स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ३० स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥शोनक उवाच॥
हत्वा तं तारकं संख्ये कुमारेण महात्मना॥
किं कृतं सुमहद्विप्र तत्सर्वं वक्तुमर्हसि॥ ३१.१ ॥

कुमारो ह्यपरः शंभुर्येन सर्वमिदं ततम्॥
तपसा तोषितः शंभुर्ददाति परमं पदम्॥ ३१.२ ॥

कुमारो दर्शनात्सद्यः सफलो हि नृणां सदा॥
ये पापिनो ह्यधर्म्मिष्ठाः श्वपचा अपि लोमश॥
दर्शनाद्धूतपापास्ते भवंत्येव न संशयः॥ ३१.३ ॥

शौनकस्य वचः श्रुत्वा उवाच चरितं तदा॥
व्यास शिष्यो महाप्रज्ञः कुमारस्य महात्मनः॥ ३१.४ ॥

॥लोमश उवाच॥
ह्ताव तं तारकं संख्ये देवानामजयं ततः॥
अवध्यं च द्विजश्रेष्ठाः कुमारो जयमाप्तवान्॥ ३१.५ ॥

महिमा हि कुमारस्य सर्वशास्त्रेषु कथ्यते॥
वेदैश्च स्वागमैश्चापि पुराणैश्च तथैव च॥ ३१.६ ॥

तथोपनिषदैश्चैव मीमांसाद्वितयेन तु॥
एवंभूतः कुमारोयमशक्यो वर्णितुं द्विजाः॥ ३१.७ ॥

यो हि दर्शनमात्रेण पुनाति सकलं जगत्॥
त्रातारं भुवनस्यास्य निशम्य पितृराट्स्वयम्॥ ३१.८ ॥

ब्रह्माणं च पुरस्कृत्य विष्णुं चैव सवासवम्॥
स ययौ त्वरितेनैव शंकरं लोकशंकरम्॥
तृष्टाव प्रयतो भूत्वा दक्षिणाशापतिः स्वयम्॥ ३१.९ ॥

नमो भर्गाय देवाय देवानां पतये नमः॥
मृत्युंजयाय रुद्राय ईशानाय कपर्द्दिने॥ ३१.१० ॥

नीलकंठाय शर्वाय व्योमावयवरूपिणे॥
कालाय कालनाथाय कालरूपाय वै नमः॥ ३१.११ ॥

यमेन स्तूयमानो हि उवाच प्रभुरीश्वरः॥
किमर्थमागतोऽसि त्वं तत्सर्वं कथयस्व नः॥ ३१.१२ ॥

॥यम उवाच॥
श्रूयतां देवदेवेश वाक्य वाक्यविशारद॥
तपसा परमेणैव तुष्टिं प्राप्तोसि शंकर॥ ३१.१३ ॥

कर्मणा परमेणैव ब्रह्मा लोकपितामहः॥
तुष्टिमेति न संदेहो वराणां हि सदा प्रभुः॥ ३१.१४ ॥

तथा विष्णुर्हि भगवान्वेदवेद्यः सनातनः॥
यज्ञैरनेकैः संतुष्ट उपवासव्रतैस्तथा॥ ३१.१५ ॥

ददाति केवलं भावं येन कैवल्यमाप्नुयुः॥
नराः सर्वे मम मतं नान्यता हि वचो मम॥ ३१.१६ ॥

ददाति तुष्टो वै भोगं तथा स्वर्गादिसंपदः॥
सूर्यो नमस्ययाऽरोग्यं ददातीह न चान्यथा॥ ३१.१७ ॥

गणेशो हि महादेव अर्घ्यपाद्यादिचंदनैः॥
मंत्रावृत्त्या तथा शंभो निर्विघ्नं च करिष्यति॥ ३१.१८ ॥

तथान्ये लोकपाः सर्वे यथाशक्त्या फलप्रदाः॥
यज्ञाध्ययनदानाद्यैः परितुष्टाश्च शंकर॥ ३१.१९ ॥

महदाश्चर्य संभूतं सर्वेषां प्राणिनामिह॥
कृतं च तव पुत्रेण स्वर्गद्वारमपावृताम्॥ ३१.२० ॥

