स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २३
वेदव्यासः
अध्यायः २४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
एतस्मिन्नंतरे तत्र महेशेन प्रणोदिताः॥
आजग्मुः सहसा सद्य ऋषयोऽपि हिमालयम्॥ २३.१ ॥

तान्दृष्ट्वा सहसोत्थाय हिमाद्रिः प्रतिमानसः॥
पूजयामास तान्सर्वानुवाच नतकंधरः॥ २३.२ ॥

किमर्थमागता यूयं ब्रूतागमनकारणम्॥
तदोचुः सप्त ऋषयो महेशप्रेरिता वयम्॥ २३.३ ॥

समागतास्त्वत्सकाशं कन्यायाश्च विलोकने॥
तानस्मान्विद्धि भोः शैल स्वां कन्यां दर्शयाशु वै॥ २३.४ ॥

तथेत्युक्त्वा ऋषिगणानानीता तत्र पार्वती॥
स्वोत्संगे परिगृह्याशु गिरीन्द्रः पुत्रवत्सलः॥
हिमवान्गिरिराजोऽथ उवाच प्रहसन्निव॥ २३.५ ॥

इयं सुता मदीया हि वाक्यं श्रुणुत मे पुनः॥
तपस्विनां वरिष्ठऽसौ विरक्तो मदनांतकः॥ २३.६ ॥

कथमुद्वहनार्थी च येनानंगः कृत स्मरः॥
अत्यासन्नेचातिदूरे आढ्ये धनविवर्जिते॥
वृत्तिहीने च मूर्खे च कन्यादानं न शस्यते॥ २३.७ ॥

मूढाय च विरक्ताय आत्मसंभाविताय च॥
आतुराय प्रमत्ताय कन्यादानं न कारयेत्॥ २३.८ ॥

तस्मान्मया विचार्यैव भवद्भिर्ऋषिसत्तमाः॥
प्रदातव्या महेशाय एतन्मे व्रतमुत्तमम्॥ २३.९ ॥

तच्छ्रुत्वा गिरिराजस्य वचनं ते महर्षयः॥
एकपद्येन ऊचुस्ते प्रहस्य च हिमालयम्॥ २३.१० ॥

यया कृतं तपस्तीव्रं यया चाराधितः शिवः॥
तपसा तेन संतुष्टः प्रसन्नोद्य सदाशिवः॥ २३.११ ॥

अस्यास्तस्य च भोः शैल न जानासि च किंचन॥
महिमानं परं चैव तस्मादेनां प्रयच्छ वै॥ २३.१२ ॥

शिवाय गिरिजामेनां कुरुष्य वचनं हि नः॥
तच्छ्रुत्वा वचनं तेषामृषीणां भावितात्मनाम्॥ २३.१३ ॥

उवाच त्वरया युक्तः पर्वतान्पर्वतेश्वरः॥
हे मेरो हे निषधकिं गन्धमादन मन्दर॥
मैनाक क्रियतामद्य शंसध्वं च यथातथम्॥ २३.१४ ॥

मेना तदा उवाचेदं वाक्यं वाक्यविशारदा॥
अधुना किं विमशन कृतं कार्यं तदैव हि॥ २३.१५ ॥

उत्पन्नेयं महाभागा देवकार्यार्थमेव च॥
प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिता॥ २३.१६ ॥

अनयाराधितो रुद्रो रुद्रेण परिभाविता॥
इयं महाभागा शिवाय प्रतिदीयताम्॥ २३.१७ ॥

निमित्तमात्रं च कृतं तया वै शिवपूजने॥
एतच्छ्रुत्वा वचस्तस्यामेनायाः परिभाषितम्॥ २३.१८ ॥

परितुष्टो हिमाद्रिश्च वाक्यं चेदमुवाच ह॥
ऋषीन्प्रति निरीक्षंस्तां कन्येयं मम संप्रति॥ २३.१९ ॥

ततः समानीय सुलोचनां तां श्यामां नितंबार्षितमेखलां शुभाम्॥
वैडूर्यमुक्तावलयान्दधानां भास्वत्प्रभां चांद्रमसीं व रेखम्॥ २३.२० ॥

लावण्यामृतवापिकां सुवदनां गौरीं सुवासां शुभां दृष्ट्वा ते ह्यृषयोऽपि मोहमगन्भ्रांतास्तदा संभ्रमात्॥
नोचुः किंचना वाक्यमेव सुधियो ह्यासन्प्रमत्ता इव स्तब्धाः कान्तिमतीमतीव रुचिरां त्रैलोक्यनाथप्रियाम्॥ २३.२१ ॥

एवं तदा ते ह्यृषयोऽपि मोहिता रूपेण तस्याः किमुताथ देवताः॥
तथैव सर्वे च निरीक्ष्य तन्वीं सतीं गिरिन्द्रस्य सुतां शिवप्रियाम्॥ २३.२२ ॥

ततः पुनश्चैत्य शिवं शिवप्रियाः शशंसुरस्मा ऋषयस्तदानीम्॥ २३.२३ ॥

॥ऋषय ऊचुः॥
भूषिता हि गिरीन्द्रेण स्वसुता नास्ति संशयः॥
उद्वोढुं गच्छ देवेश देवैश्च परिवारितः॥ २३.२४ ॥

