स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
राज्यं चकार कैलास दवदवा जगत्पतिः॥
गणैः समेतो बहुभिर्वीरभद्रान्वितो महान्॥ ३४.१ ॥

ऋषिभिः सहितो रुद्रो देवैरिन्द्रादिभिः सह॥
ब्रह्मा यस्य स्तुतिपरो विष्णुः प्रेष्यवदास्थितः॥ ३४.२ ॥

इंद्रो देवगणैः सार्द्धं सेवाधर्मपरोऽभवत्॥
यस्य च्छत्रधरश्चंद्रो वायुश्चामरधृक्तथा॥ ३४.३ ॥

सूपान्नकर्ता सततं जातवदा निरन्तरम्॥
गंधर्वा गायका यस्य स्तावकाश्च पिनाकिनः॥ ३४.४ ॥

विद्याधराश्च बहवस्तथा चाप्सरसां गणाः॥
ननृतुश्चाग्रगा यस्य सोऽसौ कैलासपर्वते॥ ३४.५ ॥

पुत्रैर्गणेशस्कंदाद्यैस्तथा गिरिजया सह॥
राज्यं प्रतापिभिश्चक्रेऽशंकश्चंक्रमणेन च॥ ३४.६ ॥

येनांधको महा दैत्यः स देवानामरिर्महान्॥
दुष्टो विद्धस्त्रिशूलेन गगने स्थापितश्चिरम्॥ ३४.७ ॥

हत्वा गजासुरं येन उत्कृत्त्य चर्म वै कृतम्॥
चिरं प्रावरणं दिव्यं तथा त्रिपुरदीपनम्॥
विष्णुना पाल्यभूतेन रेजे सर्वांगसुन्दरः॥ ३४.८ ॥

तं द्रष्टुकामो भगवान्नारदो दिव्य र्शनः॥
ययौ च पर्वतश्रेष्ठं कैलासं चन्द्रपांडुरम्॥ ३४.९ ॥

सुधया परया चापि सेवितं परमाद्भुतम्॥
कर्पूरगौरं च तदा दृष्ट्वा तं सुमहाबलम्॥
नारदो विस्मयाविष्टः प्रविष्टो गन्धमादनम्॥ ३४.१० ॥

अनेकाश्चर्यसंयुक्तं तपनैश्च सुशोभितम्॥
गायद्विद्याधरीभिश्च पूरितं च महाप्रभम्॥ ३४.११ ॥

कल्पद्रुमाश्च बहवो लताभिः परिवेष्टिताः॥
घनच्छायासू तास्वेव विशिष्टा कामधेनवः॥ ३४.१२ ॥

पारिजातवनामोदलंपटा बहवोऽलयः॥
कलहंसाश्च बहवः क्रीडमानाः सरस्तु च॥ ३४.१३ ॥

शिखंडिनो महच्चक्रुस्तत्र केकारवं मुदा॥
पंचमालापिनः सर्वे विहंगाः संमदान्विताः॥ ३४.१४ ॥

करिणः करिणीभिश्च मोदमानाः सुवर्चसः॥
सिंहास्तथा गर्जमानाः शार्दूलैः सह संगताः॥ ३४.१५ ॥

वृषभा नंदिमुख्याश्च रेभमाना निरन्तरम्॥
देवद्रुमाश्च बहवस्तथा चंदनवाटिकाः॥ ३४.१६ ॥

नागपुंनागबकुलाश्चंपका नागकेसराः॥
तथा च वनजंब्वश्च तथा कनककेतकाः॥ ३४.१७ ॥

कह्लाराः करवीरिश्च कुमुदानि ह्यनेकशः॥
मंदाराश्च बदर्यश्च क्रमुकाः पाटलास्तथा॥ ३४.१८ ॥

तथान्ये बहवो वृक्षाः शम्भोस्तोषकराह्यमी॥
ऐकपद्येन दृष्टास्ते नानाद्रुमलतान्विताः॥
आरामा बहवस्तत्र द्विगुणाश्च बभूविरे॥ ३४.१९ ॥