दर्शनाच्च कुमारस्य सर्वे स्वर्गैकसो नराः॥
पापिनोऽपि महादेव जाता नास्त्यत्र संशयः॥ ३१.२१ ॥

मया किं क्रियतां देव कार्याकार्यव्यवस्थितौ॥
ये सत्यशीलाः शांताश्च वदान्या निरवग्रहाः॥ ३१.२२ ॥

जितेंद्रिया अलुब्धाश्च कामरागविवर्जिताः॥
याज्ञिका धर्मनिष्ठाश्च वेदवेदांगपारगाः॥ ३१.२३ ॥

यां गतिं यांति वै शंभो सर्वे सुकृतिनोपि हि॥
तां गतिं दर्शनात्सर्वे श्वपचा अधमा अपि॥ ३१.२४ ॥

कुमारस्य च देवेश महदाश्चर्यकर्मणः॥
कार्त्तिक्यां कृत्तिकायोगसहितायां शिवस्य च॥ ३१.२५ ॥

शिवस्य तनयं दृष्ट्वा ते यांति स्वकुलैः सह॥
कोटिभिर्बहुभिश्चैव मत्स्थानं परिमुच्य वै॥ ३१.२६ ॥

कुमारदर्शनात्सर्वे श्वपचा अपि यांति वै॥
सद्गतिं त्वरितेनैव किं क्रियेत मयाधुना॥ ३१.२७ ॥

यमस्य वचनं श्रुत्वा शंकरो वाक्यमब्रवीत्॥ ३१.२८ ॥

॥शंकर उवाच॥
येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम्॥
विशुद्धभावो भो धर्म्म तेषां मनसि वर्त्तते॥ ३१.२९ ॥

सत्तीर्थगमनायैव दर्शनार्थं सतामिह॥
वांछा च महती तेषां जायते पूर्वकारिता॥ ३१.३० ॥

बहूनां जन्मनामंते मयि भावोऽनुवर्त्तते॥
प्राणिनां सर्वभावेन जन्माभ्यासेनभो यम॥ ३१.३१ ॥

तस्मात्सुकृतिनः सर्वे येषां भावोऽनुवर्त्ते॥
जन्मजन्मानुवृत्तानां विस्मयं नैव कारयेत्॥ ३१.३२ ॥

स्त्रीबालशूद्राः श्वपचाधमाश्च प्राग्जन्मसंस्कारवशाद्धि धर्म्म॥
योनिं पापिषु वर्त्तमानास्तथापि शुद्धा मनुजा भवंति॥ ३१.३३ ॥

तथा सितेन मनसा च भवंति सर्वे सर्वेषु चैव विषयेषु भवंति तज्ज्ञाः॥
दैवेन पूर्वचरितेन भवंति सर्वे सुराश्चेंद्रादयो लोकपालाः प्राक्तनेन॥ ३१.३४ ॥

जाता ह्यमी भूतगणाश्च सर्वे ह्यमी ऋषयो ह्यमी देवताश्च॥ ३१.३५ ॥

विस्मयो नैव कर्त्तव्यस्त्वया वापि कुमारके॥
कुमारदर्शने चैव धर्मराज निबोध मे॥ ३१.३६ ॥

वचनं कर्मसंयुक्तं सर्वेषां फलदायकम्॥
सर्वतीर्थानि यज्ञाश्च दानानि विविधानि च॥
कार्याणि मनःशुद्ध्यर्थं नात्र कार्या विचारणा॥ ३१.३७ ॥

मनसा भावितो ह्यात्मा आत्मनात्मानमेव च॥
आत्मा अहं च सर्वेषआं प्राणिनां हि व्यवस्थितः॥ ३१.३८ ॥

अहं सदा भावयुक्त आत्मसंस्थो निरंतरः॥
जंगमाजंगमानां च सत्यं प्रति वदामि ते॥ ३१.३९ ॥

द्वंद्वातीतो निर्विकल्पो हि साक्षात्स्वस्थो नित्यो नित्ययुक्तो निरीहः॥
कूटस्थो वै कल्पभेदप्रवादैर्बहिष्कृतो बोधबोध्यो ह्यनन्तः॥ ३१.४० ॥