गच्छ शीघ्रं महादेव पार्वतीमात्मजन्मने॥
तच्छ्रुत्वा वचनं तेषां प्रहस्येदमुवाच ह॥ २३.२५ ॥

विवाहो हि महाभागा न दृष्टो न श्रुतोऽपि वा॥
मया पुरा च ऋषयः कथ्यतां च विशेषतः॥ २३.२६ ॥

तदोचुर्ऋषयः सर्वे प्रहसंतः सदाशिवम्॥
विष्णुमाह्वय वै देव ब्रह्मणं च शतक्रतुम्॥ २३.२७ ॥

तथा ऋषिगणांश्चैव यक्षगन्धर्वपन्नगान्॥
सिद्धविद्याधरांश्चैव किंनरांश्चाप्सरोगणान्॥ २३.२८ ॥

एतांश्चान्यांश्च सुबहूनानयस्वेति सत्वरम्॥
तदाकर्ण्य ऋषिप्रोक्तं वाक्यं वाक्यविशारदः॥ २३.२९ ॥

उवाच नारदं देवो विष्णुमानय सत्वरम्॥
ब्रह्माणं च महेन्द्रं च अन्यांश्चैव समानय॥ २३.३० ॥

शंभोर्वचनमादाय शिरसा लोकपावनः॥
जगाम त्वरितो भूत्वा वैकुण्ठं विष्णुवल्लभः॥ २३.३१ ॥

ददर्श देवं परमासने स्थितं श्रिया च देव्या परिसेव्यमानम्॥
चतुर्भुजं देववरं महाप्रभं नीलोत्पलश्यामतनुं वरेण्यम्॥ २३.३२ ॥

महार्हरत्नावृतचारुकुण्डलं महाकिरीटोत्तमरत्नभास्वतम्॥
सुवैजयंत्या वनमालया वृतं स नारदस्तं भुवनैकसुन्दरम्॥ २३.३३ ॥

उवाच नारदोऽभ्येत्य शंभोर्वाक्यमथादरात्॥
ब्रह्मवीणां वाद्यवीणां वाद्यमानः सर्वज्ञ ऋषिसत्तमः॥ २३.३४ ॥

एह्येहि त्वं महाविष्णो महादेवं त्वरान्वितः॥
उद्वाहनार्थं शंभोश्च त्वमेकः कार्यसाधकः॥ २३.३५ ॥

प्रहस्य भगवान्प्राह नारदं प्रति वै तदा॥
कथमुद्वहने बुद्धिरुत्पन्ना तस्य शूलिनः॥
विज्ञातार्थोऽपि भगवान्नारदं परिपृष्टवान्॥ २३.३६ ॥

॥नारद उवाच॥
तपसा महता रुद्रः पार्वत्या परितोषितः॥
स्वयमेवागतस्तत्र यत्रास्ते गिरिजा सती॥ २३.३७ ॥

दासोऽहमवदच्छंभुः पार्वत्या परितोषितः॥
पार्वतीं च समभ्यर्थ्य वरयस्व च भामिनि॥ २३.३८ ॥

त्वरितेनावदच्छंभुस्त्वामाह्वयति संप्रति॥
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः॥
नारदेन समायुक्तः पार्षदैः परिवारितः॥ २३.३९ ॥

सुपर्णमारुह्य तदा महात्मा योगीश्वराणां प्रभुरच्युतो महान्॥
ययौ तदाऽऽकाशपथा हरिः स्वयं सनारदो देववरैः समेतः॥ २३.४० ॥

तं दृष्ट्वा त्वरितं देवो योगिध्येयांघ्रिपंकजः॥
अभ्युत्थाय मुदा युक्तः परिष्वज्य च शार्ङ्गिणम्॥ २३.४१ ॥

तदा हरिहरौ देवावैकपद्येन तिष्ठतः॥
ऊचुतुः स्म तदान्योन्यं क्षेमं कुशलमेव च॥ २३.४२ ॥

॥ईश्वर उवाच॥
गिरिजातपसा विष्णो जितोऽहं नात्र संशयः॥
पाणिग्रहार्थमेवाद्य गंतुकामो हिमालयम्॥ २३.४३ ॥

यथार्थेन च भो विष्णो कथयामि तवाग्रतः॥
यदा दक्षेण भो विष्णो प्रदत्ता च पुरा सती॥ २३.४४ ॥

न च संकल्पविधिना मया पाणिग्रहः कृतः॥
अधुनैव मया कार्यं कर्मविस्तारणं बहु॥ २३.४५ ॥

यत्कार्यं तन्न जानामि सर्वं पाणिग्रहोचितम्॥
शंभोस्तद्वचनं श्रुत्वा प्रहस्य मधुसूदनः॥ २३.४६ ॥

यावद्वक्तुं समारेभे तावद्ब्रह्मा समागतः॥
इंद्रेण सह सर्वैश्च लोकपालैस्त्वरान्वितः॥ २३.४७ ॥