गगनान्निस्सृतः सद्यो गंगौघः परमाद्भुतः॥
पतितो मस्तके तस्य पर्वतस्य सुशोभिते॥ ३४.२० ॥

कूपो हि पयसां ये न पवित्रं वर्तते जगत्॥
सोपि द्विधा तदा दृष्टो नारदेन महात्मना॥ ३४.२१ ॥

सर्वं तदा द्विधाभूतं दृष्टं तेन महात्मना॥
नारदेन तदा विप्राः परमेण निरीक्षितः॥ ३४.२२ ॥

एवं विलोकमानोऽसौ नारदो भगवानृषिः॥
त्वरितेन तथा यातः शिवालोकनतत्परः॥ ३४.२३ ॥

यावद्द्वारि स्थितोपश्यन्महदाश्चर्यमेव च॥
द्वारपालौ तदा दृष्टौ कृतकौ विश्वक्मणा॥ ३४.२४ ॥

नारदो मोहितो ह्यासीत्पप्रच्छ च स तौ तदा॥
अहं प्रवेष्टुमिच्छामि शिवदर्शनलालसः॥ ३४.२५ ॥

तस्मादनुज्ञा दातव्या दर्शनार्थं शिवस्य च॥
अश्रृण्वन्तौ तदा दृष्ट्वा नारदो विस्मितोऽभवत्॥ ३४.२६ ॥

ज्ञानदृष्ट्या विलोक्याथ दूष्णींभूतोऽभवत्तदा॥
कृत्रिमौ हि च तौ ज्ञात्वा प्रविष्टो हि महामनाः॥ ३४.२७ ॥

तथान्ये तत्सरूपाश्च दृष्टास्तेन महात्मना॥
ऋषिः प्रणमितस्तैश्च नारदो भगवान्मुxx॥ ३४.२८ ॥

एवमादीन्यनेकानि आश्चर्याणि ददर्श सः॥
ददर्शाथ च सुव्यक्तं त्र्यंबकं गिरिजान्वितम्॥ ३४.२९ ॥

अर्धासनगता साध्वी शंकरस्य महात्मनः॥
तनया गिरिराज्य यया व्याप्तं जगत्त्रयम्॥ ३४.३० ॥

गौरी सितेक्षणा बाला तन्वंगी चारुलोचना॥
यया रूपी कृतः शम्भुरुपादेयः कृतो महान्॥ ३४.३१ ॥

निर्विकानि विकारैश्च बहुभिर्विकलीकृतः॥
अर्द्धागलग्ना सा देवी दृष्टा तेन शिवस्य च॥ ३४.३२ ॥

नारदेन तथा शम्भुर्दृष्टस्त्रिभुवनेश्वरः॥
शुद्धचामी करप्रख्यः सेव्यमानः सुरासुरैः॥ ३४.३३ ॥

शंखेन भोगिवर्येण सेवितं चांघ्रिपंकजम्॥
धृतराष्ट्रेण च तथा तक्षकेण विशेषतः॥
तथा पद्मेन महा शेषेणापि विशेषतः॥ ३४.३४ ॥

अन्यैश्च नागवर्यैश्च सेवितो हि निरंतरंम्॥
वासुकिः कंठलग्नो हि हारभूतो महाप्रभः॥ ३४.३५ ॥

कंबलाश्वतरौ नित्यं कर्णभूषणभूषितौ॥
जटामूलगताश्चान्ये महाफणिवरा ह्यमी॥ ३४.३६ ॥

अनेकजातिसंवीता नानावर्णाश्च पद्मिनः॥
तक्षकः कुलिकः शंखो धृतराष्ट्रो महाप्रभः॥ ३४.३७ ॥

पद्मो दंभः सुदंभश्च करालो भीषणस्तथा॥
एते चान्ये च बहवो नागाश्चाशीविषा ह्यमी॥ ३४.३८ ॥

