सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः १७
वेदव्यासः
अध्यायः १८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५


॥लोमश उवाच॥
ततः सर्वे सुरगणा दृष्ट्वा तं विलयं गतम्॥
चिंतयंतः सुरगणाः कथं च विदधामहे॥ १७.१ ॥
सुरभिं चाह्वयित्वाथ तदोवाच शचीपतिः॥
कलेवरं दधीचस्य लिह्यास्त्वं वचनान्मम॥ १७.२ ॥
तथेति च वचोमत्वा तत्क्षणादेव लिह्य तत्॥
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम्॥ १७.३ ॥
जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः॥
तस्य वंशोद्भवं वज्रं शिरो ब्रह्मशिरस्तथा॥ १७.४ ॥
अन्यानि चास्थीनि बहूनि तस्य ऋषेस्तदानीं जगृहुः सुराश्च॥
तथा शिराजालमयांश्च पाशांश्चक्रुः सुरा वैरयुताश्च दैत्यान्॥ १७.५ ॥
शस्त्राणि कृत्वा ते सर्वे महाबलपराक्रमाः॥
ययुर्देवातस्त्वरायुक्ता वृत्रघातनतत्पराः॥ १७.६ ॥
ततः सुवर्च्चाश्च दधीचिपत्नी या प्रेषिता सा सुरकार्यसिद्धये॥
व्यलोकयत्तत्र समेत्य सर्वं मृतं पतिं देहमथो ददर्शतम्॥ १७.७ ॥
ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीं च चुकोप साध्वी॥
ददौ सती शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी॥ १७.८ ॥
अहो सुरा दुष्टतराश्च सर्वे सर्वे ह्यशक्ताश्च तथैव लुब्धाः॥
तस्माच्च सर्वेऽप्रजसो भवंतु दिवौकसोऽद्यप्रभृतित्युवाच सा॥ १७.९ ॥
एव शापं ददौ तेषां सुराणां सा तपस्विनी॥
प्रवीश्याश्वत्थमूले सा स्वोदरं दारयत्तदा॥ १७.१० ॥
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः॥
साक्षाद्रुद्रावतारोऽसौ पिप्लादो महाप्रभः॥ १७.११ ॥
प्रहस्य जननी गर्भमुवाच रुषितेक्षणा॥
सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ॥ १७.१२ ॥
अश्वत्थस्य महाभाग सर्वेषां सफलो भवेः॥
तथैव भाषमाणा सा सुवर्चा तनयं प्रति॥
पतिमन्वगमत्साध्वी परमेण समाधिना॥ १७.१३ ॥
एवं दधीचपत्नी सा पतिना स्वर्गमाव्रजत्॥ १७.१४ ॥
ते देवाः कृतशस्त्रास्त्रा दैत्यान्प्रति समुत्सुकाः॥
आजग्मुश्चेंद्रमुख्यास्ते महाबलपराक्रमाः॥ १७.१५ ॥
गुरुं पुरस्कृत्य तदाज्ञया ते गणाः सुराणां बहवस्तदानीम्॥
भुवं समागत्य च मध्यदेशमूचुश्च सर्वे परमास्त्रयुक्ताः॥ १७.१६ ॥
समागतानुपसृत्य देवांश्चेंद्रपुरोगमान्॥
ययौ वृत्रो महादैत्यो दैत्यवृन्दसमावृतः॥ १७.१७ ॥
यथा मेरोश्च शिखरं परिपूर्णं प्रदृश्यते॥
तथा सोऽपि महातेजा विश्वकर्म्मसुतो महान्॥ १७.१८ ॥
तेन दृष्टो महेन्द्रश्च महेंद्रेण महासुरः॥
देवानां दानवानां च दर्शनं च महाद्भुतम्॥ १७.१९ ॥
तदा ते बद्धवैराश्च देवदैत्याः परस्परम्॥
अन्योन्यमभिसंरब्धा जगर्जुः परमाद्भुतम्॥ १७.२० ॥
वादित्राणि च भीमानि वाद्यमानानि सर्वशः॥
श्रूयंतेऽत्र गभीराणि सुरा सुरसमागमे॥ १७.२१ ॥
वाद्यमानेषु तूर्येषु ते सर्वे त्वरयान्विताः॥
अनेकैः शस्त्रसंघातैर्जघ्नुरन्योन्यमोजसा॥ १७.२२ ॥
तदा देवासुरे युद्धे त्रैलोक्यं सचराचरम्॥
भयेन महता युक्तं बभूव गतचेतनम्॥ १७.२३ ॥
छेदिताः स्फोटिताश्चैव केचिच्छस्त्रैर्द्विधा कृताः॥
नाराचैश्च तथा केचिच्छस्त्रास्त्रैः शकलीकृताः॥ १७.२४ ॥
भल्लैश्चेरुर्हताः केचिद्व्यंगभूता दिवौकसः॥
रश्मयो मेघसंभूताः प्रकाशंते नभस्स्विव॥ १७.२५ ॥
शिरांसि पतितान्येव बहूनिच नभस्तलात्॥
नक्षत्राणीव च यथा महाप्रलयसंकुलम्॥ १७.२६ ॥
प्रवर्तितं मध्यदेशे सर्वबूतक्षयावहम्॥
शक्रेण सह संग्रामं चकार नमुचिस्तदा॥ १७.२७ ॥
वज्रेण जघ्ने तरसा नमुचिं देवराट् स्वयम्॥
न रोमैकं च त्रुचितं तमुचेरसुरस्य च॥ १७.२८ ॥
वज्रेणापि तदा सर्वे विस्मयं परमं गताः॥
असुराश्च सुराश्चैव महेंद्रो व्रीडितस्तदा॥ १७.२९ ॥
गदया नमुचिं जघ्ने गदा सापि विचूर्णिता॥
नमुचेरंगलग्नापि पपात वसुधातले॥ १७.३० ॥
तथा शूलेन महता तं जघान पुरंदरः॥
तच्छूलं शतधा चूर्णं नमुचेरंगमाश्रितम्॥ १७.३१ ॥
एवं तं वविधैः शस्त्रैराजघान सुरारिहा॥
प्रहस्य मानो नमुचिर्न जघान पुरंदरम्॥ १७.३२ ॥
तूष्णींभूतस्तदा चेंद्रश्चिंतया परया युतः॥
किं कार्यं किमकार्यं वा इतींद्रो नाविदत्तदा॥ १७.३३ ॥
एतस्मिन्नंतरे तत्र महायुद्धे महाभये॥
जाता नभोगता वाणी इंद्रसुद्दिश्य सत्वरम्॥ १७.३४ ॥
जह्येनमद्याशु महेंद्र दैत्यं दिवौकसां घोरतरं भयावहम्॥
