स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः १०
वेदव्यासः
अध्यायः ११ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥मुनय ऊचुः॥
यत्त्वया कथितं ब्रह्मन्ब्रह्मांडं सचराचरम्॥
भस्मीभूतं रुद्रकोपात्कालकूटाग्निनाऽथ़खिलम्॥ १०.१ ॥

ब्रह्मांडांतरतः किं तु रुद्रं मन्यामहे वयम्॥
तदा चराचरं नष्टं ब्रह्मविष्णुपुरोगमम्॥ १०.२ ॥

भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता॥
कुतो ब्रह्मा च विष्णुश्च कुतश्चंद्रपुरोगमाः॥ १०.३ ॥

अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः॥
अत ऊर्ध्वं किमभवत्तत्सर्वं वक्तुमर्हसि॥ १०.४ ॥

व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत्॥
तस्माज्ज्ञानमयं शास्त्रं तज्जानासि न चापरः॥ १०.५ ॥

इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः॥
सूतो व्यासं नमस्कृत्य वाक्यं चेदमथाब्रवीत्॥ १०.६ ॥

॥ लोमश उवाच॥
यदा ब्रह्मांडमध्यस्था व्याप्ता देवा विषाग्निना॥
हरिब्रह्मादयो ह्येते लोकपालाः सवासवाः॥
तदा विज्ञापितः शंभुर्हेरंबेन महात्मना॥ १०.७ ॥

॥हेरंब उवाच॥
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते॥
मया विघ्नं विनोदेन कृतं तेषां सुदुर्जयम्॥ १०.८ ॥

भयेन मति मोहात्त्वां नार्च्चयंति च मामपि॥
उद्योगं ये प्रकुर्वन्ति तेषां क्लेशोऽधिको भवेत्॥ १०.९ ॥

एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः॥
विघ्नांधकारसूर्येण गणाधिपतिना तदा॥ १०.१० ॥

लिंगरूपोऽब्रवीच्छंभुर्निराकारो निरामयः॥
निरंजनो व्योमकेशः कपर्द्दी नीललोहितः॥ १०.११ ॥

॥महेश्वर उवाच॥
हेरंब श्रृणु मे वाक्यं श्रद्धया परया युतः॥
अहंकारात्मकं चैव जगदेतच्चराचरम्॥ १०.१२ ॥

स्थितिं करोत्यहंकारः प्रलयोत्पत्तिमेव च॥
जगदादौगणपते तदा विज्ञप्तिमात्रतः॥ १०.१३ ॥

मायाविरहितं शांतं द्वैताद्वैतपरं सदा॥
ज्ञप्तिमात्रस्वरूपं तत्सदानंदैकलक्षणम्॥ १०.१४ ॥

॥गणपतिरुवाच॥
यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः॥
तस्मात्त्वदपरं किंचिन्नान्यदस्ति परंतप॥ १०.१५ ॥

नानारूपं कथं जातं सुरासुरविलक्षणम्॥
विचित्रं मोहजननं त्रिभिर्द्देवैश्च लक्षितम्॥ १०.१६ ॥

भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः॥
जातं संसारचक्रं च नित्यानित्यविलक्षणम्॥ १०.१७ ॥

परस्परविरोधेन ज्ञानवादेन मोहिताः॥
कर्मवादरताः केचित्केचित्स्वगुणमाश्रिताः॥ १०.१८ ॥

ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः॥
एवं संशयमापन्नं त्राहि मां वृषभध्वज॥ १०.१९ ॥

अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो॥
एते चान्ये च बहवः कुतो जाताश्च कुत्र वै॥ १०.२० ॥

कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै॥
प्रहस्य भगवाञ्छंभुर्गणेशं वक्तुमुद्यतः॥ १०.२१ ॥

॥महेश्वर उवाच॥
कालशक्त्या च जातानि रजःसत्त्वतमांसि च॥
तैरावृतं जगत्सर्वं सदेवासुमानुषम्॥ १०.२२ ॥

परिदृश्यमानमेतच्चानश्वरं परमार्थतः॥
विद्ध्येतत्सर्वसिद्ध्यैव कृतकत्वाच्च नश्वरम्॥ १०.२३ ॥

॥ लोमश उवाच॥
यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः॥
लिंगरूपी विश्वरूपः प्रादुर्भूता सदाशिवात्॥ १०.२४ ॥