अंगभूता हरस्या सन्पूज्यस्यास्य जगत्त्रये॥
फणैकया शोभमानाः केचिद्धि पन्नगोत्तमाः॥ ३४.३९ ॥

फणानां द्वितयं केषां त्रितयं च महाप्रभम्॥
चतुष्क पंचकषट्कं सप्तकं चाष्टकं तथा॥ ३४.४० ॥

नवकं दशकं चैव तथैकादशकं त्वथ॥
द्वादशकं चाष्टादशकमेकोनविंशकं तथा॥ ३४.४१ ॥

चत्वारिंशत्फणाः केऽपि पंचाशत्कं च षष्टिकम्॥
सप्ततिश्चाप्यशीतिश्च नवतिश्च तथैव च॥ ३४.४२ ॥

तथा शतसहस्राणि ह्ययुतप्रयुतानि च॥
अर्बुदानि च रत्नानि तथा शङ्खमितानि च॥ ३४.४३ ॥

अनंताश्च फणा येषां ते सर्पाः शिवभूषणाः॥
दृष्टास्तदानीं ते सर्वे नारदेन महात्मना॥ ३४.४४ ॥

विद्यावंतोऽपि ते सर्वे भोगिनोऽपि सुशोभिताः॥
हारभूषणभूतास्ते मणिमंतोऽमितप्रभाः॥ ३४.४५ ॥

अर्द्धचंद्रांकितो यस्य कपर्द्दस्त्वतिसुंदरः॥
चक्षुषा च तृतीयेन भालस्थेन विराजितः॥ ३४.४६ ॥

पंचवक्त्रो महादेवो बाहुभिर्द्दशभिर्वृतः॥
तथा मरकतश्यामकंधरोऽतीवसुंदरम्॥ ३४.४७ ॥

उरो यस्य विशालं च तथोरुजघनं परम्॥
चरणद्वयं च रुद्रस्य शोभितं परमं महत्॥ ३४.४८ ॥

तद्दृष्टं चरणारविंदमतुलं तेजोमयं सुंदरं संध्यारागसुमंगलं च परमं तापापनुत्तिंकरम्॥
तेजोराशिकरं परात्परमिदं लावण्यलीलस्पदं सर्वेषां सुखवृद्धिकारणपरं शंभोः पदं पावनम्॥ ३४.४९ ॥

तथैव दृष्ट्वा परमं पराणां परा सती रूपवती च सुंदरी॥
सौभाग्यलावण्यमहाविभूत्या विराजमाना ह्यतिसुंदरी शुभा॥ ३४.५० ॥

दृष्ट्वा तौ दपती शुद्धौ राजमानौ जगत्त्रये॥
अभिन्नौ भेदमापन्नौ निर्गुणौ गुणिनौ च तौ॥ ३४.५१ ॥

साकारौ च निराकारौ निरातंकौ सुखप्रदौ॥
ववंदे च मुदा तौ स नारदो भगवत्प्रियः॥
उत्थायोत्थाय च तदा तुष्टाव जगदीश्वरौ॥ ३४.५२ ॥

॥नारद उवाच॥
नतोस्म्यहं देववरौ युवाभ्यां परात्पराभ्यां कलया तथापि॥
दृष्टौ मया दंपती राजमानौ यौ वीजभूतौ सचराचरस्य ॥ ३४.५३ ॥

पितरौ सर्वललोकस्य ज्ञातौ चाद्यैव तत्त्वतः॥
मया नास्त्यत्र संदेहो भवतोः कृपया तथा॥ ३४.५४ ॥

एवं स्तुतौ तदा तेन नारदेन महात्मना॥
तुतोष भगवाञ्छंभुः पार्वत्या सहितस्तदा॥ ३४.५५ ॥

॥महादेव उवाच॥
सुखेन स्थीयते ब्रह्मन्किं कार्यं करवाणि ते॥
तच्छ्रुत्वा वचनं शंभोर्नारदो वाक्यमब्रवीत्॥ ३४.५६ ॥