फेनेन चैवाशु महासुरेन्द्रमपां समीपेन दुरासदेन॥ १७.३५ ॥
अन्येन शस्त्रेण च आहतोऽसौ वध्यः कदाचिन्न भवत्ययं तु॥
तस्माच्च देवेश वधार्थमस्य कुरु प्रयत्नं नमुचेर्दुरात्मनः॥ १७.३६ ॥
निशम्य वाचं परमार्थयुक्तां दैवीं सदानंदकरीं शुभावहाम्॥
चक्रे परं यत्नवतां वरिष्ठो गत्वोदधेः पारमनंतवीर्यः॥ १७.३७ ॥
तत्रागतं समीक्ष्याथ नमुचिः क्रोधमूर्छितः॥
हत्वा शूलेन देवेंद्रं प्रहसन्निदमब्रवीत्॥ १७.३८ ॥
समुद्रस्य तटः कस्मात्सेवितः सुरसत्तम॥
विहाय रणभूमिं च त्यक्तशस्त्रोऽभवद्भवान्॥ १७.३९ ॥
त्वदीयेनैव वज्रेण किं कृतं मम दुर्मते॥ १७.४० ॥
तथान्यानि च शस्त्राणि अस्त्राणि सुबहूनि च॥
गृहीतानि पुरा मंद हंतुं मामेव चाधुना॥ १७.४१ ॥
किं करिष्यसि मां हंतुं युद्धाय समुपस्थितः॥
केन शस्त्रेण रे मंद योद्धुमिच्छसि संयुगे॥ १७.४२ ॥
त्वां गातयामि चाद्यैव यदि तिष्ठसि संयुगे॥
नो चेद्गच्छ मया मुक्तश्चिरं जीव सुखी भव॥ १७.४३ ॥
एवं स गर्वितं तस्य वाक्यमाहवशोभिनः॥
श्रुत्वा महेंद्रोऽपि रुषा जगृहे फेनमद्भुतम्॥ १७.४४ ॥
फेनं करस्थं दृष्ट्वा तु असुरा जहसुस्तदा॥ १७.४५ ॥
क्षयं गतानि चास्त्राणि पेनेनैव पुरंदरः॥
हंतुमिच्छति मामद्य शतक्रतुरुदारधीः॥ १७.४६ ॥
एवं प्रहस्य नमुचिरज्ञाय पुरंदरम्॥
सावज्ञं पुरतस्तस्थौ नमुचिर्दैत्यपुंगवः॥ १७.४७ ॥
तदैव तं स फेनेन शीघ्रमिंद्रो जघान ह॥ १७.४८ ॥
हते तु नमुचौ देवाः सर्वे चैव मुदान्विताः॥
साधुसाध्विति शब्देन ऋषयश्चाभ्यपूजयन्॥ १७.४९ ॥
तदा सर्वे जयं प्राप्ता हत्वा नमुचिमाहवे॥
दैत्यास्ते कोपसंरब्धा योद्धुकामा मुदान्विताः॥ १७.५० ॥
पुनः प्रववृते युद्धं देवानां दानवैः सह॥
शस्त्रास्त्रैर्बहुधा मुक्तैः परस्परवधैषिबिः॥ १७.५१ ॥
यदा ते ह्यसुरा देवैः पातिताश्च पुनःपुनः॥
तदा वृत्रो महातेजाः शतक्रतुमुपाव्रजत्॥ १७.५२ ॥
वृत्रं दृष्ट्वा तदा सर्वे ससुरासुरमानवाः॥
भयेन महताविष्टाः पतिता भुवि शेरते॥ १७.५३ ॥
एवं भीतेषु सर्वेषु सुरसिद्धेषु वै तदा॥
इंद्रश्चैरावणारूढो वज्रपाणिः प्रतापवान्॥ १७.५४ ॥
छत्रेण ध्रियमाणेन चामरेण विराजितः॥
तदा सर्वैः समेतो हि लोकपालैः प्रतापितः॥ १७.५५ ॥
वृत्रं विलोक्य ते सर्वे लोकपाला महेश्वराः॥
भयभीताश्च ते सर्वे शिवं शरणमन्वयुः॥ १७.५६ ॥
मनसाचिंतयन्सर्वे शंकरं लोकशंकरम्॥
लिंगं संपूज्य विधिवन्महेंद्रो जयकामुकः॥ १७.५७ ॥
गुरुणा विदितः सद्यो विश्वासेन परेण हि॥
उवाच च तदा शक्रं बृहस्पतिरुदारधीः॥ १७.५८ ॥
॥बृहस्पतिरुवाच॥
कार्तिके शुक्लपक्षे तु मंदवारे त्रयोदशी॥
समग्रा यदि लभ्येत सर्वप्राप्तयै न संशयः॥ १७.५९ ॥
तस्यां प्रदोषसमये लिंगरूपी सदाशिवः॥
पूजनीयो हि देवेंद्र सर्वकामार्थसिद्धये॥ १७.६० ॥
स्नात्वा मध्याह्नसमये तिलामलकसंयुतम्॥
शिवस्य कुर्याद्गंधपुष्पफलादिभिः॥ १७.६१ ॥
पश्चात्प्रदोषवेलायां स्थावरं लिंगमर्च्चयेत्॥
स्वयंभु स्थापितं चापि पौरुषेयमपौरुषम्॥ १७.६२ ॥
जने वा विजने वापि अरण्ये वा तपोवने॥
तल्लिंगमर्च्चयेद्भक्त्या प्रदोषे तु विशेषतः॥ १७.६३ ॥
ग्रामद्बहिः स्थितं लिंगं ग्रामाच्छतगुणं फलम्॥
ब्राह्मच्छतगुणं पुण्यमरण्ये लिंगमद्भुतम्॥ १७.६४ ॥
आरण्याच्छतगुणं पुण्यमर्चितं पार्वतं यथा॥
पार्वताच्चैव लिंगाच्च फलं चायुतसंज्ञितम्॥
तपोवनाश्रितं लिंगं पूजितं वा महाफलम्॥ १७.६५ ॥
तस्मादेतद्विभागेन शिवपूजनार्चनं बुधैः॥
कर्त्वयं निपुणत्वेन तीर्थस्नानादिकं तथा॥ १७.६६ ॥
पंचपिंडान्समुद्धृत्य स्नानमात्रेण शोभनम्॥
कूपे स्नानं प्रकुर्वीत उद्धृतेन विसेषतः॥ १७.६७ ॥
तडागे दश पिंडांश्च उद्धृत्य स्नानमाचरेत्॥
नदीस्नानं विश्ष्टं च महानद्यां विशेषतः॥ १७.६८ ॥
सर्वेषामपि तीर्थानां गंगास्नानं विशिष्यते॥
देवखाते च तत्तुल्यं प्रशस्तं स्नानमाचरेत्॥ १७.६९ ॥
प्रदीपानां सहस्रेण दीपनीयः सदाशिवः॥
तथा दीपशतेनापि द्वात्रिंशद्दीपमालया॥ १७.७० ॥
घृतेन दीपयेद्दीपाञ्छिवस्य परितुष्टये॥
तथा फलैश्च दीपैश्च नैवेद्यैर्गंधधूपकैः॥ १७.७१ ॥
उपचारैः षोडशभिर्लिंगरूपी सदा शिवः॥
पूज्यः प्रदोषवेलायां नृभिः सर्वार्थसिद्धये॥ १७.७२ ॥
प्रदक्षिणं प्रकुर्वीत शतमष्टोत्तरं तथा॥
नमस्कारान्प्रकुर्वीत तावत्संख्यान्प्रयत्नतः॥ १७.७३ ॥
