स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ५
वेदव्यासः
अध्यायः ०६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
विष्णौ गते तदा सर्वे देवाश्च ऋषिभिः सह॥
विनिर्जिता गणैः सर्वे ये च यज्ञोपजीविनः॥ ५.१ ॥

भृगुं च पातयामास स्मश्रूणां लुंचनं कृतम्॥
द्विजांश्चोत्पाटयामास पूष्णो विकृतविक्रियान्॥ ५.२ ॥

विडंबिता स्वधा तत्र ऋषयश्च विडंबिताः॥
ववृषुस्ते पुरीषेण वितानाग्नौ रुपान्विताः॥ ५.३ ॥

अनिर्वाच्यं तदा चक्रुर्गणाः क्रोधसमन्विताः॥
अंतर्वेद्यंतरगतो दक्षो वै महतो भयात्॥ ५.४ ॥

तं निलीनं समाज्ञाय आनिनायरुषान्वितः॥
कपोलेषु गृहीत्वा तं खड्गेनोपहतं शिरः॥ ५.५ ॥

अभेद्यं तच्छिरो मत्वा वीरभद्रः प्रतापवान्॥
स्कंधं पद्भ्यां समाक्रम्य कधरेऽपीडयत्तदा॥ ५.६ ॥

गंधरात्पाट्यमानाच्च शिरश्छिन्नं दुरात्मनः॥
दक्षस्य च तदा तेन वीरभद्रेण धीमता॥
तच्छिरः सुहुतं कुंडे ज्वलिxxxxxxx॥ ५.७ ॥

ये चान्य ऋषयो देवाः पितरो यक्षराक्षसाः॥
गणैरुपद्रुताः सर्वे पलायनपरा ययुः॥ ५.८ ॥

चंद्रादित्यगणाः सर्वे ग्रहनक्षत्रतारकाः॥
सर्वे विचलिता ह्यासन्गणैस्तेपि ह्युपद्रुताः॥ ५.९ ॥

सत्यलोकं गतो ब्रह्मा पुत्रशोकेन पीडितः॥
चिंतयामास चाव्यग्रः किं कार्यं कार्यमद्य वै॥ ५.१० ॥

मनसा दूयमानेन शंन लेभे पितामहः॥
ज्ञात्वा सर्वं प्रयत्नेन दुष्कृतं तस्य पापिनः॥ ५.११ ॥

गमनाय मतिं चक्रे कैलासं पर्वतं प्रति॥
हंसारूढो महातेजाः सर्वदेवैः समन्वितः॥ ५.१२ ॥

प्रविष्टः पर्वतश्रेष्ठं स ददर्श सदाशिवम्॥
एकांतवासिनं रुद्रं शैलादेन समन्वितम्॥ ५.१३ ॥

कपर्द्दिनं श्रिया युक्तं वेदांगानां च दुर्गमम्॥
तथाविधं समालोक्य ब्रह्म क्षोभपरोऽभवत्॥ ५.१४ ॥

दंडवत्पतितो भूमौक्षमापयितुमुद्यतः॥
संस्पृशं स्तत्पदाब्जं च चतुर्मुकुटकोटिभिः॥
स्तुतिं कर्तुं समारेभे शिवस्य परमात्मनः॥ ५.१५ ॥

॥ब्रह्मोवाच॥
नमो रुद्राय शांताय ब्रह्मणे परमात्मने॥
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः॥ ५.१६ ॥

नमो रुद्राय महते नीलकंठाय वेधसे॥
विश्वाय विश्वबीजाय जगदानंदहेतवे॥ ५.१७ ॥

ओंकारस्त्वं वषट्कारः सर्वारंभप्रवर्तकः॥
यज्ञोसि यज्ञकर्मासि यज्ञानां च प्रवर्तकः॥ ५.१८ ॥

सर्वेषां यज्ञकर्तॄणां त्वमेव प्रतिपालकः॥
शरण्योसि महादेव सर्वेषां प्राणिनां प्रभो॥
रक्ष रक्ष महादेव पुत्रशोकेन पीडितम्॥ ५.१९ ॥

॥महादेव उवाच॥
श्रृणुष्वावहितो भूत्वा मम वाक्यं पितामह॥
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित्॥ ५.२० ॥

स्वीयेन कर्मणा दक्षो हतो ब्रह्मन्न संशयः॥ ५.२१ ॥

परेषां क्लेशदं कर्म न कार्यं तत्कदाचन॥
परमेष्ठिन्परेषां यदात्मनस्तद्भविष्यति॥ ५.२२ ॥