दर्शनं जातमद्यैव तेन तुष्टोऽस्म्यहं विभो॥
दर्शनात्सर्वमेवाद्य शंभो मम न संशयः॥ ३४.५७ ॥

क्रीडनार्थमिहायातः कैलासं पर्वतोत्तमम्॥
हृदिस्थो हि सदा नॄणामास्थितो भगवन्प्रभो॥ ३४.५८ ॥

तथापि दर्शनं भाव्यं सततं प्राणिनामिह॥ ३४.५९ ॥

॥गिरिजोवाच॥
का क्रीडा हि त्वया भाव्या वद शीघ्रं ममाग्रतः॥
तस्यास्तद्वचनं श्रुत्वा उवाच प्रहसन्निव॥ ३४.६० ॥

द्यूतक्रीडा महादेव दृश्यते विविधात्र च॥
भवेद्द्वाभ्यां च द्यूते हि रमणाच् महत्सुखम्॥ ३४.६१ ॥

इत्येवमुक्त्वो परतं सती भृशमुवाच वाक्यं कुपिता ऋषिं प्रति॥
कथं विजानासि परं प्रसिद्धं द्यूतं च दुष्टोदरकं मनस्विनाम्॥ ३४.६२ ॥

त्वं ब्रह्मपुत्रोऽसि मुनिर्मनीषिणां शास्ता हि वाक्यं विविधैः प्रसिद्धैः॥
चरिष्यमाणो भुवनत्रये न हि त्वदन्यो ह्यपरो मनस्वी॥ ३४.६३ ॥

एवमुक्तस्तदा देव्या नारदो देवदर्शनः॥
उवाच वाक्यं प्रहसन्गिरिजां शिवसन्निधौ॥ ३४.६४ ॥

॥नारद उवाच॥
द्यूतं न जानामि न चाश्रयामि ह्यहं तपस्वी शिवकिंकरश्च कथं च मां पृच्छसि राजकन्यके योगीश्वराणां परमं पवित्रे॥ ३४.६५ ॥

निशम्य वाक्यं गिरिजा सती तदा ह्युवाच वाक्यं च विहस्य तं प्रति॥
जानासि सर्वं च बटोऽद्य पश्य मे द्यूतं महेशेन करोमि तेऽग्रतः॥ ३४.६६ ॥

इत्येवमुक्त्वा गिरिराजकन्यका जग्राह चाक्षान्भुवनैकसुंदरी॥
क्रीडां चकाराथ महर्षिसाक्ष्यके तत्रास्थिता सा हि भवेन संयुता॥ ३४.६७ ॥

तौ दंपती क्रीडया सज्जमानौ दृष्टौ तदा ऋषिणा नारदेन॥
सविस्मयोत्फुल्लमना मनस्वी विलोकमानोऽतितरां तुतोष॥ ३४.६८ ॥

सखीजनेन संवीता तदा द्यूतपरा सती॥
शिवेन सह संगत्य च्छलाद्द्यूतमकारयत्॥ ३४.६९ ॥

स पणं च तदा चक्रे छलेन महता वृतः॥
जिता भवानी च तदा शिवेन प्रहसन्निव॥ ३४.७० ॥

नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत्॥
निशम्य हारितं द्यूतमुपहासं निशम्य च॥ ३४.७१ ॥

नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम्॥
उवाच त्वरिता चैव दत्त्वा चैवार्द्धचंद्रकम्॥ ३४.७२ ॥

तथा शिरोमणी चैव तरले च मनोहरे॥
मुखं सुखोभनं चैव तथा कुपितसुंदरम्॥
दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत्॥ ३४.७३ ॥

तथा गिरिजया प्रोक्तः शंकरो लोकशंकरः॥
हारितं च मया दत्तः पण एव च नान्यथा॥ ३४.७४ ॥

क्रियते च त्वया शंभो कः पणो हि तदुच्यताम्॥
ततः प्रहस्य चोवाच पार्वतीं च त्रिलोचनः॥ ३४.७५ ॥

मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत्॥
सा चंद्रलेखा हि महान्हि हारस्तथैव कर्णोत्पलभूषणद्वयम्॥ ३४.७६ ॥

इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम्॥
ततः प्रवर्तितं द्यूतं शंकरेण सहैव च॥ ३४.७७ ॥

एवं विक्रीडमानौ तावक्षविद्याविशारदौ॥
तदा जितो भवान्याथ शंकरो बहुभूषणः॥ ३४.७८ ॥

प्रहस्य गौरी प्रोवाच शंकरं त्वतिसुंदरी॥
हारितं च पणं देहि मम चाद्यैव शंकर॥ ३४.७९ ॥

तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह॥
न जितोऽहं त्वया तन्वि तत्त्वतो हि विमश्यताम्॥ ३४.८० ॥

अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तु वोच हि साध्वि॥
द्यूतं कुरुष्वाद्य यथेष्टमेव जेष्यामि चाहंच पुनः प्रपश्या॥ ३४.८१ ॥

तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र॥
एवमुक्त्वा तदा शंभुं करे गृह्य वरानना॥
जितोऽसि त्वं न संदेहस्त्वं न जानासि शंकर॥ ३४.८२ ॥

एवं प्रहस्य रुचिरं गिरिजा तु शंभुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः॥
देहीति म सकलमंगलमंगलेश यद्धारितं स्मररिपो वचसानुमोदितम्॥ ३४.८३ ॥

॥शिव उवाच॥
अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः॥
अहंकारेण यत्प्रोक्तं तत्त्वतस्तद्विमृश्यताम्॥ ३४.८४ ॥

तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा॥
अजेयो हि महादेवः सर्वेषामपि वै प्रभो॥ ३४.८५ ॥

मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि॥
न जानासि च किंचिच्च कार्याकार्यं विवक्षितम्॥॥ ३४.८६ ॥

एवं विवदमानौ तौ दंपती परमेश्वरौ॥
नारदः प्रहसन्वाक्यमुवाच ऋषिसत्तमः॥ ३४.८७ ॥

॥नारद उवाच॥
आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमंगलम्॥
असौ महाभाग्यवतां वरेण्यस्त्वया जितः किं च मृषा ब्रवीषि॥ ३४.८८ ॥

अजितो हि महादेवो देवानां परमो गुरुः॥
अरूपोऽयं सुरूपोयं रूपातीतोऽयमुच्यते॥ ३४.८९ ॥

एक एव परं ज्योतिस्तेषामपि च यन्महः॥
त्रैलोक्यनाथो विश्वात्मा शंकरो लोकशंकरः॥ ३४.९० ॥

कथं त्वया जितो देवि ह्यजेयो भुवनत्रये॥
शिवमेनं न जानासि स्त्रीभावाच्च वरानने॥ ३४.९१ ॥

नारदेनैवमुक्ता सा कुपिता पार्वती भृशम्॥
बभाषे मत्सरग्रस्ता साक्षेपं वचनं सती॥ ३४.९२ ॥

॥पार्वत्युवाच॥
चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ॥

तव भीतास्मि भद्रं ते देवर्षे मौनमावह॥ ३४.९३ ॥

कथं शिवो हि देवर्ष उक्तोऽतो हि त्वया बहु॥
मत्प्रसादा स्छवो जात ईश्वरो यो हि पठ्यते॥ ३४.९४ ॥

मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः॥ ३४.९५ ॥

एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत्॥
पस्थितं च तद्दृष्ट्वा भृंगी वाक्यमथाब्रवीत्॥ ३४.९६ ॥

॥भृंग्युवाच॥
त्वया बहु न वक्तव्यं पुनरेव च भामिनि॥
अजेयो निर्विकारो हि स्वामी मम सुमध्यमे॥ ३४.९७ ॥