प्रदक्षिणनमस्कारैः पूजनीयः सदाशिवः॥
नाम्नां शतेन रुद्रोऽसौ स्तवनीयो यताविधि॥ १७.७४ ॥
नमो रुद्राय भीमाय नीलकण्ठाय वेधसे॥
कपर्द्धिने सुरेशाय व्योमकेशाय वै नमः॥ १७.७५ ॥
वृषध्वजाय सोमाय नीलकण्ठाय वै नमः॥
दिगंबराय भर्गाय उमाकांतकपर्द्दिने॥ १७.७६ ॥
तपोमयाय व्याप्ताय शिपिविष्टाय वै नमः॥
व्यालप्रियाय व्यालाय व्यालानां पतये नमः॥ १७.७७ ॥
महीधराय व्याघ्राय पशूनां पतये नमः॥
त्रिपुरांतकसिंहाय शार्दूलोग्ररवाय च॥ १७.७८ ॥
मीनाय मीननाथाय सिद्धाय परमेष्ठिने॥
कामांतकाय बुद्धाय बुद्धीनां पतये नमः॥ १७.७९ ॥
कपोताय विशिष्टाय शिष्टाय परमात्मने॥
वेदाय वेदबीजाय देवगुह्याय वै नमः॥ १७.८० ॥
दीर्घाय दीर्घदीर्घाय दीर्घार्घाय महाय च॥
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः॥ १७.८१ ॥
गजासुरविनाशाय ह्यंधकासुरभेदिने॥
नीललोहितशुक्लाय चण्डमुण्डप्रियाय च॥ १७.८२ ॥
भक्तिप्रियाय देवाय ज्ञानज्ञानाव्ययाय च॥
महेशाय नमस्तुभ्यं महादेवहराय च॥ १७.८३ ॥
त्रिनेत्राय त्रिवेदाय वेदांगाय नमोनमः॥
अर्थाय अर्थरूपाय परमार्थाय वै नमः॥ १७.८४ ॥
विश्वरूपाय विश्वाय विश्वनाताय वै नमः॥
शंकराय च कालाय कालावयवरूपिणे॥ १७.८५ ॥
अरूपाय च सूक्ष्माय सूक्ष्मसूक्ष्माय वै नमः॥
श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे॥ १७.८६ ॥
शशांकशेखरायैव रुद्रविश्वाश्रयाय च॥
दुर्गाय दुर्गसाराय दुर्गावयवसाक्षिणे॥ १७.८७ ॥
लिंगरूपाय लिंगाय लिंगानां पतये नमः॥
प्रणवरूपाय प्रणवार्थाय वै नमः॥ १७.८८ ॥
नमोनमः कारणकारणाय ते मृत्युंजयायात्मभवस्वरूपिणे॥
त्रियंबकायासितकंठ भर्ग गौरिपते सकलमंगलहेतवे नमः॥ १७.८९ ॥
॥बृहस्पतिरुवाच॥
नाम्नां शतं महेशस्य उच्चार्यं व्रतिना तदा॥
प्रदक्षिणनमस्कारैरेतत्संख्यैः प्रयत्नतः॥
कार्यं प्रदोषसमये तुष्ट्यर्थं संकरस्य च॥ १७.९० ॥
एवं व्रतं समुद्दिष्टं तव शक्र महामते॥
शीघ्रं कुरु महाभाग पश्चाद्युद्धं कुरु प्रभो॥ १७.९१ ॥
शंभोः प्रसादात्सर्वं ते भविष्यति जयादिकम्॥ १७.९२ ॥
वृत्रो ह्ययं महातेजा दैतेयस्तपसा पुरा॥
शिवं प्रसादयामास पर्वते गंधमादने॥ १७.९३ ॥
नाम्ना चित्ररथो राजा वनं चित्ररथस्य तत्॥
एतज्जानीहि भो इन्द्र शिवपुर्याः समीपतः॥ १७.९४ ॥
यस्मिन्वने महाभाग न संति च षडूर्मयः॥
तस्माच्चैत्ररथं नाम वनं परममंगलम्॥
तस्य राज्ञः शिवेनैव दत्तं यानं महाद्भुतम्॥ १७.९५ ॥
कामगं किंकिणीयुक्तं सिद्धचारणसेवितम्॥
गंधर्वैरप्सरोयक्षैः किंनरैरुपशोभितम्॥ १७.९६ ॥
ततस्तेनैव यानेन पृथिवीं पर्यटन्पुरा॥
तथा गिरीशमुख्यांश्च द्वीपांश्च विविधांस्तथा॥ १७.९७ ॥
एकदा पर्यटन्राजा नाम्ना चित्ररथो महान्॥
कैलासमागतस्तत्र स ददर्श पराद्भुतम्॥ १७.९८ ॥
सभातलं महेशस्य गणैश्चैव विराजितम्॥
अर्द्धागलग्नया देव्या शोभितं च महेश्वरम्॥ १७.९९ ॥
निरीक्ष्य देव्या सहितं सदाशिवं देव्यान्वितं वाक्यमिदं बभाषे॥ १७.१०० ॥
वयं च शंभो विषयान्विताश्च मंत्र्यादयः स्त्रीजिताश्चापि चान्ये॥
न लोकमध्ये वयमेव चाज्ञाः स्त्रीसेवनं लज्जया नैव कुर्मः॥ १७.१०१ ॥
एतद्वाक्यं निशम्याथ महेशः प्रहसन्निव॥
उवाच न्यायसंयुक्तं सर्वेषामपि श्रृण्वताम्॥ १७.१०२ ॥
भयं लोकापवादाच्च सर्वेषामपि नान्यथा॥
ग्रासितं कालकूटं च सर्वेषामपि दुर्जरम्॥ १७.१०३ ॥
तथापि उपहासो मे कृतो राज्ञा हि दुर्जरः॥
तं चित्ररथमाहूय गिरिजा वाक्यमब्रवीत्॥ १७.१०४ ॥
॥गीरिजोवाच॥
रे दुरात्मन्कथं त्वज्ञ शंकरश्चोपहासितः॥
मया सहैव मंदात्मन्द्रक्ष्यसे कर्मणः फलम्॥ १७.१०५ ॥
साधूनां समचित्तानामुपहासं करोति यः॥
देवो वाप्यथ वा मर्त्यः स विज्ञेयोऽधमाधमः॥ १७.१०६ ॥
एते मुनींद्राश्च महानुभावास्तथा ह्यमी ऋषयो वेदगर्भाः॥
तथैव सर्वे सनकादयो ह्यमी अज्ञाश्च सर्वे शिवमर्चयंते?॥ १७.१०७ ॥
रे मूढ सर्वेषु जनेष्वभिज्ञस्त्वमेव एवाद्य न चापरे जनाः॥
तस्मादभिज्ञं हि करोमि दैत्यं देवैर्द्विजैश्चापि बहिष्कृतं त्वाम्॥ १७.१०८ ॥
एवं शप्तस्तया देव्या भवान्या राजसत्तमः॥
राजा चित्ररथः सद्यः पपात सहसा दिवः॥ १७.१०९ ॥
आसुरीं योनिमासाद्य वृत्रोनाम्नाऽभवत्तदा॥
तपसा परमेणैव त्वष्ट्रा संयोजितः क्रमात्॥ १७.११० ॥
तपसा तेन महता अजेयो वृत्र उच्यत॥