विस्मृत्य चैनं स्वात्मानं केवलं बोधलक्षणम्॥
संसारिणो हि दृश्यंते समस्ता जीवराशयः॥ ३१.४१ ॥

अहं ब्रह्मा च विष्णुश्च त्रयोऽमी गुणकारिणः॥
सृष्टिपालनसंहारकारका नान्यथा भवेत्॥ ३१.४२ ॥

अहंकारवृतेनैव कर्मणा कारितावयम्॥
यूयं च सर्वे विबुधा मनुष्याश्च खगादयः॥ ३१.४३ ॥

पश्वादयः पृथग्भूतास्तथान्ये बहवो ह्यमी॥
पृथक्पृथक्समीचीना गुणवतश्च संसृतौ॥ ३१.४४ ॥

पतिता मृगतृष्णायां मायया च वशीकृताः॥
वयं सर्वे च विबुधाः प्राज्ञाः पंडितमानिनः॥ ३१.४५ ॥

परस्परं दूषयंतो मिथ्यावादरताः खलाः॥ ३१.४६ ॥

त्रैगुणा भवसंपन्ना अतत्तवज्ञाश्च रागिणः॥
कामक्रोधभयद्वेषमदमात्सर्यसंयुताः॥ ३१.४७ ॥

परस्परं दूषयंतो ह्यतत्त्वज्ञा बहिर्मुखाः॥
तस्मादेवं विदित्वाथ असत्यं गुणभेदतः॥ ३१.४८ ॥

गुणातीते च वस्त्वर्थे परमार्थैकदर्शनम्॥ ३१.४९ ॥

यस्मिन्भेदो ह्यभेदं च यस्मिन्रागो विरागताम्॥
क्रोधो ह्यक्रोधतां याति तद्वाम परमं श्रृणु॥ ३१.५० ॥

न तद्भासयते शब्दः कृतकत्वाद्यथा घटः॥
शब्दो हि जायते धर्म्मः प्रवृत्तिपरमो यतः॥ ३१.५१ ॥

प्रवृत्तिश्च निवृत्तिश्च तथा द्वंद्वानि सर्वशः॥
विलयं यांति यत्रैव तत्स्थानं शाश्वतं मतम्॥ ३१.५२ ॥

निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम्॥
सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम्॥ ३१.५३ ॥

एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति॥
सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति॥ ३१.५४ ॥

अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम्॥
मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम्॥ ३१.५५ ॥

संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा॥
यैः कल्पना परित्यक्ता ते यांति परमां गतिम्॥ ३१.५६ ॥

शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यर्थोरणे॥
मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा॥ ३१.५७ ॥

सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा॥
बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः॥ ३१.५८ ॥

एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः॥
कुतस्तेषां बंधनं च यथाखे पुष्पमेव च॥ ३१.५९ ॥

शशविषाणमेवैतज्त्रानं संसार एव च॥
किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि॥ ३१.६० ॥

ममतां च निराकृत्य प्राप्तुकामाः परं पदम्॥
ज्ञानिनस्ते हि विद्वांसो वीतरागा जितेंद्रियाः॥ ३१.६१ ॥

यैस्त्यक्तो ममताभावो लोभकोपौ निराकृतौ॥
ते यांति परमं स्थानं कामक्रोधविवर्जिताः॥ ३१.६२ ॥

यावत्कामश्च लोभश्च रागद्वेषौ व्यवस्थितौ॥
नाप्नुवंति च तां सिद्धिं शब्दमात्रैकबोधकाः॥ ३१.६३ ॥

॥यम उवाच॥
शब्दाच्छब्दः प्रवर्त्तेत निःशब्दं ज्ञानमेव च॥
अनित्यत्वं हि शब्दस्य कथं प्रोक्तं त्वया प्रभो॥ ३१.६४ ॥

अक्षरं ब्रह्मपरमं शब्दो वै ह्यरात्मकः॥
तस्माच्छब्दस्त्वया प्रोक्तो निरीक्षक इति श्रुतम्॥ ३१.६५ ॥