स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम्॥
कामं पुरस्कृत्य पुरा भवानि समागतास्येव महेशमुग्रम॥ ३४.९८ ॥

यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः॥
कृतो ह्यनंगो हि तदा ह्यनेन दग्धं वनं तस्य गिरेः पितुस्ते॥ ३४.९९ ॥

xxxवात्त्वयाराधित एव एष शिवः पराणां परमः परात्मा॥ ३४.१०० ॥

भृंगिणेत्येवमुक्ता सा ह्युवाच किपिता भृशम्॥
श्रृण्वतो हि महेशस्य वाक्यं पृष्टा च भृंगिणम्॥ ३४.१०१ ॥

॥पार्वत्युवाच॥
हं भृंगिन्पक्षपातित्वाद्यदुक्तं वचनं मम॥
शिवप्रियोऽसि रे मन्द भेदबुद्धिरतो ह्यसि॥ ३४.१०२ ॥

अहं शिवात्मिका मूढ शिवो नित्यं मयि स्थितः॥
कथं शिवाभ्यां भिन्नत्वं त्वयोक्तं वाग्बलेन हि॥ ३४.१०३ ॥

श्रुतं च वाक्यं शुभदं पार्वत्या भृंगिणा तदा॥
उवाच पार्वतीं भृंगी रुषितः शिवसन्निधौ॥ ३४.१०४ ॥

पुतुर्यज्ञे च दक्षस्य शिवनिंदा त्वया श्रुता॥
अप्रियक्षवणात्सद्यस्त्वया त्यक्तं कलेवरम्॥ ३४.१०५ ॥

तत्क्षणादेव नन्वंगि ह्यधुना किं कृतं त्वया॥
संभ्रमात्किं न जानासि शिवनिंदकमेव च॥ ३४.१०६
कथं वा पर्वतश्रेष्ठाज्जाता से वरवर्णिनि॥
कथं वा तपसोग्रेण संतप्तासि सुमध्यमे॥ ३४.१०७ ॥

सप्रेमा च शिवे भक्तिस्तव नास्तीह संप्रातम्॥
शिवप्रियासि तन्वंगि तस्नादेवं ब्रवीमि ते॥ ३४.१०८ ॥

शिवात्परतरं नान्यत्त्रिषु लोकेषु विद्यते॥
शिवे भक्तिस्त्वया कार्या सप्रेमा वरवर्णिनि॥ ३४.१०९ ॥

भक्तासि त्वं महादेवि महाभाग्यवतां वरे॥
संसेव्यतां प्रयत्नेन तपसोपार्जितस्त्वया॥ ३४.११० ॥

शिवो वरेण्यः सर्वेशो नान्यथा कर्तुमर्हसि॥
भृंगिणो वचनं श्रुत्वा गिरिजा तमुवाचह॥ ३४.१११ ॥

॥गिरिजोवाच॥
रे भृंगिन्मौनमालंब्य स्थिरो भवाथ वा व्रज॥
वाच्यावाच्यं न जानासि किं ब्रवीषि पिशाचवत्॥ ३४.११२ ॥

तपसा केन चानीतः कया चापि शिवो ह्ययम्॥
काहं कोऽसौ त्वया ज्ञातो भेदबुद्ध्या ब्रवीषि मे॥ ३४.११३ ॥

कोऽसि त्वं केन युक्तोऽसि कस्माच्च बहु भाषसे॥
शापं तव प्रदास्यामि शिवः किं कुरुतेऽधुना॥ ३४.११४ ॥

भृंगिणोक्ता तिरस्कृत्य तदा शापं ददौ सती॥
निमामो भव रे मन्द रे भृंगिञ्छिंकरप्रिय॥ ३४.११५ ॥

एवमुक्त्वा तदा देवी पार्वती शंकरप्रिया॥
अथ कोपेन संयुक्ता पार्वती शंकरं तदा॥ ३४.११६ ॥

कर गृह्य च तन्वंगी भुजंगं वासुकिं तथा॥
उदतारयत्कंठात्सा तथान्यानि बहूनि च॥ ३४.११७ ॥

