स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५


॥लोमश उवाच॥
एवं ते शिवधर्माश्च कथितास्तेन वै द्विजाः॥
सविशेषाः पाशुपताः प्रसादाच्चैव विस्तरात्॥ ३२.१ ॥

अनेकागमसंवीता यथातत्त्वमुदाहृताः॥
कापालिकानां भेदाश्च प्रोक्ता व्याससमासतः॥ ३२.२ ॥

धर्मा नानाविधाः प्रोक्ता नंदिनं प्रति वै तदा॥ ३२.३ ॥

॥ऋषय ऊचुः॥
श्रुतं कुमारचरितमविशेषं सुमंगलम्॥
अस्माभिश्च महाभागकिंचित्पृच्छामहे वयम्॥ ३२.४ ॥

श्वेतस्य राजसिंहस्य चरितं परमाद्भुतम्॥
येन संतोषितो रुद्रः शिवो भक्त्याऽप्रमेयया॥ ३२.५ ॥

ते भक्तास्ते महात्मानो ज्ञानिनस्ते च कर्मिणः॥
येऽर्चयंति महाशंभुं देवं भक्त्या समावृताः॥ ३२.६ ॥

तस्मात्पृच्छामहे सर्वे चरितं शंकरस्य च॥
व्यासप्रसादात्सर्वं यज्जानासि त्वं न चापरः॥ ३२.७ ॥

निशम्य वचनं तेषां मुनीनां लोमशोऽब्रवीत्॥ ३२.८ ॥

॥लोमश उवाच॥
आकर्ण्यतां महाभागाश्चरितं परमाद्भुतम्॥
तस्य राज्ञो हि भजतो राजभोगांश्च सर्वशः॥
मतिर्द्धिर्मे समुत्पन्ना श्वेतस्य च महात्मनः॥ ३२.९ ॥

पृथिवीं पालयामास प्रजा धर्मेण पालयन्॥
ब्रह्मण्यः सत्यवाक्छूरः शिवभक्तो निरंतरम्॥ ३२.१० ॥

राज्यं शशासाथ स शक्तितो नृपो भक्त्या तदा चैव समर्चयत्सदा॥
शंभुं परेशं परमं परात्परं शांतं पुराणं परमात्मरूपम्॥ ३२.११ ॥

आयुस्तस्य परिक्षीणमर्चतः परमेश्वरम्॥
अथैतच्च महाभाग चरितं श्रूयतां मम॥ ३२.१२ ॥

वाणी शिवकथायुक्ता परमाश्चर्यसंयुता॥
न वाऽऽधयो हि तस्यैव व्याधयो हि महीपतेः॥ ३२.१३ ॥

तस्य राज्ञो न बाधंते तथा चोपद्रवास्त्वमी॥
निरीतिको जनो ह्यासीन्निरुपद्रव एव च॥ ३२.१४ ॥

अकृष्टपच्यौषधयस्तस्य राज्ञोऽभवन्भुवि॥
तपस्विनो ब्राह्मणाश्च वर्णाश्रमयुता जनाः॥ ३२.१५ ॥

न पुत्रमरणे दुःखं नापमानं न मारकाः॥
न दारिद्र्यं च ते सर्वे प्राप्नुवन्ति कदाचन॥ ३२.१६ ॥

एवं बहुतरः कालस्तस्य राज्ञो महात्मनः॥
गतो हि सफलो विप्राः शिवपूजारतस्य वै॥ ३२.१७ ॥

एकदा पूजमानं तं शंकरं परमार्थदम्॥
यमो हि प्रेषयामास यमदूतान्नृपं प्रति॥ ३२.१८ ॥

वचनाच्चित्रगुप्तस्य श्वेत आनीयतामिति॥
तथेति मत्वा ते दूता आगताः शिवमंदिरम्॥ ३२.१९ ॥

राजानं नेतुकामास्ते पाशहस्ता महाभयाः॥
यावत्समागता याम्या राजानं ददृशुस्त्वरात्॥ ३२.२० ॥

न चक्रिरे तदा दूता आज्ञां धर्मस्य चैव हि॥
ज्ञात्वा सर्वं यमश्चैव आगतः स्वयमेव हि॥ ३२.२१ ॥