एवमुक्त्वा तदा रुद्रो ब्रह्मणा सहितः सुरैः॥
ययौ कनखलं तीर्थं यज्ञवाटं प्रजापतेः॥ ५.२३ ॥

रुद्रस्तदा ददर्शाय वीरभद्रेण यत्कृतम्॥
स्वाहा स्वधा तथा पूषा भृगुर्मतिमतां वरः॥ ५.२४ ॥

तदान्य ऋषयः सर्वे पितरश्च तथाविधाः॥
येऽन्ये च बहवस्तत्र यक्षगंधर्वकिन्नराः॥ ५.२५ ॥

त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे॥ ५.२६ ॥

शंभुं समागतं दृष्ट्वा वीरभद्रो गणैः सह॥
दंडप्रणामसंयुक्तस्तस्थावग्रे सदाशिवम्॥ ५.२७ ॥

दृष्ट्वा पुरः स्थितं रुद्रो वीरभद्रं महाबलम्॥
उपाच प्रहसन्वाक्यं किं कृतं वीर नन्विदम्॥ ५.२८ ॥

दक्षमानय शीघ्रं भो येनेदं कृतमीदृशम्॥
यज्ञे विलक्षणं तात यस्येदं फलमीदृशम्॥ ५.२९ ॥

एवमुक्तः शंकरेण वीरभद्रस्त्वरान्वितः॥
कबंधमानयित्वाथ शंभोरग्रे तदाक्षिपत्॥ ५.३० ॥

तदोक्तः शंकरेणैव वीरभद्रो महामनाः॥
शिरः केना पनीतं च दक्षस्यास्य दुरात्मनः॥ ५.३१ ॥

दास्यामि जीवनं वीर कुटिलस्यापि चाधुना॥
एवमुक्तः शंकरेण वीरभद्रोऽब्रवीत्पुनः॥ ५.३२ ॥

मया शिरो हुतं चाग्नौ तदानीमेव शंकर॥
अवशिष्टं शिरःशंभो पशोश्च विकृताननम्॥ ५.३३ ॥

इति ज्ञात्वा ततो रुद्रः कबंधोपरि चाक्षिपत्॥
शिरः पशोश्च विकृतं कूर्चयुक्तं भयावहम्॥ ५.३४ ॥

स दक्षो जीवितं लेभे प्रसादाच्छंकरस्य च॥
स दृष्ट्वाग्रे तदा रुद्रं दक्षो लज्जासमन्वितः॥
तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम्॥ ५.३५ ॥

॥दक्ष उवाच॥
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम्॥
नमामि देवाधिपमीश्वरं हरं नमामि शंभुं जगदेकबंधुम्॥ ५.३६ ॥

नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम्॥
नमामि सर्वं निजभावभावं वरं वरेण्यं नतोऽस्मि॥ ५.३७ ॥

॥लोमश उवाच॥
दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः॥ ५.३८ ॥

॥हर उवाच॥
चतुर्विधा भजंते मां जनाः सुकृतिनः सदा॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च द्विजसत्तम॥ ५.३९ ॥

तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः॥
विना ज्ञानेन मां प्राप्तुं यतंते ते हि बालिशः॥ ५.४० ॥

केवलं कर्मणा त्वं हि संसारात्तर्तुमिच्छसि॥ ५.४१ ॥

न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित्॥
न शक्नुवंति मां प्राप्तुं मूढाः कर्म्मवशानराः॥ ५.४२ ॥

तस्माज्ज्ञानपरो भूत्वा कुरु कर्म्म समाहितः॥
सुखदुःखसमो भूत्वा सुखी भव निरंतरम्॥ ५.४३ ॥

॥लोमश उवाच॥
उपदिष्टस्तदा तेन शंभुना परमेष्ठिना॥
दक्षं तत्रैव संस्थापाय ययो रुद्रः स्वपर्वतम्॥ ५.४४ ॥

ब्रह्मणापि तथा सर्वे भृग्वाद्याश्च महर्षयः॥
आश्वासिता बोधिताश्च ज्ञानिनश्चाभवन्क्षणात्॥ ५.४५ ॥

गतः पितामहो ब्रह्मा ततश्च सदनं स्वकम्॥ ५.४६ ॥

दक्षोपि च स्वयं वाक्यात्परं बोधमुपागतः शिवध्यानपरो भूत्वा तपस्तेपे महामनाः॥ ५.४७ ॥

तस्मात्सर्वप्रयत्नेन संक्षेव्यो भगवाञ्छिवः॥ ५.४८ ॥

संमार्जनं च कुर्वंति नरा ये च शिवांगणे॥
ते वै शिवपुरं प्राप्य जगद्वंद्या भग्सि च॥ ५.४९ ॥