शंभोर्जग्राह कुपिता भूषणानि त्वरान्विता॥
हृत चंद्रकला तस्य गजाजिनमनुत्तमम्॥ ३४.११८ ॥

कंबलाश्वतरौ नागौ महेशकृतभूषणौ॥
हृतौ तया महादेव्या छलोक्त्यां च प्रहस्य वै॥ ३४.११९ ॥

कौपीनाच्छा दनं तस्या च्छलोक्त्या च प्रहस्य वै॥
तदा गणाश्च सख्यश्च त्रपया पीडिता भवन्॥ ३४.१२० ॥

पराङ्गमुखाश्च संजाता भृङ्गी चैव महातपाः॥
तथा चण्डो हि मुण्डश्च महालोमा महोदरः॥ ३४.१२१ ॥

एते चान्ये च बहवो गणास्ते दुःखिनोऽभवन्॥
तांश्च दृष्ट्वा तथाभूतन्महेशो लज्जितोऽभवत्॥ ३४.१२२ ॥

उवाच वाक्यं रुषितः पार्वतीं प्रति शंकरः॥ ३४.१२३ ॥

॥रुद्र उवाच॥
उपहासं प्रकुर्वंति सर्वे हि ऋषयो भृशम्॥
तथा ब्रह्मा च विष्णुश्च तथा चेन्द्रादयो ह्यमी॥ ३४.१२४ ॥

उपहासपराः सर्वे किं त्वयाद्य कृतं शुभे॥
कुले जातासि तन्वंगि कथमेवं करिष्यसि॥ ३४.१२५ ॥

त्वया जितो ह्यहं सुभ्रु यदि जानासि तत्त्वतः॥
तर्ह्येवं कुरु मे देहि कौपीनाच्छादनं परम्॥
देहि कौपी नामात्रं मे नान्यथा कर्तुमर्हसि॥ ३४.१२६ ॥

एवमुक्ता सती तेन शंभुना योगिना तदा॥
प्रहस्य वाक्यं प्रोवाच पार्वती रुचिरानना॥ ३४.१२७ ॥

किं कौपीनेन ते कार्यं मुनिना भावितात्मना॥
दिगम्बरेणैव तदा कृतं दारुवनं तथा॥ ३४.१२८ ॥

भिक्षाटनमिषेणैव ऋषिपत्न्यो विरोहिताः॥
गच्छ तस्ते तदा शंभो पूजनं तैर्महत्कृतम्॥ ३४.१२९ ॥

कौपीनं पतितं तत्र मुनिभिर्नान्यथोदितम्॥
तस्मात्त्वया प्रहातव्यं द्यूतोहारितमेव तत्॥ ३४.१३० ॥

तच्छ्रुत्वा कुपितो रुद्रः पार्वतीं परमेश्वरः॥
निरीक्षमाणोऽतिरुषा तृतीयेनैव चक्षुषा॥ ३४.१३१ ॥

कुपितं शंकरं दृष्ट्वा सर्व देवगणास्तदा॥
भयेन महताविष्टास्तथा गणकुमारकाः॥ ३४.१३२ ॥

ऊचुः सर्वे शनैस्तत्र शंकितेन परस्परम्॥
अद्यायं कुपितो रुद्रो गिरिजां प्रति संप्रति॥ ३४.१३३ ॥

यथा हि मदनो दग्धस्तथेयं नान्यथा वचः॥
एवं मीमांसमानास्ते गणा देवर्षयस्तदा॥ ३४.१३४ ॥

विलोकितास्तया देव्या सर्वे सौभाग्यमुद्रया॥
उवाच प्रहसन्नेव सती सत्पुरुषं तदा॥ ३४.१३५ ॥

किमालोकपरो भूत्वा चक्षुषा परमेण हि॥
नाहं कालो न कामोऽहं नाहं दभस्य वै मखः॥ ३४.१३६ ॥