उद्धृत्य दंडं सहसा नेतुकामस्तदा नृपम्॥
ददर्श च महाबाहुः शिवध्यानपरायणम्॥ ३२.२२ ॥

शिवभक्तियुतं शांतं केवलं ज्ञानसंयुतम्॥
यमोऽपि दृष्ट्वा राजानं परं क्षोभमुपागमत्॥ ३२.२३ ॥

चित्रस्थो ह्यभवत्स्द्यः प्रेतराजोऽतिविह्वलः॥
कालरूपश्च यो नित्यं प्रजानां क्षयकारकः॥ ३२.२४ ॥

आगतस्तत्क्षणादेव नृपं प्रति रुषान्वितः॥
खड्गेन सितधारेण चर्मणा परमेम हि॥ ३२.२५ ॥

तावत्तं ददृशे सोऽपि स्थितं द्वारि भयावृतम्॥
उवाच कालो हि तदा यमं वैवस्वतं प्रति॥ ३२.२६ ॥

कस्मात्त्वया धरमराज नो नीतोऽयं नृपो महान्॥
यम दूतसहायश्च भीतवत्प्रतिभासि मे॥ ३२.२७ ॥

कालात्ययो न कर्त्तव्यो वचनान्मम सुव्रत॥
कालेनोक्तस्तदा धर्म उवाच प्रस्तुतं वचः॥ ३२.२८ ॥

तवाज्ञां च करिष्यामि नात्र कार्या विचारणा॥
असौ हुरत्ययोऽस्माकं शिवभक्तो निरंतरम्॥ ३२.२९ ॥

चित्रस्था इव तिष्ठाम भयाद्देवस्य शूलिनः॥
यमस्य वचनं श्रुत्वा कालः क्रोधसमन्वितः॥
राजानं हंतुमारेभे त्वरितः खड्गमाददे॥ ३२.३० ॥

त्रिगुणाष्टाक्रसंकाशं प्रविवेश शिवालयम्॥
यावत्कोपेन महता तावद्दृष्टः पिनाकिना॥
स्वभक्तं हंतुकामोसौ श्वेतराजानमुत्तमम्॥ ३२.३१ ॥

ध्यानस्थितं चात्मनि तं विशुद्धज्ञानप्रदीपेन विशुद्धचित्तम्॥
आत्मानमात्मात्मतया निरंतरं स्वयंप्रकाशं परमं पुरस्तात्॥ ३२.३२ ॥

एवंविधं तं प्रसमीक्ष्य कालं संचिंत्यमानं मनसाऽचलेन॥
शैवं पदं यत्परमार्थरूपं कैवल्यसायुज्यकरं स्वरूपतः॥ ३२.३३ ॥

सदाशिवेन दृष्टोऽसौ कालः कालांतकेन च॥
उच्छृंखलः खलो दर्पाद्विशमानो निजांतिके॥ ३२.३४ ॥

नंदिकेश्वरमध्यस्थो यावद्दृष्टो निजांतिके॥
शिवेन जगदीशेन भक्तवत्सलबंधुना॥ ३२.३५ ॥

निरीक्षितस्तृतीयेन चक्षुषा परमेष्ठिना॥
स्वभक्तं रक्षमाणेन भस्मसादभवत्क्षणात्॥ ३२.३६ ॥

ददाह तं कालमनेकवर्णं व्यात्ताननं भीमबहूग्ररूपम्॥
ज्वालावलीभिः परिदह्यमानमतिप्रचंडं भुवनैकभक्षणम्॥ ३२.३७ ॥

ददर्शिरे देवगणाः समेताः सयक्षगंधर्वपिशाचगुह्यकाः॥
सिद्धाप्सरःसर्वखगाश्च पन्नगाः पतत्रिणो लोकपालास्तथैव॥ ३२.३८ ॥

ज्वालामालावृतं कालमीश्वरस्याग्रतः स्थितम्॥
लब्धसंज्ञस्तदा राजा कालं स्वं हंतुमागतम्॥ ३२.३९ ॥