शिवरूपा जगद्योनिः कार्यकारणरूपिणी॥
लिंगरूपी स भगवान्निमग्नस्तत्क्षणादभूत्॥ १०.२५ ॥

एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा॥
गणेशो विस्मयाविष्टो ह्यवलोकनतत्परः॥ १०.२६ ॥

॥ऋषय ऊचुः॥
प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम्॥
गणेशस्य पृथक्त्वं च कथं जातं तदुच्यताम्॥ १०.२७ ॥

॥लोमश उवाच॥
साक्षात्प्रकृत्याः संभूतो गणेशो भगवानभूत्॥
यथारूपः शिवः साक्षात्तद्रूपो हि गणेश्वरः॥ १०.२८ ॥

शिवेन सह संग्रामो ह्यभूत्तस्य महात्मनः॥
अज्ञानात्प्रकृतो भूत्वा बहुकालं निरन्तरम्॥ १०.२९ ॥

तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा॥
त्रिशूलेनाहनच्छंभुः सगजं तमपातयत्॥ १०.३० ॥

तदा स्तुतो महादेवः परशक्त्या परंतपः॥
परशक्तिमुवाचेदं वरं वरय शोभने॥ १०.३१ ॥

तदा वृतो महादेवो वरेण परमेण हि॥
योऽयं त्वया हतो देव मम पुत्रो न संशयः॥ १०.३२ ॥

त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः॥
तस्मात्पुत्रं जीवयेमं मम तृष्ट्यर्थमेव च॥ १०.३३ ॥

प्रहस्य भगवान्रुद्रो मायापुत्रमजीवयत्॥
सिंधुरवदनेनैव मुखे स समयोजयत्॥ १०.३४ ॥

तदा गजाननो जातः प्रसादाच्छंकरस्य च॥
मायापुत्रोपि निर्मायो ज्ञानवान्संबभूव ह॥ १०.३५ ॥

आत्मज्ञानामृतेनैव नित्यतृप्तो निरामयः॥
समाधिसंस्थितो रौद्रः कालकालांतकोऽभवत्॥ १०.३६ ॥

योगदंडार्थमुत्पाट्य स्वकीयं दशनं महत्॥
करे गृह्य गणाध्यक्षः शब्धब्रह्मातिवर्त्तते॥
ऋद्धिसिद्धिद्वयेनैव एकत्वेन विराजितः॥ १०.३७ ॥

ये ते गणाश्च विघ्नाश्च ये चान्येऽभ्यधिका भुवि॥
तेषामपि पतिर्जातः कृतोऽसौ शंभुना तदा॥ १०.३८ ॥

तस्माद्वि लोकयामास प्रकृतिं विश्वरूपिणीम्॥
पृथक्स्थित्वाग्रतो जानाल्लिंगं प्रकृतिमेव च॥
ददर्श विमलं लिंगं प्रकृतिस्थं स्वभावतः॥ १०.३९ ॥

आत्मानं च गणैः साद्धं तथैव च जगत्त्रयम्॥
लीनं लिंगे समस्तं तद्धेरम्बो ज्ञानवानपि॥ १०.४० ॥

मुमोह च पुनः संज्ञां प्रतिलभ्य प्रयत्नतः॥
ननाम शिरसा ताभ्यामीशाभ्यां स गणेश्वरः॥ १०.४१ ॥

तदा ददर्श तत्रैव लोकसंहारकारकम्॥
ब्रह्माणं चैव रुद्रं च विष्णुं चैव सदाशिवम्॥ १०.४२ ॥

ददर्श प्रेततुल्यानि लिंगशक्त्यात्मकानि च॥
ब्रह्माण्डगोलकान्येव कोटिशः परमाणुवत्॥ १०.४३ ॥

लीयंते च विलीयंते महेशे लिंगरूपिणि॥
प्रकृत्यंतर्गतं लिंगं लिंगस्यांतर्गता च सा॥ १०.४४ ॥

शक्त्या लिंगं च संछन्नं तदा सर्वमदृश्यत॥
लिंगेन शक्तिः संछन्ना परस्परमवर्तत॥ १०.४५ ॥

शिवाभ्यां संश्रितं लोकं जगदेतच्चराचरम्॥
गणेशो वापि तज्ज्ञानं न परेऽपि तथाविदन्॥ १०.४६ ॥

तदोवाच महातेजा गणाध्यक्षो गणैः सह॥
सशक्तिकं स्तूयमानः शक्त्या च परया तदा॥ १०.४७ ॥