ये शिवस्य प्रयच्छति दर्प्पणं सुमहाप्रभम्॥
भविष्यंति शिवस्याग्रे पार्षदत्वेन ते नराः॥ ५.५० ॥

चामराणि प्रयच्छंति देवदेवस्य शूलिनः॥
चामरैर्वीज्यपानास्ते भविष्यंति जगत्त्रय॥ ५.५१ ॥

दीपदानं प्रयच्छंति महादेवालये नराः॥
तेजस्विनो भविष्यंति ते त्रैलोक्यप्रदीपका॥ ५.५२ ॥

धूपं ये वै प्रयच्छन्ति शिवाय परमात्मने॥
यशस्विनो भविष्यंति उद्धरन्ति कुलद्वयम्॥ ५.५३ ॥

नैवेद्यं ये प्रयच्छंति भकया हरिहराग्रतः॥
सिक्थेसिक्थे क्रतुफलं प्राप्नुवंति हि ते नराः॥ ५.५४ ॥

भग्नं शिवालयं ये च प्रकुर्वंति नरोत्तमाः॥
प्राप्नुवति फल ते वै द्विगुणं नात्र संशयः॥ ५.५५ ॥

नूतनं ये प्रकृर्वंति इष्टकैरश्मनापि वा॥
स्वर्गे हि ते प्रमोदंते यावत्तिष्ठति निर्मलम्॥
यशो भूमौ द्विजश्रेष्ठा कार्या विचारणा॥ ५.५६ ॥

कारयंति च ये विप्राः प्रासादं बहुभूमिकम्॥
शिवस्याथ महाप्राज्ञाः प्राप्नुवंति परां गतिम्॥ ५.५७ ॥

शुद्धं धवलितं ये च कुर्वन्ति हरमंदिरम्॥
स्वीयं परकृतं चापि तेऽपि यांति परां गतिम्॥ ५.५८ ॥

वितानं ये प्रयच्छति नराः सुकृतिनोपि हि॥
तारयति कुलं कृत्स्नं शिवलोकं गताः पुनः॥ ५.५९ ॥

ये च नादमयीं घंटां निबध्नंति शिवालये॥
तेजस्विनः कीर्तिमंतो भविष्यंति जगत्त्रये॥ ५.६० ॥

एककालं द्विकालं वा त्रिकालं चानुपश्यति॥
आढ्यो वापि दरिद्रो वा सुखं दुःखात्प्रचुच्यते॥ ५.६१ ॥

श्रद्धावान्भजते यो वा शिवाय परमात्मने॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते॥ ५.६२ ॥

अत्रैवोदाहरंतीम मितिहासं पुरातनम्॥
ऐंद्रद्युम्नेश्च संवादं यमस्य च महात्मनः॥ ५.६३ ॥

पुरा कृतयुगे ह्यसीदिन्द्रसेनो नराधिपः॥
प्रतिष्ठानाधिपो वीरो मृगयारसिकः सदा॥ ५.६४ ॥

अब्रह्मण्यः सदा क्रूरः केवलासुतृपः सदा॥
परप्राणौर्निजप्राणान्पुष्णाति स खलः सदा॥ ५.६५ ॥

परस्त्रीलं पटोऽत्यंतं परद्रव्येषु लोलुपः॥
ब्राह्मणा घातितास्तेन सुरापश्च निरंतरम्॥ ५.६६ ॥

गुरुलत्पगतोत्यर्थं सदा सौवर्णतस्करः॥
तथाभूतानुगाः सर्वे राज्ञस्तस्य दुरात्मनः॥ ५.६७ ॥

एवं बहुविधं राज्यं चकार स दुरात्मवान्॥
ततः कालेन महता पंचत्वं प्राप दुर्मतिः॥ ५.६८ ॥

तदा याम्यैश्च नीतोऽसाविंद्रसेनो दुरात्मवान्॥
यमान्तिकमनुप्राप्तस्तदा राजा सकल्मषः॥ ५.६९ ॥

यमेन दृष्टस्तत्रासाविंद्रसेनोग्रतः स्थितः॥
अभ्युत्थानपरो भूत्वा ननाम शिरसा शिवम्॥ ५.७० ॥

दूतान्संभर्त्सयामास यमो धर्मभृतां वरः॥
पाशैर्बद्धं चंद्रसेनं मुक्त्वा प्रोवाच धर्मराट्॥ ५.७१ ॥

गच्छ पुण्यतमाँल्लोकान्भुंक्ष्व राजन्यसत्तम॥
यावदिंद्रश्च नाकेऽस्ति यावत्सूर्यो नभस्तले॥ ५.७२ ॥