तस्माच्छंभुं समभ्यर्च्य प्रदोषे विधिनाऽधुना॥ १७.१११ ॥
जहि वृत्रं महादैत्यं देवानां कार्यसिद्धये॥
गुरोस्तद्वचनं श्रुत्वा उवाचाथ शतक्रतुः॥
सोद्यापनविधिं ब्रूहि प्रदोषस्य च मेऽधुना॥ १७.११२ ॥
॥बृहस्पतिरुवाच॥
कार्तिके मासि संप्राप्ते मंदवारे त्रयोदशी॥
संपूर्तिस्तु भवेत्तत्र संपूर्णव्रतसिद्धये॥ १७.११३ ॥
वृषभो राजतः कार्यः पृष्ठे तस्य सुपीठकम्॥
तस्योपरिन्यसेद्देवमुमाकांतं त्रिलोचनम्॥ १७.११४ ॥
पंचवक्त्रं दशभुजमर्द्धांगे गिरिजां सतीम्॥
एवं चोमामहेशं च सौवर्णं कारयेद्बुधः॥ १७.११५ ॥
सवृषं ताम्रपत्रे च वस्त्रेण परिगुंठिते॥
स्थापयित्वोमया सार्द्धं नानाबोगसमन्वितम्॥ १७.११६ ॥
विधिना जागरं कुर्याद्रात्रौ श्रद्धासमन्वितः॥
पंचामृतेन स्नपनं कार्यमादौ प्रयत्नतः॥ १७.११७ ॥
गोक्षीरस्नानं देवेश गोक्षीरेण मया कृतम्॥
स्नपनं देवदेवेश गृहाण परमेश्वर॥ १७.११८ ॥
दध्ना चैव मया देव स्नपनं क्रियतेऽधुना॥
गृहाम च मया दत्तं सुप्रसन्नो भवाद्य वै॥ १७.११९ ॥
सर्पिषा च मया देव स्नपनं क्रियतेऽधुना॥
गृहाण श्रद्धया दत्तं तव प्रीत्यर्थमेव च॥ १७.१२० ॥
इदं मधु मया दत्तं तव प्रीत्यर्थमेव च॥
गृहाम त्वं हि देवेश मम शांतिप्रदो भव॥ १७.१२१ ॥
सितया देवदेवेश स्नपनं क्रियतेऽधुना॥
गृहाण श्रद्धया दत्तां सुप्रसन्नो भव प्रभो॥ १७.१२२ ॥
एवं पंचामृतेनैव स्नपनीयो वृषध्वजः॥
पश्चादर्घ्यं प्रदातव्यं ताम्रपात्रेण धीमता॥
अनेनैव च मंत्रेण उमाकांतस्य तृष्टये॥ १७.१२३ ॥
अर्घ्योऽसि त्वमुमाकांत अर्घेणानेन वै प्रभो॥
गृहाण त्वं मया दत्तं प्रसन्नो भव शंकर॥ १७.१२४ ॥
मया दत्तं च ते पाद्यं पुष्पगंधसमन्वितम्॥
गृहाण देवदेवेश प्रसन्नो वरदो भव॥ १७.१२५ ॥
विष्टरं विष्टरेणैव मया दत्तं च वै प्रभो॥
शांत्यरथं तव देवेश वरदो भव मे सदा॥ १७.१२६ ॥
आचमनीयं मया दत्तं तव विश्वेश्वर प्रभो॥
गृहाण परमेशान तुष्टो भव ममाद्य वै॥ १७.१२७ ॥
ब्रह्मग्रन्थिसमायुक्तं ब्रह्मकर्मप्रवर्तकम्॥
यज्ञोपवीतं सौवर्णं मया दत्तं तव प्रभो॥ १७.१२८ ॥
सुगंधं चंदनं देव मया दत्तं च वै प्रभो॥
भक्त्या पर मया शंभो सुगंधं कुरु मां भव॥ १७.१२९ ॥
दीपं हि परमं शंभो घृतप्रज्वलितं मया॥
दत्तं गृहाण देवेश मम ज्ञानप्रदो भव॥ १७.१३० ॥
दीपं विशिष्टं परमं सर्वौषधिविजृंभितम्॥
गृहाण परमेशान मम शांत्यर्थमेव च॥ १७.१३१ ॥
दीपावलिं मया दत्तां कृहाण परमेश्वर॥
आरार्तिकप्रदानेन मम तेजः प्रदो भव॥ १७.१३२ ॥
फलदीपादिनैवेद्यतांबूलादिक्रमेण च॥
पूजनीयो विधानज्ञैस्तस्यां रात्रौ प्रयत्नतः॥ १७.१३३ ॥
पश्चाज्जागरणं कार्यं गृहे वा देवतालये॥
वितानमंडपं कृत्वा नानाश्चर्यसमन्वितम्॥
गीतवादित्रनृत्येन अर्चनीयः सदाशिवः॥ १७.१३४ ॥
अनेनैव विधानेन प्रदोषोद्यापने विधिः॥
कार्ये विधिमता शक्र सर्वकार्यार्थसिद्धये॥ १७.१३५ ॥
गुरुणा कथितं सर्वं तच्चकार शतक्रतुः॥
तेनैव च सहायेन इंद्रो युद्धपरायणः॥ १७.१३६ ॥
वृत्रं प्रति सुरैः सार्द्धं युयुधे च शतक्रतुः॥
तुमुलं युद्धमभवद्देवानां दानावैः सह॥ १७.१३७ ॥
तस्मिन्सुतुमुले गाढे देवदैत्यक्षयावहे॥
द्वंद्वयुद्धं सुतुमुलमतिवेलं भयावहम्॥ १७.१३८ ॥
व्योमो यमेन युयुधे ह्यग्निना तीक्ष्णकोपनः॥
वरुणेन महादंष्ट्रो वायुना च महाबलः॥ १७.१३९ ॥
द्वन्द्वयुद्ध रताः सर्वे अन्योन्यबलकांक्षिणः॥ १७.१४० ॥
तथैव ते देववरा महाभुजाः संग्रामशूरा जयिनस्तदाऽभवन्॥
पराजयं दैत्यवाराश्च सर्वे प्राप्तास्तदानीं परमं समंतात्॥ १७.१४१ ॥
दृष्ट्वा सुरैर्दैत्यवरान्पराजितान्पलायमानानथ कान्दिशीकान्॥
तदैव वृत्रः परमेण मन्युना महाबलो वाक्य मिदं बभाषे॥ १७.१४२ ॥
॥वृत्र उवाच॥
हे दैत्याः परमार्ताश्च कस्माद्यूयं भयातुराः॥
पलायनपराः सर्वे विसृज्य रणमद्भुतम्॥ १७.१४३ ॥
स्वंस्वं पराक्रमं वीरा युद्धाय कृतनिश्चयाः॥
दर्शयध्वं सुरगणास्सूदयध्वं महाबलाः॥ १७.१४४ ॥
गदाभिः पट्टिशैः खड्गैः शक्तितोमरमुद्गरैः॥
असिभिर्भि दिपालैश्च पाशतोमरमुष्टिभिः॥ १७.१४५ ॥
तदा देवाश्च युयुधुर्दधीचास्थिसमुद्भवैः॥
शस्त्रैरस्त्रैश्च परमैरसुरान्समदारयन्॥ १७.१४६ ॥
पुनर्दैत्या हता देवैः प्राप्तास्तेपि पराजयम्॥
पुनश्च तेन वृत्रेण नोद्यमानाः सुरान्प्रति॥ १७.१४७ ॥