॥गणेश उवाच॥
नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं ज्ञानात्परं परमंज्योतिरूपम्॥
रूपात्परं परमं तत्त्वरूपं तत्त्वात्परं परमं मंगलं च आनंदाख्यं निष्कलं निर्विषादम्॥ १०.४८ ॥

धूमात्परमयोवह्निर्धूमवत्प्रतिभासते॥
प्रकृत्यंतर्गस्त्वं हि लक्ष्यसे ज्ञानिसंभवः॥
प्रकृत्यंतर्गतस्त्वं हि मायाव्यक्तिरितीयसे॥ १०.४९ ॥

एवंविधस्त्वं भगवन्स्वमायया सृजस्यथोलुंपसि पासि विश्वम्॥
अस्माद्गरात्सर्वमिदं प्रनष्टं सब्रह्मविप्रेंद्रयुतं चराचरम्॥ १०.५० ॥

यथा पुरासीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा॥
कुरुष्य शीघ्रं सहजीवकोशं चराचरं तत्सकलं प्रदग्धम्॥ १०.५१ ॥

॥ लोमश उवाच॥
एवं स्तुतो गणेशेन भगवान्भूतभावनः॥
यदुत्थितं कालकूटं लोकसंहारकारकम्॥ १०.५२ ॥

लिंगरूपेण तद्ग्रस्तं विमलं चाकरोत्तदा॥
सदेवासुरमर्त्याश्च सर्वाणि त्रिजगन्ति च॥
तत्क्षणाद्रक्षितान्येव कृपया परया युतः॥ १०.५३ ॥

ब्रह्मा विष्णुः सुरेंद्रश्च लोकपालाः सहर्षयः॥
यक्षा विद्याधराः सिद्धा गंधर्वाप्सरसां गणाः॥
उत्थिताश्चैव ते सर्वे निद्रापरिगता इव॥ १०.५४ ॥

विस्मयेन समाविष्टा बभूवुर्जातसाध्वसाः॥
सर्वे देवासुराश्चैव ऊचुराश्चर्यवत्ततः॥ १०.५५ ॥

क्व कालकूटं सुमहद्येन विद्राविता वयम्॥
मृतप्रायाः कृताः सद्यः सलोकपालका ह्यमी॥ १०.५६ ॥

इत्यब्रुवंस्तदा दैत्यास्तूष्णींभूतास्तदा स्थिताः॥
शक्रादयो लोकपाला विष्णुं सर्वेश्वरेश्वरम्॥
ब्रह्माणं च पुरस्कृत्य इदमूचुः समेधिता॥ १०.५७ ॥

केनेदं कारितं विष्णो न विदामोऽल्पमेधसः॥
तदा प्रहस्य भगवान्ब्रह्मणा सह तैः सुरैः॥ १०.५८ ॥

समाधिमगमन्सर्वेऽप्येकाग्रमनसस्तदा॥
तत्त्वज्ञानेन निर्हृत्य कामक्रोदादिकान्द्विजाः॥ १०.५९ ॥

तदात्मनि स्थितं लिंगमपश्यन्वि बुधादयः॥
विष्णुं पुरस्कृत्य तदा तुष्टुवुः परमार्थतः॥ १०.६० ॥

आत्मना परमात्मानं योगिनः पर्युपासते॥ १०.६१ ॥

लिंगमेव परं ज्ञानं लिंगमेव परं तपः॥
लिंगमेव परो धर्मो लिंगमेव परा गतिः॥
तस्माल्लिंगात्परतरं यच्च किंचिन्न विद्यते॥ १०.६२ ॥

एवं ब्रुवंतो हि तदा सुरासुराः सलोकपाला ऋषिभिश्च साकम्॥
विष्णुं पुरस्कृत्य तमालवर्णं शंभुं शरण्यं शरणं प्रपन्नाः॥ १०.६३ ॥

त्राहित्राहि महादेव कृपालो परमेश्वर॥
पुरा त्राता यथा सर्वे तथात्वं त्रातुमर्हसि॥ १०.६४ ॥

तद्देवदेव भवतश्चरणारविंदं सेवानुबंधमहिमानमनंतरूपम्॥
त्वदाश्रितं यत्परमानुकंपया नमोऽस्तु ते देववर प्रसीद॥ १०.६५ ॥

लिंगस्वरूपमध्यस्थो भगवान्भूतभावनः॥
सर्वैः सुरगणैः साकं बभाषेदं रमापतिः॥ १०.६६ ॥

त्वं लिंगरूपी भगवाञ्जगतामभयप्रदः॥
विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः॥ १०.६७ ॥