पुनः पुनर्द्ददर्शाथ दह्यमानं कृशानुना॥
प्रार्थयामास स व्यग्रो रुद्रं कालाग्निसन्निभम्॥ ३२.४० ॥

॥राजोवाच॥
नमो रुद्राय शांताय स्वज्योत्स्नायात्मवेधसे॥
निरंतराय सूक्ष्माय ज्योतिषां पतये नमः॥ ३२.४१ ॥

त्राता त्वं हि जगन्नाथ पिता माता सुहृत्सखा॥
त्वमेव बंधुः स्वजनो लोकानां प्रभुरीश्वरः॥ ३२.४२ ॥

किं कृतं हि त्वया शंभो कोऽसौ दग्धो ममाग्रतः॥
न जानामि च किं जातं कृतं केन महत्तरम्॥ ३२.४३ ॥

एवं प्रार्थयतस्तस्य श्रुत्वा च परिदेवनम्॥
उवाच शंकरो वाक्यं बोधयन्निव तं नृपम्॥ ३२.४४ ॥

॥रुद्र उवाच॥
मया दग्धो ह्ययं कालस्तवार्थे च तवाग्रतः॥
दह्यमानो हि दृष्टस्ते ज्वाला मालाकुलो महान्॥ ३२.४५ ॥

एवमुक्तस्तदा तेन शंभुना राजसत्तमः॥
उवाच प्रश्रितो भूत्वा वचनं शिवमग्रतः॥ ३२.४६ ॥

किमनेन कृतं शंभो अकृत्यं वद तत्त्वतः॥
य इमां प्राप्तितोऽवस्थां प्राणात्ययकरीं भव॥ ३२.४७ ॥

एवं विज्ञापितस्तेन ह्युवाच परमेश्वरः॥
भक्षकोऽयं महाराज सर्वेषां प्राणिनामिह॥ ३२.४८ ॥

भक्षणार्थं तव विभो सोऽयं क्रूरोऽधुनाऽऽगतः॥
ममांतिकं महाराज तस्माद्दग्धो मया विभो॥ ३२.४९ ॥

बहूनां क्षेममन्विच्छंस्तवार्थेऽन्हं विशेषतः॥ ३२.५० ॥

ये पापिनो ह्यधर्मिष्ठा लोकसंहारकारकाः॥
पाषंडवादसंयुक्ता वध्यास्ते मम चैव हि॥
वाक्यं निशम्य रुद्रस्य श्वेतो वचनमब्रवीत्॥ ३२.५१ ॥

कालेनैव हि लोकोऽयं पुण्यमाचरते सदा॥
धर्मनिष्ठाश्च केचित्तु भक्त्या परमया युताः॥ ३२.५२ ॥

उपासनारताः केचिज्ज्ञानिनो हि तथा परे॥
केचिदध्यात्मसंयुक्ताश्चान्ये मुक्ताश्च केचन॥ ३२.५३ ॥

कालो हि हर्ता च चराचराणां तथा ह्यसौ पालकोऽप्यद्वितीयः॥
स स्रष्टा वै प्राणिनां प्राणभूतस्तस्मादेनं जीवयस्वाशु भूयः॥ ३२.५४ ॥

यदि सृष्टिपरोऽसि त्वं कालं जीवय सत्वरम्॥
यदि संहारभूतोऽसि सर्वेषां प्राणिनामिह॥ ३२.५५ ॥

तर्ह्येवं कुरु शंभो त्वं कालस्य च महात्मनः॥
विना कालेन यत्किंचिद्भविष्यति न शंकर॥ ३२.५६ ॥

इति विज्ञापितस्तेन राज्ञा शंभुः प्रतापिना॥
चकार वचनं तस्य भक्तस्य च चिकीर्षितम्॥ ३२.५७ ॥

शंभुः प्रहस्याथ तदा महेशः संजीवयामास पिनाकपाणिः॥
चकार रूपं च यथा पुरासीदालिंगतोसौ यमदूतमध्ये॥ ३२.५८ ॥