प्रतिपाद्यं हि यत्किंचिच्छब्देनैव विना कथम्॥
तत्सर्वं कथ्यतां शंभो कार्याकार्यव्यवस्थितौ॥ ३१.६६ ॥

॥शंकर उवाच॥
श्रृणुष्वावहितो भूत्वा परमार्धयुतं वचः॥
यस्य श्रवणमात्रेण ज्ञातव्यं नावशिष्यते॥ ३१.६७ ॥

ज्ञानप्रवादिनः सर्व ऋषयो वीतकल्मषाः॥
ज्ञानाभ्यासेन वर्त्तंते ज्ञानं ज्ञानविदो विदुः॥ ३१.६८ ॥

ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञात्वा च परिगीयते॥
कथं केन च ज्ञातव्यं किं तद्वक्तुं विवक्षितम्॥ ३१.६९ ॥

एतत्सर्वं समासेन कथयामि निबोध मे॥
एको ह्यनेकधा चैव दृश्यते भेदभावनः॥ ३१.७० ॥

यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम॥
तथात्मा भेदबुद्ध्या च प्रतिभाति ह्यनेकधा॥ ३१.७१ ॥

तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च॥
मंतव्यः सुप्रयोगेण मननेन विशेषतः॥ ३१.७२ ॥

निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते॥
मायाजालमिदं सर्वं जगदेतच्चाराचरम्॥ ३१.७३ ॥

मायामयोऽयं संसारो ममतालक्षणो महान्॥
ममतां च बहिः कृत्वा सुखं बंधात्प्रमुच्यते॥ ३१.७४ ॥

कोऽहं कस्त्वं कुतश्चान्ये महामायावलंबिनः॥
अजागलस्तनस्येव प्रपंचोऽयं निरर्थकः॥ ३१.७५ ॥

निष्फलोऽयं निराभासो निःसारो धूमडंबरः॥
तस्मात्सर्वप्रयत्नेन आत्मानं स्मर वै यम॥ ३१.७६ ॥

॥लोमश उवाच॥
एवं प्रचोदितस्तेन शंभुना प्रेतराट्‌स्वयम्॥
बुद्धो भूत्वा यमः साक्षादात्मभूतोऽभवत्तदा॥ ३१.७७ ॥

कर्म्मणां हि च सर्वेषां शास्ता कर्मानुसारतः॥
बभूव डंबरो नॄणां भूतानां च समाहितः॥ ३१.७८ ॥

॥ऋषय ऊचुः॥
हत्वा तु तारकं युद्धे कुमारेण महात्मना॥
अत ऊर्ध्वं कथ्यतां भोः किं कृतं महदद्भुतम्॥ ३१.७९ ॥

॥सूत उवाच॥
हते तु तारके दैत्ये हिमवन्प्रमुखाद्रयः॥
कार्त्तिकेयं समागत्य गीर्भी रम्याभिरैडयन्॥ ३१.८० ॥

॥गिरय ऊचुः॥
नमः कल्याणरूपाय नमस्ते विश्वमंगल॥
विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन॥ ३१.८१ ॥

वरीष्ठाः श्वपचा येन कृता वै दर्शनात्त्वया॥
त्वां नमामो जगद्बंधुं त्वां वयं शरणागताः॥ ३१.८२ ॥

नमस्ते पार्वतीपुत्र शंकरात्मज ते नमः॥
नमस्ते कृत्तिकासूनो अग्निभूत नमोस्तु ते॥ ३१.८३ ॥

नमोस्तु ते देववरैः सुपूज्य नमोऽस्तु ते ज्ञानविदां वरिष्ठ॥
नमोऽस्तु ते देववर प्रसीद शरण्य सर्वार्तिविनाशदक्ष॥ ३१.८४ ॥

एवं स्तुतो गिरिभिः कार्त्तिकेयो ह्युमासुतः॥
तान्गिरीन्सुप्रसन्नात्मा वरं दातुं समुत्सुकः॥ ३१.८५ ॥

॥कार्त्तिकेय उवाच॥
भोभो गिरिवरा यूयं श्रृणुध्वं मद्वचोऽधुना॥
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ॥ ३१.८६ ॥