पंचभूतानि यावच्च तावत्त्वं च सुखी भव॥
सुकृती त्वं महाराज शिवभक्तोऽसि नित्यदा॥ ५.७३ ॥

यमस्य वचनं श्रुत्वा इंद्रसेनोभ्यभाषत॥
अहं शिवं न जानामि मृगयारसिको ह्यहम्॥ ५.७४ ॥

तच्छ्रुत्वा वचनं तस्य यमो भाष्यमभाषत॥
आहर प्रहरस्वेति उक्तं चेदं सदा त्वया॥ ५.७५ ॥

तेन कर्मविपाकेन सदा पूतोसि मानद॥
तस्मात्त्वं गच्छ कैलासं पर्वतं शंकरं प्रति॥ ५.७६ ॥

एवं संभाषमाणस्य यमस्य च महात्मनः॥
आगताः शिवद्वतास्ते वृषारूढा महाप्रभाः॥ ५.७७ ॥

नीलकंठा दशभुजाः पंचवक्त्रास्त्रिलोचनाः॥
कपर्द्दिनः कुंडलिनः शशंकांकितमौलयः॥ ५.७८ ॥

तान्दृष्ट्वा सहसोत्थाय यमो धर्मभृतां वरः॥
पूजयामास तान्सर्वान्महेंद्रप्रतिमांस्तदा॥ ५.७९ ॥

त्वरीरेनैव ते सर्वे ऊचुर्वैवस्वतं यमम्॥
अत्रागतो महाभाग इंद्रसेनोऽमितद्युतिः॥
नाम्नाः प्रवर्त्तको नित्यं रुद्रस्य च महात्मनः॥ ५.८० ॥

श्रुत्वा च वचनं तेषां यमेन च पुरस्कृतः॥
इंद्रसेनो विमानस्थः प्रेषितो हि शिवालयम्॥ ५.८१ ॥

आनीतोयं तदा तैश्च पार्षदप्रवरोत्तमैः॥
शंभुना हि तदा दृष्ट इंद्रसेनोऽमितद्युतिः॥ ५.८२ ॥

अभ्युत्थायागतो रुद्रः परिष्वज्य तदा नृपम्॥
अर्द्धासनगतं कृत्वा इंद्रसेनं ततोऽब्रवीत्॥ ५.८३ ॥

किं दातव्यं नृपश्रेष्ठ प्रयच्छामि तवेप्सितम्॥
इति श्रुत्वा वचस्तस्य महेशस्य तदा नृपः॥
आनंदाश्रुकणान्मुंचन्प्रेम्णा नोवाच किंचन॥ ५.८४ ॥

तदा कृतो महेशेन पार्षदो हि महात्मना॥
चंडो नाम्नाच विख्यातोमुण्डस्य च सखा प्रियः॥ ५.८५ ॥

नामोच्चारणमात्रेण रुद्रस्य परमात्मनः॥
सिद्धिं प्राप्तो हि पापिष्ठ इद्रसेनो नराधिपः॥ ५.८६ ॥

रहेहरेति वै नाम्ना शंभोश्चक्रधरस्य च॥
रक्षिता बहवो मर्त्याः शिवेन परमात्मना॥ ५.८७ ॥

महेशान्नापरो देवो दृश्यतेभुवनत्रये॥
तस्मात्सर्वप्रयत्नेन पूजनीयः सदाशिवः॥ ५.८८ ॥

पत्रैःपुष्पैः फलैर्वापि जलैर्वा विमलैः सदा॥
करवीरैः पूज्यमानः शंकरो वरदो भवेत्॥ ५.८९ ॥

करवीराद्दशगुणमर्कपुष्पं विशिष्यते॥
विभूत्यादिकृतं सर्वं जगदेतच्चराचरम्॥ ५.९० ॥

शिवस्यांगणलग्ना या तस्मात्तां धारयेत्सदा॥
ततस्त्रिपुंड्रे यत्पुम्यं तच्छृणुध्वं द्विजोत्तमाः॥ ५.९१ ॥

सर्वपापहरं पुण्यं तच्छृणुध्वं द्विजोत्तमाः॥
स्तेनः कोऽपि महापापो घातितो राजदूतकैः॥ ५.९२ ॥

तं खादितुं समायातः श्वाशिरस्युपरिस्थितः॥
नखांतरालसंलग्ना रक्षा तस्यैव पापिनः॥ ५.९३ ॥

ललाटे पतिता तस्य त्रिपुंड्रांकिंतमुद्रया॥
चैतन्येन विना तस्य देहमात्रैकलग्नया॥ ५.९४ ॥

कैलासं तस्करो नीतो रुद्रदूतैस्ततस्तदा॥
विभूतेर्महिमानं तु को विशेषितुर्महति॥ ५.९५ ॥