यदा हि ते दैत्यवराः सुरेशैर्निहन्यमानाश्च विदुद्रुवुर्दिशः॥
केचिद्दृष्ट्वा दानवास्ते तदानीं भीतित्रस्ताः क्लीबरूपाः क्रमेणा॥ १७.१४८ ॥
वृत्रेण कोपिना चैवं धिक्कृता दैत्यपुंगवाः॥
हे पुलोमन्महाभाग वृषपर्वन्नमोस्तु ते॥ १७.१४९ ॥
हे धूम्राक्ष महाकाल महादैत्य वृकासुर॥
स्थूलाक्ष हे महादैत्य स्थूलदंष्ट्र नमोस्तु ते॥ १७.१५० ॥
स्वर्गद्वारं विहायैव क्षत्रियाणां मनस्विनाम्॥
पलायध्वे किमर्थं वा संग्रामाङ्गणमुत्तमम्॥ १७.१५१ ॥
संगरे मरणं येषां ते यांति परमं पदम्॥
यत्र तत्र च लिप्सेत संग्रामे मरणं बुधः॥ १७.१५२ ॥
त्यजन्ति संगरं ये वै ते यांति निरयं ध्रुवम्॥ १७.१५३ ॥
ये ब्राह्मणार्थे भृत्यार्थे स्वार्थे वै शस्त्रपाणयः॥
संग्रामं ये प्रकुर्वंति महापातकिनो नराः॥ १७.१५४ ॥
शस्त्रघातहता ये वै मृता वा संगरे तथा॥
ते यांति परमं स्थानं नात्र कार्या विचारणा॥ १७.१५५ ॥
शस्त्रैर्विच्छिन्नदेहा ये गवार्थे स्वामिकारणात्॥
रणे मृताः क्षता ये वै ते यांति परमां गतिम्॥ १७.१५६ ॥
तस्माद्रणेऽपि ये शूराः पापिनो निहताः पुरः॥
प्राप्नुवंति परं स्थानं दुर्लभं ज्ञानिनामपि॥ १७.१५७ ॥
अथवा तीर्थगमनं वेदाध्ययनमेव च॥
देवतार्चनयज्ञादिश्रेयांसि विविधानि च॥ १७.१५८ ॥
ऐकपद्येन तान्येव कलां नार्हंति षोडशीम्॥
संग्रामे पतितानां च सर्वशास्त्रेष्वयं विधिः॥ १७.१५९ ॥
तस्माद्युद्धावदानं च कर्तव्यमविशंकितैः॥
भवद्भिर्नान्यथा कार्यं देववाक्यप्रमाणतः॥ १७.१६० ॥
यूयं सर्वे शौरवृत्त्या समेताः कुलेन शीलेन महानुभावाः॥
पदानि तान्येव पलायमाना गच्छंत्यशूरा रणमंडलाच्च॥ १७.१६१ ॥
त एव सर्वे खलु पापलोकान्गच्छंति नूनं वचनात्स्मृतेश्च॥ १७.१६२ ॥
ये पापिष्ठास्त्वधर्म्मस्था ब्रह्मघ्ना गुरुतल्पगाः॥
नरकं यांति ते पापं तथैव रणविच्युताः॥ १७.१६३ ॥
तस्माद्भवद्भिर्योद्धव्यं स्वामिकार्यभरक्षमैः॥
एवमुक्तास्तदा तेन वृत्रेणापि महात्मना॥ १७.१६४ ॥
चक्रुस्ते वचंनं तस्य असुराश्च सुरान्प्रति॥
चक्रुः सुतुमुलं युद्धं सर्वलोकभयंकरम्॥ १७.१६५ ॥
तस्मिन्प्रवृत्ते तुमुले विगाढे वृत्रो महादैत्यपतिः स एकः॥
उवाच रोषेण महाद्भुतेन शतक्रतुं देववरैः समेतम्॥ १७.१६६ ॥
॥वृत्र उवाच॥
श्रृणु वाक्यं मया चोक्तं धर्म्मार्थसहितं हितम्॥
त्वं देवानां पतिर्भूत्वा न जानासि हिताहितम्॥ १७.१६७ ॥
किंबलार्थपरो भूत्वा विश्वरूपो हतस्त्वया॥
प्राप्तमद्यैव भो इंद्र तस्येदं कर्म्मणः फलम्॥ १७.१६८ ॥
ये दीर्घदर्शिनो मंदा मूढा धर्मबहिष्कृताः॥
अकल्पाः कार्यसिद्ध्यर्थं यत्कुर्वंति च निष्फलम्॥
तत्सर्वं विद्धि देवेंद्र मनसा संप्रधार्यताम्॥ १७.१६९ ॥
तस्माद्धर्म्मपरो भूत्वा युध्यस्व गतकल्मषः॥
भ्रातृहा त्वं ममैवेंद्र तस्मात्त्वा घातयाम्यहम्॥ १७.१७० ॥
मा प्रयाहि स्थिरो भूत्वा देवैश्च परिवारितः॥
एव मुक्तस्तु वृत्रेण शक्रोऽतीव रुषान्वितः॥
ऐरावतं समारुह्य ययौ वृत्रजिघांसया॥ १७.१७१ ॥
इंद्रमायांतमालोक्य वृत्रो बलवतां वरः॥
उवाच प्रहसन्वाक्यं सर्वेषां श्रृण्वतामपि॥ १७.१७२ ॥
आदौ मां प्रहरस्वेति तस्मात्त्वां घातयाम्यहम्॥ १७.१७३ ॥
इत्येवमुक्तो देवेंद्रो जघान गदया भृशम्॥
वृत्रं बलवतां श्रेष्ठं जानुदेशे महाबलम्॥ १७.१७४ ॥
तामापतंतिं जग्राह करेणैकेन लीलया॥
तयैवैनं जघानाशु गदया त्रिदिवेश्वरम्॥ १७.१७५ ॥
सा गदा पातयामास सवज्रं च पुरंदरम्॥
पतितं शक्रमालोक्य वृत्र ऊचे सुरान्प्रति॥ १७.१७६ ॥
नयध्वं स्वामिनं देवाः स्वपुरीममरावतीम्॥ १७.१७७ ॥
एतच्छ्रुत्वा वचः सत्यं वृत्रस्य च महात्नः॥
तथा चक्रुः सुराः सर्वे रणाच्चेंद्रं समुत्सुकाः॥ १७.१७८ ॥
अपोवाह्य गजस्थं हि परिवार्य भयातुराः॥
सुराः सर्वे रणं हित्वा जग्मुस्ते त्रिदिवं प्रति॥ १७.१७९ ॥
ततो गतेषु देवेषु ननर्त च महासुरः॥
वृत्रो जहास च परं तेना पूर्यत दिक्तटम्॥ १७.१८० ॥
चचाल च मही सर्वा सशैलवनकानना॥
चुक्षुभे च तदा सर्वं जंगमं स्थावरं तथा॥ १७.१८१ ॥
श्रुत्वा प्रयातं देवेंद्रं ब्रह्मा लोकपितामहः॥
उपयातोऽथ देवेंद्र स्वकमण्डलुवारिणा॥
अस्पृशल्लब्धसंज्ञोऽभूत्तत्क्षणाच्च पुरंदरः॥ १७.१८२ ॥
दृष्ट्वा पितामहं चाग्रे व्रीडायुक्तोऽभवत्तदा॥
महेंद्रं त्रपया युक्तं ब्रह्मोवाच पितामहः॥ १७.१८३ ॥
॥ब्रह्मोवाच॥