उपस्थितोऽसौ त्वथ लज्जमानस्तुष्टाव देवं वृषभध्वजं तम्॥
नत्वा पुरःस्थाग्निमयं हि कालः सविस्मयो वाक्यमिदं बभाषे॥ ३२.५९ ॥

॥काल उवाच॥
कालांतक त्रिपुरेश त्रिपुरांतकर प्रभो॥
मदनो हि त्वया देव कृतोऽनंगो जगत्पते॥ ३२.६० ॥

दक्षयज्ञविनाशश्च कृतो हि परमाद्भुतः॥
कालकूटं दुःप्रसहं सर्वेषां क्षयकृन्महत्॥ ३२.६१ ॥

ग्रसितं तत्त्वया शंभो अन्येषामपि दुर्द्धरम्॥
लिंगरूपेण महता व्याप्तमासीज्जगत्त्रयम्॥ ३२.६२ ॥

लयनाल्लिंगमित्युक्तं सर्वैरपि सुरा सुरैः॥
यस्यांतं न विदुर्द्देवा ब्रह्मविष्णुपुरोगमाः॥ ३२.६३ ॥

लिंगस्य देवदेवस्य महिमानं परस्य च॥
नमस्ते परमेशाय नमस्ते विश्वमंगल॥
नमस्ते शितिकण्ठाय नमस्तस्मै कपर्दिने॥ ३२.६४ ॥

नमोनमः कारणकारणाय ते नमोनमो मंगलमंगलात्मने॥
ज्ञानात्मने ज्ञानविदां मनीषिणां त्वमादिदेवोऽसि पुमान्पुराणः॥ ३२.६५ ॥

त्वमेव सर्वं जगदेवबंधो वेदांतवेद्योऽसि महानुभावः॥
महानुभावैः परिकीर्त्तनीयस्त्वमेव विश्वेश्वर विश्वमान्यः॥ ३२.६६ ॥

त्वं पासि लुंपसि जगत्त्रितयं महेश स्रष्टासि भूतपतिरेव न कश्चिदन्यः॥ ३२.६७ ॥

इति स्तुतस्तदा तेन कालेन जगदीश्वरः॥
उवाच कालो राजानं श्वेतं संबोधयन्निव॥ ३२.६८ ॥

॥काल उवाच॥
मनुष्यलोके सकले नान्यस्त्वत्तो हि विद्यते॥
येन त्वया जितो देवो ह्यजेयो भुवनत्रये॥ ३२.६९ ॥

मया हतमिदं विश्वं जगदेतच्चराचरम्॥
जेताहं सर्वदेवानां सर्वेषां दुरतिक्रमः॥ ३२.७० ॥

स हि ते चानुगो जातो महाराज प्रयच्छ मे॥
अभयं देवदेवाच्च शूलिनः परमेष्ठिनः॥ ३२.७१ ॥

एवमुक्तस्तदा तेन श्वेतः कालेन चैव हि॥
उवाच प्रहसन्वाचा मेघनादगभीरया॥ ३२.७२ ॥

॥राजोवाच॥
शिवस्य परमं रूपं त्वमेको नास्ति संशयः॥
कालस्त्वमसि भूतानां स्थितिसंहाररूपवान्॥ ३२.७३ ॥

तस्मात्पूज्यतमोऽसि त्वं सर्वेषां च नियामकः॥
त्वद्भयात्कृतिनः सर्वे शरणं परमेश्वरम्॥
व्रजंति विविधैर्भार्वैरात्मलक्षणतत्पराः॥ ३२.७४ ॥

॥सुत उवाच॥
तेनैवं रक्षिततः कालो राज्ञा परमधर्मिणा॥
शिवप्रसादमात्रेण लब्धसंज्ञो बभूवह॥ ३२.७५ ॥

तदा यमेन स्तवितो मृत्युना यमदूतकैः॥
शिवं प्रणम्य संस्तुत्य श्वेतं राजानमेव च॥
ययौ स्वमालयं विप्रा मेने स्वं जनितं पुनः॥ ३२.७६ ॥

मायया सह पत्न्या च शिवस्य चरितं महत्॥
अनुसंस्मृत्य संस्मृत्य विस्मयं परमं ययौ॥ ३२.७७ ॥