विभूत्वा मंडितांगानां नराणां पुण्यकर्मणाम्॥
मुखे पंचाक्षरो येषां रुद्रास्ते नात्र शंशयः॥ ५.९६ ॥

जटाकलापिनो ये च ये रुद्राक्षविभूषणाः॥
ते वै मनुष्यरूपेण रुद्रा नास्त्यत्र संशयः॥ ५.९७ ॥

तस्मात्सदाशिवः पुंभिः पूजनीयो हि नित्यशः॥
प्रातर्मध्याह्नकाले च सायं संध्या विशिष्यते॥ ५.९८ ॥

प्रातस्तु दर्शनाच्छंभोर्नैशमेनो व्यपोहति॥
मध्याह्ने दर्शनाच्छंभोः सप्तजन्मार्जितं नृणाम्॥
पापं प्रणाशमायाति निशायां नैव गण्यते॥ ५.९९ ॥

शिवेति द्व्यक्षरं नाम महा पापप्रणाशनम्॥
येषां मुखोद्गतं नॄणां तैरिदं धार्यते जगत्॥ ५.१०० ॥

शिवांगणे तु या भेरी स्थापिता पुण्यकर्मभिः॥
तस्या नादेन पूता वै ये च पापरता जनाः॥
पाषंडिनोऽप्यसद्वादास्तेऽपि यांति परां गतिम्॥ ५.१०१ ॥

पशोर्यस्य च संबद्धा चर्मणा च शिवालये॥
नृभिर्या स्थापिता भेरी मृदंगमुरजादि च॥
स पशुः शिवसान्निध्यमाप्नोत्यत्र न संशयः॥ ५.१०२ ॥

तस्मात्ततं च विततं घनं सुषिरमेव च॥
चामराणि महार्हाणि मंचकाः शयनानि च॥ ५.१०३ ॥

गाथाश्च इतिहासाश्च गायनं च यथाविधि॥
बहुरूपादिकं शंभोः प्रियान्येतानि कल्पयेत्॥ ५.१०४ ॥

कल्पयित्वा च गच्छंति शिवलोकं हि पापिनः॥
सुधर्माणो महात्मानः शिवपूजाविशारदाः॥ ५.१०५ ॥

गुरोर्मुखाच्च संप्राप्तशिवपूजारताश्च ये॥
शिवरूपेण ये विश्वं पश्यंति कृतनिश्चयाः॥ ५.१०६ ॥

सम्यग्बुद्ध्या समाचारा वर्णाश्रमयुता नराः॥
ब्राह्मणाः क्षत्रिया वैश्वयाः शूद्राश्चान्ये तथा नराः॥ ५.१०७ ॥

श्वपचोऽपि वरिष्ठः स शंभोः प्रियतरो भवेत्॥
शंभुनाधिष्ठितं सर्वं जगदेतच्चराचरम्॥ ५.१०८ ॥

तस्मात्सर्वं शिवमयं ज्ञातव्यं सुविशेषतः॥
वेदैः पुराणैः शास्त्रैश्च तथौपनिपदैरपि॥ ५.१०९ ॥

आगमैर्विविधैः शंभुर्ज्ञातव्यो नात्र संशयः॥
निष्कामैश्च सकामैश्च पूजनीयः सदा शिवः॥ ५.११० ॥

॥लोमश उवाच॥
कथयामि पुरावृत्तमितिहासं पुरातनम्॥
नंदी नाम पुरा वैश्यो ह्यवंतीपुरमावसत्॥ ५.१११ ॥

शिवध्यानपरो भूत्वा शिवपूजां चकार सः॥
नित्यं तपोवनस्थं हि लिंगमेकं समर्चयत्॥ ५.११२ ॥

उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः॥
नंदीलिंगार्च्चनरतो बभूवातिशयेन हि॥ ५.११३ ॥

लिंगं पंचामृतेनैव यथोक्तेनाभ्यषेचयत्॥
विप्रैः समावृतो नित्यं वेदवेदांगपारगैः॥ ५.११४ ॥

यथाशास्त्रेण विधिना लिंगार्चनपरोऽभवत्॥
स्नापयित्वा ततः पुष्पैर्नानश्चर्यसमन्वितैः॥ ५.११५ ॥

मुक्ताफलैरिंद्रनीलैर्गोमेदैश्च निरंतरम्॥
वैडूर्यैश्चैव नीलैश्च माणिक्यैश्च तथार्चयत्॥ ५.११६ ॥

एवं नंदी महाभागो बहून्यब्दानि चार्च्चयत्॥
विजनस्थं तदा लिंगं नानाभोगसमन्वितम्॥ ५.११७ ॥

