॥
गजानां पांडुराणां च चतुर्द्दन्तं मदान्वितम्॥ ११.५५ ॥

तान्सर्वान्मध्यतः कृत्वा पुनश्चैव ममंथिरे॥
निर्मथ्यमानादुदधेर्निर्गतानि बहून्यथ॥ ११.५६ ॥

मदिरा विजया भृंगी तथा लशुनगृंजनाः॥
अतीव उन्मादकरो धत्तूरः पुष्करस्तथा॥ ११.५७ ॥

स्थापिता नैकपद्येन तीरे नदनदीपतेः॥
पुनश्च ते तत्र महासुरेन्द्रा ममंथुरब्धिं सुरसत्तमैः सह॥ ११.५८ ॥

निर्मथ्यमानादुदधेस्तदासीत्सा दिव्य लक्ष्मीर्भुवनैकनाथा॥
आन्वीक्षिकीं ब्रह्मविदो वदंति तथआ चान्ये मूलविद्यां गृणंति॥ ११.५९ ॥

ब्रह्मविद्यां केचिदाहुः समर्थाः केचित्सिद्धिमृद्धिमाज्ञा मथाशाम्॥
यां वैष्णवीं योगिनः केचिदाहुस्तथा च मायां मायिनो नित्ययुक्ताः॥ ११.६० ॥

वदंति सर्वे केनसिद्धांतयुक्तां यां योगमायां ज्ञानशक्त्यान्विता ये॥ ११.६१ ॥

ददृशुस्तां महालक्ष्मीमायांती शनकैस्तदा॥
गौरां च युवतीं स्निग्धां पद्मकिंजल्कभूषणाम्॥ ११.६२ ॥

सुस्मितां सुद्विजां श्यामां नवयौवनभूषणाम्॥
विचित्रवस्त्राभरणरत्नानेकोद्यतप्रभाम्॥ ११.६३ ॥

बिंबोष्ठीं सुनसां तन्वीं सुग्रीवां चारुलोचनाम्॥
सुमध्यां चारुजघनां बृहत्कटितटां तथा॥ ११.६४ ॥

नानारत्नप्रदीपैश्च नीराजितमुखांबुजाम्॥
चारुप्रसन्नवदनां हारनूपूरशोभिताम्॥ ११.६५ ॥

मूर्द्धनि ध्रियमाणेन च्छत्रेणापि विराजिताम्॥
चामरैर्वीज्यमानां तां गंगाकल्लोललोहितैः॥ ११.६६ ॥

पांडुरं गजमारूढां स्तूयमानां महर्षिभिः॥
सुरद्रुमपुष्पमालां बिभ्रतीं मल्लिकायुताम्॥ ११.६७ ॥

कराग्रे ध्रियमाणां तां दृष्ट्वा देवाः समुत्सुकाः॥
आलोकनपरा यावत्तावत्तान्ददृशे ह्यसौ॥ ११.६८ ॥

देवांश्च दानवांश्चैव सिद्धचारणपन्नगान्॥
यथा माता स्वपुत्रांश्च महालक्ष्मीस्तथा सती॥ ११.६९ ॥

आलोकितास्तथा देवास्तया लक्ष्म्या श्रियान्विताः॥
सञ्जातास्तत्क्षणादेव राज्य लक्षणलक्षिताः॥
दैत्यास्ते निःश्रिका जाता ये श्रियाऽनवलोकिताः॥ ११.७० ॥

निरीक्ष्यमाणा च तदा मुकुन्दं तमालनीलं सुकपोलनासम्॥
विभ्राजमानं वपुषा परेण श्रीवत्सलक्ष्मं सदयावलोकम्॥ ११.७१ ॥

दृष्ट्वा तदैव सहसा वनमालयान्विता लक्ष्मीर्गजादवततार सुविस्मयंती॥
कंठे ससर्ज पुरुषस्य परस्य विष्णोर्मालां श्रिया विरचितां भ्रमरैरुपेताम्॥ ११.७२ ॥

वामांगमाश्रित्य तदा महात्मनः सोपाविशत्तत्र समीक्ष्य ता उभौ॥
सुराः सदैत्या मुदमापुरद्भुतां सिद्धाप्सरः किंनरचारणाश्च॥ ११.७३ ॥

सर्वेषामेव लोकानामैकपद्येन सर्वशः॥
हर्षो महानभूत्तत्र लक्ष्मीनारायणागमे॥ ११.७४ ॥

लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता॥
एवं परस्परं प्रीत्या ह्यवलोकनतत्परौ॥ ११.७५ ॥

शंखाश्च पटहाश्चैव मृदंगानकगोमुखाः॥
भेर्यश्च झर्झरीणां च स शब्दस्तुमुलोऽभवत्॥ ११.७६ ॥

बभूव गायकानां च गायनं सुमहत्तदा॥
ततानि विततान्येन घानानि सुषिराणि च॥ ११.७७ ॥

एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम्॥
अतोषयन्सुगीतज्ञा गंधर्वाप्सरसां गणाः॥ ११.७८ ॥

तथा जगुर्नारदतुंबुरादयो गंधर्वयक्षाः सुरसिद्ध संघाः॥
संसेवमानाः परमात्मरूपं नारायणं देवमगाधबोधम्॥ ११.७९ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमन्थनाख्याने लक्ष्मीप्रादुर्भाववर्णनंनामैकादशोऽध्यायः॥ ११ ॥