वृत्रो हि तपसा युक्तो ब्रह्मचर्यव्रते स्थितः॥
त्वष्टुश्च तपसा युक्तो वृत्रश्चायं महायशाः॥
अजेयस्तपसोग्रेण तस्मात्त्वं तपसा जय॥ १७.१८४ ॥
वृत्रासुरो दैत्यपतिश्च शक्र ते समाधिना परमेणैव जय्यः॥
निशम्य वाक्यं परमेष्ठिनो हरिः सस्मार देवं वृषभध्वजं तदा॥ १७.१८५ ॥
स्तुत्या तदातं स्तवमानो महात्मा पुरंदरो गुरुणा नोदितो हि॥ १७.१८६ ॥
॥इंद्र उवाच॥
नमो भर्गाय देवाय देवानामतिदुर्गम॥
वरदो भव देवेश देवानां कार्यसिद्धये॥ १७.१८७ ॥
एवं स्तितिपरो भूत्वा शचीपतिरुदारधीः॥
स्वकार्यदक्षो मंदात्मा प्रपंचाभिरतः खलु॥ १७.१८८ ॥
प्रपंचाभिरता मूढाः शिवभक्तिपरा ह्यपि॥
न प्राप्नुवंति ते स्थानं परमीशस्यरागिणः॥ १७.१८९ ॥
निर्मला निरहंकारा ये जनाः पर्युपासते॥
मृडं ज्ञानप्रदं चेशं परेशं शंभुमेव च॥ १७.१९० ॥
तेषां परेषां वरद इहामुत्र च शंकरः॥
महेंद्रेण स्तुतः शर्वो रागिणा परमेण हि॥ १७.१९१ ॥
रागिणां हि सदा शंभुर्दुर्लभो नात्र संशयः॥
तस्माद्विरागिणां नित्यं सन्मुखो हि सदाशिवः॥ १७.१९२ ॥
राजा सुराणां हि महानुरागी स्वकर्मसंसिद्धिमहाप्रवीणः॥
तस्मात्सदा क्लेशपरः शचीपतिः स्वकामभावात्मपरो हि नित्यम्॥ १७.१९३ ॥
स्तवमानं तदा चेंद्रमब्रवीत्कार्यगौरवात्॥
विज्ञायाखिलदृग्द्रष्टा महेशो लिंगरूपवान्॥ १७.१९४ ॥
इंद्र गच्छ सुरैः सार्द्धं वृत्रं वै दानवं प्रति॥
तपसैव च साध्योऽयं रणे जेतुं शतक्रतो॥ १७.१९५ ॥
॥इंद्र उवाच॥
केनोपायेन साध्योऽयं वृत्रो दैत्यवरो महान्॥
त्चछीघ्रं कथ्यतां शंभो येन मे विजयो भवेत्॥ १७.१९६ ॥
॥रुद्र उवाच॥
रणे न शक्यते हंतुमपि देववरैरपि॥
तस्मात्त्वया हि कर्तव्यं कुत्सितं कर्म चाद्य वै॥ १७.१९७ ॥
अस्य शापः पुरा दत्तः पार्वत्या मम सन्निधौ॥
असौ चित्ररथो नाम्ना विख्यातो भुवनत्रये॥ १७.१९८ ॥
पर्यटन्सु विमानेन मया दत्तेन भास्वता॥
उपहासादिमां योनिं संप्राप्तो दत्यपुंगवः॥ १७.१९९ ॥
तस्मादजेयं जानीहि रणे रणविदां वर॥
एवमुक्तो महेंद्रोऽयं शंभुना योगिना भृशम्॥ १७.२०० ॥
तथेति मत्वा शक्रोऽसौ नियमं तमुपाददे॥ १७.२०१ ॥
रंध्रं प्रतीक्ष्य वृत्रस्य तत्समीपे सहस्रकम्॥
वत्सराणां महाभागा वसन्हंतुं मनो दधे॥ १७.२०२ ॥
अंतर्वेद्यां बहिः स्थित्वा वज्रपाणिरनुज्ञया॥
गुरोः पुरोधसश्चैव स्वकार्यमकरोद्भृशम्॥ १७.२०३ ॥
एकदा नर्म्मदायां वै वृत्रो दानवपुंगवः॥
दैत्यैः परिवृतः सर्वैः समायातो यदृच्छया॥ १७.२०४ ॥
इंद्रः पराभवं प्राप्तो नीतो देवैर्द्दिवं प्रति॥
अहमेव हतारिश्च नान्योस्ति सदृशो मम॥ १७.२०५ ॥
मन्यमानः सदा वृत्रः पौरुषेण समन्वितः॥
प्रदोषसमये विप्रा नर्मदायामुपस्थितः॥ १७.२०६ ॥
दृष्टश्चेंद्रेण सुमहानसुरैः परिवारितः॥
वृत्रो बलवतां श्रेष्ठः प्रदोषसमये तदा॥ १७.२०७ ॥
तस्मिन्प्रदेषे संयुक्ता मंदवारे त्रयोदशी॥
नोदितो गुरुणा चेंद्रः करे गृह्य बृहस्पतिः॥ १७.२०८ ॥
प्रदक्षिणानमस्कारैर्यथोक्तविधिना तदा॥
पूजितो लिंगरूपी च ओंकारो नर्मदातटे॥ १७.२०९ ॥
प्रदोषव्रतमाहात्म्याद्वज्रपाणिः प्रतापवान्॥
संजातस्तत्क्षणादेव प्रसादाच्छंकरस्गयच॥ १७.२१० ॥
वृत्रोपि तपसा युक्तः प्रदोषसमये महान्॥
निद्रासक्तोऽभवत्तत्र शुंडेन प्रति बोधितः॥ १७.२११ ॥
स्वापात्प्रदोषवेलायां तपसा चार्जितं फलम्॥
प्रनष्टं तत्क्षणादेव निःश्रीकत्वमुपागतः॥ १७.२१२ ॥
देव्याः शापाच्च संजातो वृत्रो भग्नमनोरथः॥ १७.२१३ ॥
संध्यापादो गतो यावद्धृत्र स्तीर्थमुपाविशत्॥
परीतो विविधैर्द्दैत्यैत्यैर्नानायुधसमन्वितैः॥ १७.२१४ ॥
तस्य तत्कर्मणश्छिद्रं छिद्रान्वेषी शचीपतिः॥
ज्ञात्वा गतः शनैर्हतुमात्मशत्रुं शतक्रतुः॥ १७.२१५ ॥
तावद्दैत्याः सुसंरब्धा भीमा भीमपराक्रमाः॥
उत्तस्थुर्युगपत्सर्वे दुःसहाश्च शतक्रतुम्॥ १७.२१६ ॥
ततस्तैरभवद्युद्धमतिप्रबलदंडिभिः॥
सर्वे देवाः सहायार्थं तदाऽऽजग्मुः शतक्रतोः॥ १७.२१७ ॥
तदा दैत्याश्च देवाश्च युयुधुस्ते तरस्विनः॥
रात्रौ युद्धं समाभवत्सुरासुरविमर्दनम्॥ १७.२१८ ॥
अनेकशस्त्रसंवीतं महारौद्रमवर्तत॥
एवं प्रवर्तमाने तु संग्रमे रौद्रदारुणे॥
तदा वृत्रोऽथ सन्नद्धो गृहीत्वा शूलमुल्बणम्॥ १७.२१९ ॥
इंद्र प्रमुखतो भूत्वा जगर्जातिविभीषणम्॥
तस्य नादप्रणादेन त्रासितं भुवनत्रयम्॥ १७.२२० ॥