त्रिपुरो नैव वै शंभो नांधको वृषभध्वज॥
वीक्षितेनैव किं तेन तव चाद्य भविष्यति॥
वृथैव त्वं विरूपाक्षो जातोऽसि मम चाग्रतः॥ ३४.१३७ ॥

एवमादीन्यनेकानि हयुवाच परमेश्वरी॥
निशम्य देवो वाक्यानि गमनाय मनो दधे॥ ३४.१३८ ॥

वनमेव वरं चाद्य विजनं परमार्थतः॥
एकाकी यतचित्तात्मा त्यक्तसर्वपरिग्रहः॥ ३४.१३९ ॥

स सुखी परमार्थज्ञः स विद्वान्स च पंडितः॥
येन मुक्तौ कामरागौ स मुक्तः स सुखी भवेत्॥ ३४.१४० ॥

एवं विमृश्य च तदा गिरिजां विहाय श्रीशंकरः परमकारुणिकस्तदानीम्॥
यातः प्रियाविरहितो वनमद्भुतं च सिद्धाटवीं परमहंसयुतां तथैव॥ ३४.१४१ ॥

निर्गतं शंकरं दृष्ट्वा सर्वे कैलासवासिनः॥
निर्ययुश्च गणाः सर्वे वीरभद्रादयोऽनु तम्॥ ३४.१४२ ॥

छत्रं भृंगी समादाय जगाम तस्य पृष्ठतः॥
चामरे वीज्यमाने च गंगायमुनसन्निभे॥ ३४.१४३ ॥

ताभ्यां युक्तस्तदा नंदी पृष्ठतोऽन्वगमत्सुधीः॥
वृषभों ह्यग्रतो भूत्वा पुष्पकेण विराजितः॥ ३४.१४४ ॥

शोभमानो महादेव एभिः सर्वैः सुशोभनैः॥
अंतःपुरगता देवी पार्वती सा हि दुर्मनाः॥ ३४.१४५ ॥

सखीभिर्बहुभिस्तत्र तथान्याभिः सुसंवृता॥
गिरिजा चिंतयामास मनसा परमेश्वरम्॥ ३४.१४६ ॥

ततो दूरं गतः शंभुर्विसृज्य च गणांस्तदा॥
गणेशं च कुमारं च वीरभद्रं तथाऽपरान्॥ ३४.१४७ ॥

भृंगिणं नंदिनं चंडं सोमनंदिनमेव च॥
एतानन्यांश्च सर्वांश्च कैलासपुरवासिनः॥ ३४.१४८ ॥

विसृज्य च महादेव एक एव महातपाः॥
गतो दूरं वनस्यांते तथा सिद्धवटं शिवः॥ ३४.१४९ ॥

काश्मीररत्नोपलसिद्धरत्नवैदूर्यचित्रं सुधया परिष्कृतम्॥
दिव्यासनं तस्य च कल्पितं भुवा तत्रास्थितो योगपतिर्महेशः॥ ३४.१५० ॥

पद्मासने चोपविष्टो महेशो योगवित्तमः॥
केवलं चात्मनात्मानं दध्यौ मीलितलोचनः॥ ३४.१५१ ॥

शुशुभे स महादेवः समाधौ चंद्रशेखरः॥
योगपट्टः कृतस्तेन शेषस्य च महात्मनः॥
वासुकिः सर्पराजश्च कटिबद्धः कृतो महान्॥ ३४.१५२ ॥

आत्मानमात्मात्मतया च संस्तुतो वेदांतवेद्यो न हि विश्वचेष्टितः॥
एको ह्यनेको हि दुरंतपारस्तथा ह्यर्क्यो निजबोधरूपः॥
स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता॥ ३४.१५३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीद्यूतप्रसंगेन पार्वतीहारितसर्वस्वस्य शिवस्य कैलासं विहाय तपोवनगमनवर्णनंनाम चतुस्त्रिंशोऽध्यायः॥ ३४ ॥ छ ॥