भवत्स्वेव हि वर्त्तते दृषदो यत्नसेविताः॥
पुनंतु विश्चं वचनान्मम ता नात्र संशयः॥ ३१.८७ ॥

पर्वतीयानि तीर्थानि भविष्यंति न चान्यथा॥
शिवालयानि दिव्यानि दिव्यान्यायतनानि च॥ ३१.८८ ॥

अयनानि विचित्राणि शोभनानि महांति च॥
भविष्यंति न संदेहः पर्वता वचनान्मम॥ ३१.८९ ॥

योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः॥
तपस्विनां महाभागः फलदो हि भविष्यति॥ ३१.९० ॥

मेरुश्च गिरिराजोऽयमाश्रयो हि भविष्यति॥
लोकालोको गिरिवर उदयाद्रिर्महायशः॥ ३१.९१ ॥

लिंगरूपो हि भगवान्भविष्यति न चान्यथा॥
श्रीशैलो हि महेंद्रश्च तथा सह्याचलोगिरिः॥ ३१.९२ ॥

माल्यवान्मलयो विन्ध्यस्तथासौ गंधमादनः॥
श्वेतकूटस्त्रिकूटो हि तथा दर्दुरपर्वतः॥ ३१.९३ ॥

एते चान्ये च बहवः पर्वता लिंगरूपिणः॥
मम वाक्याद्भविष्यंति पापक्षयकरा ह्यमी॥ ३१.९४ ॥

एवं वरं ददौ तेभ्यः पर्वतेभ्यश्च शांकरिः॥
ततो नंदीह्युवाचाथ सर्वागमपुरस्कृतम्॥ ३१.९५ ॥

॥नंद्युवाच॥
त्वया कृता हि गिरयो लिंगरूपिण एव ते॥
शिवालयाः कथं नाथ पूज्याः स्युःसर्वदैवतैः॥ ३१.९६ ॥

॥कुमार उवाच॥
लिंगं शिवालयं ज्ञेयं देवदेवस्य शूलिनः॥
सर्वैर्नृभिर्दैवतैश्च ब्रह्मादिभिरतांद्रितैः॥ ३१.९७ ॥

नीलं मुक्ता प्रवालं च वैडूर्यं चंद्रमेव च॥
गोमेदं पद्मरागं च मारतं कांचनं तथा॥ ३१.९८ ॥

राजतं ताम्रमारं च तथा नागमयं परम्॥
रत्नधातुमयान्येव लिंगानि कथितानि ते॥ ३१.९९ ॥

पवित्राण्येव पूज्यानि सर्वकामप्रदानि च॥
एतेषामपि सर्वेषां काश्मीरं हि विशिष्यते॥ ३१.१०० ॥

ऐहिकामुष्मिकं सर्वं पूजाकर्तुः प्रयच्छति॥ ३१.१०१ ॥

॥नंद्युवाच॥
लिंगानामपि पूज्यं स्याद्बाणलिंगं त्वया कथम्॥
कथितं चोत्तमत्वेन तत्सर्वं वदसुव्रत॥ ३१.१०२ ॥

॥कुमार उवाच॥
रेवायां तोयमध्ये च दृश्यंते दृषदो हि याः॥
शिवप्रसादात्तास्तु स्युर्लिंगरूपा न चान्यथा॥ ३१.१०३ ॥

श्लक्ष्णमूलाश्च कर्तव्याः पिंडिकोपरि संस्थिताः॥
पूजनीयाः प्रयत्नेन शिवदीक्षायुतेन हि॥ ३१.१०४ ॥

पिंडीयुक्तं च शास्त्रेण विधिना च यजेच्छिवम्॥
वरदो हि जगन्नाथः पूजकस्य न चान्यथा॥ ३१.१०५ ॥

पंचाक्षरी यस्य मुखे स्थिता सदा चेतोनिवृत्तिः शिवचिंतने च॥
भूतेषुः साम्यं परिवादमूकता षंढत्वमेव परयोषितासु॥ ३१.१०६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे कार्त्तिकेयप्रोक्तशिवलिंगमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः॥ ३१ ॥