ऐरावणं समारुह्य महेंद्रः शुशुभे तदा॥
ध्रियमाणेनच्छत्रेण चंद्रमंडलशोभिना॥ १७.२२१ ॥
चामरैर्वीज्यमानोऽथ बभाषे दैत्यपुंगवम्॥ १७.२२२ ॥
॥इंद्र उवाच॥
संग्रामं कुरु मे वृत्र बलेन महता वृतः॥
शूरस्त्वमसि शूराणां तपसा परमेण हि॥ १७.२२३ ॥
एवमुक्तस्तदा तेन वृत्रो वाक्यमुवाच ह॥
आदौ प्रहर मामिंद्रपश्चात्त्वां घातयाम्यहम्॥ १७.२२४ ॥
तथेति मत्वा तदतीव दुःसहं वज्रं तदानीं शतधारमेव॥
स मोक्तुकामो हि तदा पुरंदरो निवारितस्तेन महाप्रभेण॥
पुरोधसा बुद्धिमतां वरेण तथेति मत्वा स चकार चेंद्रः॥ १७.२२५ ॥
गदां प्रगृह्य देवेंद्रो वृत्रं विव्याध तां गदाम्॥
वारयामास वृत्रोसा वतिथिं कृपणो यथा॥ १७.२२६ ॥
व्यार्थां च स्वगदां दृष्ट्वा इंद्रश्चिंतामवाप ह॥ १७.२२७ ॥
तं चिंत्यमानं स तदा पुरंदरं वृत्रो बभाषे परिभर्त्समानः॥
पुराकृतं शक्र महाद्भुतं त्वया जुगुप्सितं कर्म्म च विस्मृतं किम्॥
येनैव जातोऽसि सहस्रनेत्रः शापान्महर्षेरथ गौतमस्य॥ १७.२२८ ॥
ये शूराश्चेंद्रियग्रामं वर्तंते हि नियम्य तु॥
ते जयं प्राप्नुवंतीह नेतरे हि भवादृशाः॥ १७.२२९ ॥
रणाजिरं महाघोरं पापिनां नात्र संशयः॥ १७.२३० ॥
एवं निर्भर्त्सयामास देवेंद्रं दैत्यपुंगवः॥
त्रिशूलं धूनयामास देवेंद्रो हि तडित्समम्॥ १७.२३१ ॥
तेन शूलेन महता वृत्रोऽद्भुतपराक्रमः॥
बभौ तीव्रेण तपसा यथा रुद्रो युगांतकृत्॥ १७.२३२ ॥
तथाभूतं समालक्ष्य देवराजः शतक्रतुः॥
अभ्युद्ययौ हंतुकामो वृत्रे दानवपुंगवम्॥ १७.२३३ ॥
तमायांतमभिप्रेक्ष्य हंतुकामं पुरंदरम्॥
जहास परमं तत्र शक्रस्य च भयावहम्॥
मुखं प्रसार्य सुमहदागतो हि पुरंदरम्॥ १७.२३४ ॥
ग्रस्तुकामो महातेजा दैत्यानामधिपस्तदा॥
आगत्य सहसा शक्रं ग्रासयित्वा सकुंजरम्॥ १७.२३५ ॥
सवज्रं सकिरीटं च ननर्त च जगर्ज्ज च॥
निमिषांतरमात्रेण ग्रसितोऽसौ पुरंदरः॥ १७.२३६ ॥
हाहाकारो महानासीद्देवानां तत्र पश्यताम्॥
भूकम्पो हि तदा ह्यसीदुल्कापातः सहस्रशः॥ १७.२३७ ॥
तिमिरेणावृतं सर्वं जगत्स्थावरजंगमम्॥
नर्तमानस्तदा वृत्रो बभूव परमद्युतिः॥ १७.२३८ ॥
विध्यमानास्तदा सर्वे देवा ब्रह्माण मागताः॥
शशंसुः सर्वमेवैतद्वृत्रासुरविचेष्टितम्॥ १७.२३९ ॥
तच्छ्रुत्वा भगवान्ब्रह्मा व्यथितोऽतीव विस्मितः॥
कथं जातं महेंद्रस्य व्यसनं परमाद्भुतम्॥ १७.२४० ॥
देवैः सह तदा ब्रह्मा सर्वलोकपितामहः॥
तुष्टाव गिरिशं देवं परमेण समाधिना॥ १७.२४१ ॥
॥ब्रह्मोवाच॥
ॐनमो लिंगरूपाय महादेवाय वै नमः॥
विश्वरूपाय देवाय विरुपाक्षाय वै नमः॥ १७.२४२ ॥
त्राहित्राहि त्रिलोकेश वृत्रग्रस्तं पुरंदरम्॥
तदा नभोगतावाणी सर्वेषामेव श्रृण्वताम्॥ १७.२४३ ॥
उवाच हितकामाय विधिं लिंगार्चने सती॥
प्रदोषव्रतयुक्तेन इंद्रेण विकृतं कृतम्॥ १७.२४४ ॥
निर्माल्यं पीठिकां चैव च्छायाप्रासादमेव च॥
प्रदक्षिणां कृतवता पीठिकालंघनं कृतम्॥ १७.२४५ ॥
लंघयंति च ये मूढास्ते वै दंड्या न संशयः॥
चंडस्य गणमुख्यस्य तस्मात्कुर्यात्प्रयत्नतः॥
प्रदक्षिणानमस्कारौ लिंगार्च्चनसमन्वितः॥ १७.२४६ ॥
श्रेयःप्राप्तयेकबुद्ध्या वै प्रयत्नाल्लिंगपूजनम्॥
कार्यं दीक्षा परैर्नित्यं सर्वपापोपशांतये॥ १७.२४७ ॥
आशरीरं च तद्वाक्यं श्रुत्वा ब्रह्मादयः सुराः॥
पप्रच्छुस्ते प्रांजलयो नभोवाणीं शुभावहाम्॥ १७.२४८ ॥
कथमर्चामहे लिंगं केनैव विधिना ततः॥
प्रातर्मध्याह्नसमये सायंकाले तथैव च॥ १७.२४९ ॥
कानि पुष्पाणि सायाह्ने मध्याह्ने च तथैव हि॥
प्रातः काले तु तान्येन कथयस्व यथातथम्॥ १७.२५० ॥
तदा नभोगता वाणी कथयामास विस्तरम्॥ १७.२५१ ॥
करवीरं चार्कपुष्पं बृहतीपुष्पमेवच॥
धत्तूरकुसुमं चैव शतपत्रं तथैव च॥ १७.२५२ ॥
आरग्वधं च पुन्नागं बकुलं नागकेशरम्॥
ब्रध्नोत्पलं कदम्बं च मंदारकुसुमं तथा॥ १७.२५३ ॥
बहूनि वरपुष्पाणि बहूनि कमलान्यपि॥
त्रिकाले च पवित्राणि ज्ञेयानि सततं बुधैः॥ १७.२५४ ॥
जातीपुष्पं मल्लिकायाश्च पुष्पं पुष्पं मोगरकं नीलपुष्पं तथैव॥
तथा पुष्पं कुटजं कर्णिकारं कौसुम्भाख्यं वारिजं रक्तवर्णनम्॥ १७.२५५ ॥
एतान्येव य पुष्पाणि मध्याह्ने लिंगपूजने॥
विशिष्टानि मयोक्तानि सायाह्ने कथयाम्यहम्॥ १७.२५६ ॥
चं पकानि त्रिकाले च पवित्राणि न संशयः॥
रात्रौ मोगरकाण्येव पवित्राणि न संशयः॥ १७.२५७ ॥