कथयामास सर्वेषां दूतानां स्वयमेव हि॥
आकर्ण्यतां मम वचो हे दूतास्त्वरितेन हि॥ ३२.७८ ॥

कर्त्तव्यं च प्रयत्नेन नान्यथा मम भाषितम्॥ ३२.७९ ॥

॥काल उवाच॥
ये त्रिपुण्ड्रंधारयंति तथा ये वै जटाधराः॥
ये रुद्राक्षधराश्चैव तथा ये शिवनामिनः॥ ३२.८० ॥

उपजीवनहेतोश्च भिया ये ह्यपि मानवाः॥
पापिनोऽपि दुराचाराः शिववेषधरा ह्यमी॥ ३२.८१ ॥

नानेतव्या भवद्भिश्च मम लोकं कदाचन॥
वर्ज्यास्ते हि प्रयत्नेन पापिनोऽपि सदैव हि॥ ३२.८२ ॥

अन्येषां का कथा दूता येऽर्चयंति सदाशिवम्॥
भक्त्या परमया शंभुं रुद्रास्ते नात्र संशयः॥ ३२.८३ ॥

रुद्राक्षमेकं शिरसा बिभर्ति यस्तथा त्रिपुंड्रं च ललाटमध्यके॥
पंचाक्षरीं ये प्रजपंति साधवः पूज्य भवद्भिश्च न चान्यथा क्वचित्॥ ३२.८४ ॥

यस्मिन्राष्ट्रोऽथ वा देशे ग्रामे चापि विचक्षणः॥
शिवभक्तो न दृश्येत स्मशानात्तु विशिष्यते॥
तद्राष्ट्रं देशमित्याहुः सत्यं प्रतिवदामि वः॥ ३२.८५ ॥

यस्मिन्न संति नित्यं हि शिवभक्तिसमन्विताः॥
तद्ग्रमस्था जनाः सर्वे शासनीया न संशयः॥ ३२.८६ ॥

एवमाज्ञापयामास यमोऽपि निजकिंकरान्॥
तथेति मत्वा ते सर्वे तूष्णी मासन्सुविस्मिताः॥ ३२.८७ ॥

एवंविधोऽयं भुवनैकभर्ता सदाशिवो लोकगुरुः स एकः॥
दाता प्रहर्ता निजभावयुक्तः सनातनोऽयं जगदेकबंधुः॥ ३२.८८ ॥

दग्ध्वा कालं महादेवो निर्भयं च ददौ विभुः॥
श्वेतस्य राजराजस्य महीपालवरस्य च॥ ३२.८९ ॥

तदा निर्भयमापन्नः श्वेतराजो महामनाः॥
भक्त्या च परया मुक्तो बभूव कृतनिश्चयः॥ ३२.९० ॥

तदा देवैः पूज्यमान ऋषिभिः पन्नगैस्तथा॥
श्वतो राजन्यवर्योऽसौ शिवसायुज्यमाप्तवान्॥ ३२.९१ ॥

एवं भक्तिपराणां च महेशे च जगद्गुरौ॥
सिद्धिः करतले तेषां सत्यं प्रतिवदामि वः॥ ३२.९२ ॥

श्वपचोऽपि वरिष्ठः स्यात्प्रसादाच्छं करस्य च॥
तस्मात्सर्वप्रयत्नेन पूजनीयो हि शंकरः॥ ३२.९३ ॥

बहूनां जनमनामंते शिवभक्तिः प्रजायते॥ ३२.९४ ॥

ज्ञानिनां कृतबुद्धीनां जन्मजन्मनिशंकरः॥
किं मया बहुनोक्तेन पूजनीयः सदाशिवः॥ ३२.९५ ॥

अत्रैवोदाहरंतीममितिहासं पुरातनम्॥
किरातेन कृतं व्रतं च परमाद्भुतम्॥
येनैव तारितं विश्वं जगदेतच्चराचरम्॥ ३२.९६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्वेतराजचरिते शिवभक्तिप्रभावेण कालदहनवृत्तान्तवर्णनंनाम द्वात्रिंशोऽध्यायः॥ ३२ ॥ छ ॥