एकदा मृगयासक्तः किरातो भूतहिंसकः॥
अविवेकपरो भूत्वा मृगयारसिकः सदा॥ ५.११८ ॥

पापी पापसमाचारो विचरन्गिरिकंदरे॥
अनेकश्वापदाकीर्णे हन्यमान इतस्ततः॥ ५.११९ ॥

एवं विचरमाणोऽसौ किरातो भूतहिंसकः॥
यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम्॥ ५.१२० ॥

उदकं वीक्ष्माणोऽसौ तृषया पीडितो भृशम्॥
ततो वने सरः शीघ्रं दृष्ट्वा तोये समाविशत्॥ ५.१२१ ॥

तीरे संस्थाप्य दुष्टात्मा तत्सर्वं मृगयादिकम्॥
गंडूषोत्सर्जनं कृत्वा पीत्वा तोयं च निर्गतः॥ ५.१२२ ॥

शिवालयं ददर्शाग्रे अनेकाश्चर्यमंडितम्॥
दृष्टं सुपूजितं लिंगं नानारत्नैः पृथक्पृथक्॥ ५.१२३ ॥

तथा लिंगं समालक्ष्य यदा पूजां समाहरत्॥
रत्नानि सर्वभूतानि विधूतानि इतस्ततः॥ ५.१२४ ॥

स्नपनं तस्य लिंगस्य कृतं गंडूषवारीणा॥
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत्॥ ५.१२५ ॥

द्वितीयेन करेँणैव मृगमांसं समर्पयत्॥
दण्डप्रणामसंयुक्तः संकल्पं मनसाऽकरोत्॥ ५.१२६ ॥

अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः॥
त्वं मे स्वामी च भक्तोहमद्यप्रभृति शंकर॥ ५.१२७ ॥

एवं नैयमिको भूत्वा किरातो गृहमागतः॥
नन्दी ददर्श तत्सर्वं किरातेन इतस्ततः॥ ५.१२८ ॥

चिंतायुक्तोऽभवन्नंदी जातं किं छिद्रमद्य मे॥
कथितानि च विघ्नानि शिवपूजारतस्य च॥
उपस्थितानि तान्येव मम भाग्यविपर्ययात्॥ ५.१२९ ॥

एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम्॥
यथागतेन मार्गेण नंदी स्वगृहमागतः॥ ५.१३० ॥

ततो नंदिनमागत्य पुरोधा गतमानसम्॥
अब्रवोद्वचनं तं तु कस्मात्त्वं गतमानसः॥ ५.१३१ ॥

पुरोहितं प्रति तदा नन्दी वचनमब्रवीत्॥ ५.१३२ ॥

अद्य दृष्टं मया विप्र अमेध्यं शिवसंनिधौ॥
केनेदं कारितं तत्र न जानामि कथंचन॥ ५.१३३ ॥

ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तदा॥
येन विस्खलितं तत्र रत्नादीनां प्रपूजनम्॥
सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः॥ ५.१३४ ॥

तस्माच्चिंता न कर्तव्या त्वया अमुरपि प्रभो॥
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम्॥ ५.१३५ ॥

निरीक्षणार्थं दुष्टस्य तत्कार्यं विदधाम्यहम्॥
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः॥ ५.१३६ ॥

आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा॥
तस्यां रात्र्यां व्यतीतायामाहूय च पुरोधसम्॥ ५.१३७ ॥

गतः शिवालयं नन्दी समं तेन महात्मना॥
ततो दृष्टं पूर्वदिने कृतंतेन दुरात्मना॥ ५.१३८ ॥

सम्यक्प्रपूजनं कृत्वा नानारत्नपरिच्छदम्॥
पञ्चोपचारसंयुक्तं चैकादस्यन्वितं तथा॥ ५.१३९ ॥

अनेकस्तुतिभिः स्तुत्वा गिरीशं ब्राह्मणैः सह॥
तदा यामद्वयं जातं स्तूयमानस्य नंदिनः॥ ५.१४० ॥

आयातो हि महाकालस्थारूपो महाबलः॥
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान्॥ ५.१४१ ॥

तं दृष्ट्वा भयवित्रस्तो नन्दी स विललाप ह॥
पुरोधाश्चैव सहसा भयभीतस्तदाभवत्॥ ५.१४२ ॥

किरातेन कृतं तत्र यथापूर्वमविस्खलम्॥
तां पूजां प्रपदाहत्य बिल्वपत्रं समर्पयत्॥ ५.१४३ ॥