एवमर्च्चनभेदांश्च ज्ञात्वा तल्लिंगपूजने॥
कार्यो विधिर्विधिज्ञैश्च सततं च शिवालये॥ १७.२५८ ॥
वृषभांतरितो भूत्वा पीठिकांतरमेव च॥
प्रदक्षिणां न कुर्वीत कुर्वन्किल्बिषमश्नुते॥ १७.२५९ ॥
तथा ह्यनेन शक्रेण कृतं चैव प्रदक्षिणम्॥
राजसं भावमाश्रित्य तस्माज्जातंच निष्फलम्॥ १७.२६० ॥
ग्रसितोऽद्यैव वृत्रेण सगजो हि पुरंदरः॥
भवद्भिरेव तत्कार्यं येन इन्द्रः प्रमुच्यते॥ १७.२६१ ॥
महारुद्रविधानेन मुक्तो भवति तत्क्षणात्॥
पुरंदरो ह्ययं देवा नात्र कार्या विचारणा॥ १७.२६२ ॥
तेनैव वचसा देवा रुद्रमभ्यर्च्य यत्नतः॥
यथोक्तेन विधानेन रुद्रसूक्तेन यत्नतः॥ १७.२६३ ॥
तथा चैकादशीरुद्र्या रुद्रमभ्यर्च्य वै सुराः॥
हवनं प्रत्यहं चक्रुर्द्दशांशेन द्विजोत्तमाः॥ १७.२६४ ॥
जपं च पूजां हवनं च चक्रुर्विमोक्तुकामाः सहसा पुरंदरम्॥
शंभोः प्रसादात्सहसा विनिर्गतः कुक्षिं भित्त्वा देवराजस्तदानीम्॥ १७.२६५ ॥
तं निर्गतं समीक्ष्याथ देवदेवेंद्रमोजसा॥
सगजं च स वज्रं च सकिरीटं सकुण्डलम्॥
श्रिया परमया युक्तं पुरंदरं महौजसम्॥ १७.२६६ ॥
देवदुंदुभयो नेदुस्तथा शंखा ह्यनेकशः॥
गंधर्वाप्सरसो यक्षा ऋषयश्च मुदान्विताः॥ १७.२६७ ॥
एकपद्येन सर्वेषां महाहर्षो दिवौकसाम्॥
संजातस्तत्क्षणादेव यदा मुक्तः पुरंदरः॥
तदा शची समायाता यत्र मुक्तः पुरंदरः॥ १७.२६८ ॥
तत्र शच्या समेतोऽसावभिषिक्तो महर्षिभिः॥
पुण्याहवाचनं तस्य कृतं सर्वैः प्रयत्नतः॥ १७.२६९ ॥
एवं तदाभिषिक्तोऽसौ महेंद्र ऋषिभिः पुनः॥
मही मंगलभूयिष्ठा तदा जाता द्विजोत्तमाः॥ १७.२७० ॥
दिशः प्रसन्नतां याता निर्मलं चाभवन्नभः॥
शांतास्तदाग्नयो ह्यासन्मनांसि च महात्मनाम्॥ १७.२७१ ॥
एवमादीन्यनेकानि मंगलानि ततोऽभवन्॥
मुक्ते शतक्रतौ तस्मिन्बभूव परमाद्भुतम्॥ १७.२७२ ॥
एवं प्रवर्तमाने तु महतां च महोत्सवे॥
तावद्वृत्रस्य पतितं शरीरं च भयानकम्॥ १७.२७३ ॥
तत्रैव ब्रह्महत्या च पापिष्ठा पतिता भुवि॥
गंगायमुनयोर्मध्ये अंतर्वेदीति कथ्यते॥ १७.२७४ ॥
पुण्यभूमिरिति ख्याता प्रसिद्धा लोकपावनी॥
वृत्रहत्याप्रतिष्ठा सा यस्मिदेशे स पापवान्॥ १७.२७५ ॥
मलस्य बहुसंभूत्या मालावेति प्रकीर्तिता॥
तस्यां तु मलभूम्यां वै वृत्रस्य च महच्छिरः॥ १७.२७६ ॥
षण्मासेष्वपतत्सर्वैः कृत्तं देवैः सवासवैः॥
एवं वृत्रवधं कृत्वा शक्रो जयमवाप ह॥ १७.२७७ ॥
इंद्रासने चोपविष्टो निरातंकः शचीपतिः॥
एतस्मिन्नंतरे दैत्याः पातालवासिनं बलिम्॥
शशंसुः सर्वमागत्य शक्रस्य च विचेष्टितम्॥ १७.२७८ ॥
तेषां तद्वचनं श्रुत्वा वैरोचनी रुषान्वितः॥
शुक्रं पप्रच्छ स तदा सथमिंद्रो वशी भवेत्॥ १७.२७९ ॥
तेनोक्तं बलये राजञ्जयस्यन्दनलब्धये॥
महायज्ञं कुरुष्वाद्य तेन ते विजयो भवेत्॥ १७.२८० ॥
तेनोक्तो भृगुणा चैवं बलिर्यज्ञार्थमुद्यतः॥
दधौ यानीह द्रव्याणि यज्ञयोग्यानि तानि वै॥
मेलयित्वा त्वरेणैव वैरोचनिरुदारधीः॥ १७.२८१ ॥
प्रवर्तितो महायज्ञो भार्गवेण महात्मना॥
दीक्षायुक्तो बलिरभूज्जुहुवे हघ्यवाहनम्॥ १७.२८२ ॥
हूयमाने तदाग्नौ तु कर्मणा विधिहेतुना॥
तस्माद्बलेः समुत्पन्नः स्यंदनः परमाद्भुतः॥ १७.२८३ ॥
हयैश्चतुर्भिः संयुक्तो ध्वजेसिंहो महाप्रभः॥
शस्त्रास्त्रैः संयुतः श्रीमान्हयैः श्वेतैरलंकृतः॥ १७.२८४ ॥
ततश्चावभृथस्नानं चक्रे शुक्रप्रणोदितः॥
स्यंदनं पूजयित्वाथ आरुरोह बलिस्तदा॥ १७.२८५ ॥
दैत्यैः परिवृतः सद्यो योद्धुकामः पुरंदरम्॥
सद्य एव दिवं प्राप्तो बलिर्वैरोचनो महान्॥ १७.२८६ ॥
आगत्य सेनया सार्द्धमारुरो हामरावतीम्॥
संरुद्धां तां पुरीं दृष्ट्वा तदा ते सुरसत्तमाः॥
विर्शयित्वा सुचिरमूचुः सर्वे बृहस्पतिम्॥ १७.२८७ ॥
किं कुर्मोऽद्य महाभाग आगता दैत्यपुंगवाः॥
योद्धुकामा महाघोराः सर्वे युद्धविशारदाः॥ १७.२८८ ॥
तेषां तद्वचनं श्रुत्वा बृहस्पतिरभाषत॥ १७.२८९ ॥
एते घृतमुखा घोरा भृगुणानोदिताः सुराः॥
अजेयाश्चैव ते सर्वे तपसा विक्रमेण च॥ १७.२९० ॥
एतन्निशम्य वचनं च गुणाभियुक्तं सर्वे सुराः समभवंस्त्रपयाभियुक्ताः॥
इंद्रोऽपि बुद्धिविकलः परिचिंतया च व्रीडायुतः समभवत्परिभर्त्स्यमानः॥ १७.२९१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे बलिदैत्यस्य संग्रामोद्योगवर्णनंनाम सप्तदशोऽध्यायः॥ १७ ॥ छ ॥