मृतास्त्राता गरात्सर्वे तस्मान्मृत्युंजय प्रभो॥
रक्षरक्ष महाकाल त्रिपुरांत नमोस्तु ते॥ १०.६८ ॥

विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः॥
प्रादुर्बभूव सांबोऽथ बोधयन्निव तान्सुरान्॥ १०.६९ ॥

हे विष्णो हे सुराः सर्व ऋषयः श्रूयतामिदम्॥
मन्यतेऽपि हि संसारे अनित्ये नित्यताकुलम्॥ १०.७० ॥

अविलोकयताऽऽत्मात्मना विबुधादयः॥
किं यज्ञैः किं तपोभिश्च किमुद्योगेन कर्मणाम्॥ १०.७१ ॥

एकत्वेन पृथक्त्वेन किंचिन्नैव प्रयोजनम्॥
यस्माद्भवद्भिर्मिलितैः कृतं यत्कर्म दुष्करम्॥ १०.७२ ॥

क्षीराब्धेर्मथनं तत्तु अमृतार्थं कथं कृतम्॥
मृत्युं जयं निराकृत्य अवज्ञाय च मां सदा॥ १०.७३ ॥

तस्मात्सर्वे मृत्युमुखं पतिता वै न संशयः॥
अस्माभिर्निर्मितो देवो गणेशः कार्यसिद्धये॥ १०.७४ ॥

न नमंति गणेशं च दुर्गां चैव तथाविधाम्॥
क्लेशभाजो भविष्यति नात्र कार्या विचारणा॥ १०.७५ ॥

यूयं सर्वे त्वधर्मिष्ठाः स्तब्धाः पंडितमानिनः॥
कार्याकार्यमविज्ञाय केवलं मानमोहिताः॥ १०.७६ ॥

तस्मात्कालमुखे सर्वे पतिता नात्र संशयः॥
सर्वे श्रुतिपरा यूयमिंद्राद्या देवतागणाः॥ १०.७७ ॥

प्ररोचनपराः सर्वे क्षुद्राश्चेंद्रादयो वृथा॥
नात्मानं च प्रपंचेन वेत्सि त्वं हि शचीपते॥ १०.७८ ॥

कृतः प्रयत्नो हि महानमृतार्थं त्वया शठ॥
अश्वमेधशतेनैव यद्राज्यं प्राप्तवानसि॥
अपि तच्च पराधीन तन्न जानासि दुर्मते॥ १०.७९ ॥

यैर्वदवाक्यैस्त्वं मूढ संस्तुतोऽसि तपस्विभिः॥
ते मूढास्तो षयंति त्वां तत्तद्रागपरायणाः॥ १०.८० ॥

विष्णो त्वं च पक्षपातान्न जानासि हिताहितम्॥
केचिदधतास्त्वया विष्णो रक्षिताश्चैव केचन॥ १०.८१ ॥

इच्छायुक्तस्त्वमत्रैव सदा बालकचेष्टितः॥
येऽन्ये च लोकपाः सर्वे तेषां वार्ता कुतस्त्विह॥ १०.८२ ॥

अन्यथा हि कृते ह्यर्थे अन्यथात्वं भविष्यति॥
कार्यसिद्धिर्भवेद्येन भवद्भिर्विस्मृतं च तत्॥ १०.८३ ॥

येनाद्य रक्षिताः सर्वे कालकूटमहाभयात्॥
येन नीलीकृतो विष्णुर्येन सर्वे पराजिताः॥ १०.८४ ॥

लोका भस्मीकृता येन तस्माद्येनापि रक्षिताः॥
तस्यार्च्चनाविधिः कार्यो गणेशस्य महात्मनः॥ १०.८५ ॥

कर्मारंभे तु विघ्नेशं ये नार्चंति गणाधिपम्॥
कार्यसिद्धिर्न तेषां वै भवेत्तु भवतां यथा॥ १०.८६ ॥

एतन्महेशस्य वचो निशम्य सुरासुराः किंनरचारणाश्च॥
पूजाविधानं परमार्थतोऽपि पप्रच्छुरेनं च तदा गिरीशम्॥ १०.८७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमंथनाख्याने शिवकृतविषभक्षणवृत्तान्तवर्णनंनाम दशमोऽध्यायः॥ १० ॥ छ ॥