स्नपनं तस्य कृत्वा च ततो गंडूषवारिणा॥
नैवेद्यं तत्पलं चैव किरातः शिवमर्पयत्॥ ५.१४४ ॥

दण्डवत्पतितो भूमावुत्थाय स्वगृहं गतः॥
तद्दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम्॥ ५.१४५ ॥

पुरोधसा सह तदा नंदीव्याकुलचेतसा॥
तेन चाकारिता विप्रा बहवो वेदवादिनः॥ ५.१४६ ॥

निवेद्य तेषु तत्सर्वं किरातेन च यत्कृतम्॥
किं कार्यमथ भो विप्राः कथ्यतां च यथातथम्॥ ५.१४७ ॥

संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः॥
ऊचुः सर्वे तदा विप्रा नंदिनं चातिशंकिनम्॥ ५.१४८ ॥

इदं विघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि॥
तस्मादानय लिंगं त्वं स्वगृहं वैश्यसत्त्॥ ५.१४९ ॥

तथेति मत्वासौ नंदी शिवस्योत्पाटनं तदा॥
कृत्वा स्वगृह मानीय प्रतिष्ठाप्य यताविधि॥ ५.१५० ॥

सुवर्णपीठिकां कृत्वा नवरत्नसुशोभिताम्॥
उपचारैरनेकैश्च पूजयामास वै तदा॥ ५.१५१ ॥

अथापरे द्युरायातः कितरातः शिवमंदिरम्॥
यावद्विलोक्यामास लिंगमैशं न दृष्टवान्॥ ५.१५२ ॥

मौनं विहाय सहसा ह्याक्रोशन्निदमब्रवीत्॥
हे शंभो क्व गतोसि त्वं दर्शयात्मानमद्य वै॥ ५.१५३ ॥

न दृष्टोसि मया त्वं हि त्यजाम्यद्य कलेवरम्॥
हे शंभो हे जगन्नाथ त्रिपुरांतकर प्रभो॥ ५.१५४ ॥

हे रुद्र हे महादेवदर्शयात्मानमात्मना॥ ५.१५५ ॥

एवं साक्षेपमधुरैर्वाक्यैः क्षिप्तः सदाशिवः॥
किरातेन ततो रंगैर्वीरोसौ जठरं स्वकम्॥ ५.१५६ ॥

विभेदाशु ततो बाहूनास्फोट्यैव रुषाब्रवीत्॥
हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि॥ ५.१५७ ॥

इति क्षित्वा ततोंत्राणि मांसमुकृत्त्य सर्वतः॥
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत्॥ ५.१५८ ॥

स्वस्थं च हृदयं कृत्वा सस्नौ तत्सरसि ध्रुवम्॥
तथैव जलमानीय बिल्वपत्त्रं त्वरान्वितः॥ ५.१५९ ॥

पूजयित्वा यथान्यायं दंडवत्पतितो भुवि॥ ५.१६० ॥

ध्यानस्थितस्ततस्तत्र किरातः शिवसंनिधौ॥
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः॥ ५.१६१ ॥

कर्पूरगौरोद्युतिमान्कपर्दी चंद्रशेखरः॥
तं गृहीत्वा करे रुद्र उवाच परिसांत्वयन्॥ ५.१६२ ॥

भोभो वीर महाप्राज्ञ मद्भक्तोसि महामते॥
वरं वृणीष्वात्महितं यत्तेऽभिलषितं महत्॥ ५.१६३ ॥

एवमुक्तः स रुद्रेण महाकालो मुदान्वितः॥
पपात दंडवद्भूमौ भक्त्या परमया युतः॥ ५.१६४ ॥

ततो रुद्रं बभापे स वरं सम्प्रार्थयाम्यहम्॥
अहं दासोस्मि ते रुद्र त्वं मे स्वामी न संशयः॥ ५.१६५ ॥

एतद्बुद्धात्मनो भक्तिं देहि जन्मनिजन्मनि॥
त्वं माता च पिता त्वं च त्वं बंधुश्च सखा हि मे॥ ५.१६६ ॥

त्वं गुहुस्त्वं महामंत्रो मंत्रवेद्योऽसि सर्वदा॥
तस्मात्त्वदपरं नान्यत्त्रिषु लोकेषु किंचन॥ ५.१६७ ॥

निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः॥
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च॥ ५.१६८ ॥

तदा डमरुनादेन नादितं भुवनत्रयम्॥
भेरीभांकारशब्देन शंखानां निनदेन च॥ ५.१६९ ॥

तदा दुंदुबयो नेदुः पटहाश्चसहस्रशः॥
नंदी तं नादमाकर्ण्य विस्मयात्तवरीतो ययौ॥ ५.१७० ॥

तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः॥
किरातो हि तथा दृष्टो नंदिना च तदा भृशम्॥ ५.१७१ ॥

उवाच प्रश्रितो वाक्यं स नंदी विस्मयान्वितः॥
किरातं स्तोतुकामऽसौ परमेण समाधिना॥ ५.१७२ ॥

इहानीतस्त्वया शंभुस्त्वं भक्तोसि परंतप॥
त्वं भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे॥ ५.१७३ ॥

तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः॥
नंदिनं च करे गृह्य शंकरं समुपागतः॥ ५.१७४ ॥

प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत्॥
कोऽयं त्वया समानीतो गणानामिह सन्निधौ॥ ५.१७५ ॥

॥किरात उवाच॥
विज्ञप्तोऽसौ किरातेन शंकरो लोकशंकरः॥
तव भक्तः सदा देव तव पूजारतो ह्यसौ॥ ५.१७६ ॥

प्रत्यहं रत्नमाणिक्यैः पुष्पैश्चोच्चावचैरपि॥
जीवितेन धनेनापि पूजितोऽसि न संशयः॥ ५.१७७ ॥

तस्माज्जानीहि मन्मित्रं नंदिनं भक्तवत्सल॥ ५.१७८ ॥

॥महादेव उवाच॥
न जानामि महाभाग नंदिनं वैश्यचर्चितम्॥
त्वं मे भक्तः सखा चेति महाकाल महामते॥ ५.१७९ ॥

उपाधिरहिता च येऽपि चैव मनस्विनः॥
तेऽतीव मे प्रिया भक्तास्ते विशिष्टा नरोत्तमाः॥ ५.१८० ॥

तव भक्तो ह्यहं तात स च मे प्रियकृत्तरः॥
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना॥ ५.१८१ ॥

ततो विमानानि बहूनि तत्र समागतान्येव महाप्रभाणि॥
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण॥ ५.१८२ ॥

कैलासं पर्वतं प्राप्तौ विमानैर्वेगवत्तरैः॥
सारूप्यमेव संप्राप्तावीश्वरेण महात्मना॥ ५.१८३ ॥

नीराजितौ गिरिजया शिवेन सहितौ तदा॥
उवाचेदं ततो देवी प्रहस्य गजगामिनी॥ ५.१८४ ॥

यथा त्वं हि महादेव तथा चैतौ न संशयः॥
स्वरूपेण च गत्या च हास्यभावैः सुपूजितौ॥ ५.१८५ ॥

मया त्वमेक एवासीः सेवितो वै न संशयः॥
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च॥ ५.१८६ ॥

सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः॥
भवावस्त्वनुकंप्यौ च भवता हि त्रिलोचन॥ ५.१८७ ॥

तव द्वारि स्थितौ नित्यं भाववस्ते नमोनमः॥ ५.१८८ ॥

तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः॥
उवाच परया भक्त्या भवतोरस्तु वांछितम्॥ ५.१८९ ॥

तदा प्रभृति तावेतौ द्वारपालौ बभूवतुः॥
शिवद्वारि स्थितौ विप्रा मध्याह्ने शिवदर्शिनौ॥ ५.१९० ॥

एको नंदी महाकालो द्वावेतौ शिववल्लभौ॥
ऊचतुस्तौ मुदायुक्तावेक एव सदाशिवः॥ ५.१९१ ॥

एकांगुलिं समुद्धृत्य महादेवोभ्यभाषत॥
तथा नंदी उवाचेदमुद्धृत्य स्वांगुलिद्वयम्॥ ५.१९२ ॥

एवं संज्ञान्वितौ द्वारि तिष्ठतस्तौ महात्मनः॥
शंकरस्य महाभागाः श्रृण्वंतु ऋषयो ह्यमी॥ ५.१९३ ॥

शैलादेन पुरा प्रोक्तं शिवधर्ममनंतकम्॥
प्राणिनां कृपया विप्राः सर्वेषां दुष्कृतात्मनाम्॥ ५.१९४ ॥

ये पापिनोऽप्यधर्मिष्ठा अंधा मूकाश्च पंगवः॥
कुलहीना दुरात्मानः श्वपचा अपि मानवाः॥ ५.१९५ ॥

यादृशास्तादृशाश्चान्ये शिवभक्तिपुरस्कृताः॥
तेऽपि गच्छंति सांनिध्यं देवदेवस्य शूलिनः॥ ५.१९६ ॥

लिंगं सिकतामयं ये पूजयंति विपश्चितः॥
ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा॥ ५.१९७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवभक्तिमाहात्म्यवर्णनंनाम पंचमोऽध्यायः॥ ५ ॥ छ ॥