तथैव देवासुरयक्षदानवा नागाः पतंगाप्सरसो महर्षयः॥
समेत्य सर्वे परिवक्तुमीशमूचुस्तदानीं शिरसा प्रणम्य॥ २३.४८ ॥

गच्छगच्छ महादेव अस्माभिः सहितः प्रभो॥
ततो विष्णुरुवाचेदं प्रस्तावसदृशंवचः॥ २३.४९ ॥

गृह्योक्तविधिना शंभो कर्म कर्तुमिहार्हसि॥ २३.५० ॥

नांदीमुखं मण्डपस्थापनं च तथा चैतत्कुरु धर्मेण युक्तम्॥
महानदीसंगमं वर्जयित्वा कुर्वंति केचिद्वेदमनीषिणश्च॥ २३.५१ ॥
मण्डपस्थापनं चैव क्रियतां ह्यधुना विभो॥
तथोक्तो विष्णुना शंभुश्चकारात्महिताय वै॥ २३.५२ ॥

ब्रह्मादिभिः कृतं तेन सर्वमभ्युदयोचितम्॥
ग्रहाणां पूजनं चक्रे कश्यपो ब्रह्मणा युतः॥ २३.५३ ॥

तथात्रिश्च वशिष्ठश्च गौतमोथ गुरुर्भृगुः॥
कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः॥ २३.५४ ॥

मार्कंडेयः शिलावाकः शून्यपालोऽक्षतश्रमः॥
अगस्त्यश्च्यवनो गर्गः शिलादोऽथ महामुनिः॥ २३.५५ ॥

एते चान्ये च बहवो ह्यागताः शिवसन्निधौ॥
ब्रह्मणा नोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम्॥ २३.५६ ॥

वेदोक्तविधिना सर्वे वेदवेदांगपारगाः॥
चक्रू रक्षां महेशस्य कृतकौतुकमंगलाम्॥ २३.५७ ॥

ऋग्यजुःसामसहितैः सूक्तैर्नानाविधैस्तथा॥
मंगलानि च भूरीणि ऋषयस्तत्त्ववेदिनः॥ २३.५८ ॥

अभ्यंजनादिकं सर्वं चक्रुस्तस्य परात्मनः॥
ख्यातः कपर्द्दस्तस्यैव शिवस्य परमात्मनः॥ २३.५९ ॥

अनेकैर्मौक्तिकैर्युक्ता मुण्डमालाऽभवत्तदा॥
ये सर्पा ह्यंगभूताश्च ते सर्वे तत्क्षणादिव॥
बभूवुर्मडनान्येव जातरूपमयानि च॥ २३.६० ॥

सर्वभूषणसंपन्नो देवदेवो महेश्वरः॥
ययौ देवैः परिवृतः शैलराजपुरं प्रति॥ २३.६१ ॥

चंडिका वरभगिनी तदा जाता भयावहा॥
प्रेतासना गता चण्डी सर्पाभरणभूषिता॥ २३.६२ ॥

हैमं कलशमादाय पूर्णं मूर्ध्ना महाप्रभा॥
परिवारैर्महाचंडी दीप्तास्या ह्युग्रलोचना॥ २३.६३ ॥

तत्र भूतान्यनेकानि विरूपाणि सहस्रशः॥
तैः समेताग्रतश्चंडी जगाम विकृतानना॥ २३.६४ ॥

तस्याः सर्वे पृष्ठतश्च गणाः परमदारुणाः॥
कोट्येकादशसंख्याका रौद्रा रुद्र प्रियाश्च ये॥ २३.६५ ॥

तदा डमरुनिर्घोषव्याप्तमासीज्जगत्त्रयम्॥
भेरीभांकारशब्देन शंखानां निनदेन च॥ २३.६६ ॥

तथा दुंदुभिनिर्घोषैः शब्दः कोलाहलोऽभवत्॥
गणानां पृष्ठतो भूत्वा सर्वे देवाः समुत्सुकाः॥
अन्वयुः सर्वसिद्धाश्च लोकपालैः समन्विताः॥ २३.६७ ॥

मध्ये व्रजन्महेंद्रोऽथ ऐरावतमुपास्थितः॥
शुभ्रेणो च्छ्रियमाणेन छत्रेण परमेण हि॥ २३.६८ ॥

चामरैर्वीज्यमानोऽसौ सुरैर्बहुभिरावृतः॥
तदा तु व्रजमानास्त ऋषयो बहवो ह्यमी॥ २३.६९ ॥

भरद्वाजादयो विप्राः शिवस्योद्वहनं प्रति॥
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः॥ २३.७० ॥

भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः॥
पृच्छमानास्तदा चंडीं पृष्ठतोऽन्वगमंस्तदा॥ २३.७१ ॥

क्व गता साऽधुना चंडी धावमानास्तदा भृशम्॥
प्राप्ता गता व्रजंतीं तां प्रणिपत्य महाप्रभाम्॥ २३.७२ ॥

अथ प्रोचुस्तदा सर्वे चंडीं भैरवसंयुताम्॥
विनास्माभिः कुतो यासि वद चंडि यथा तथा॥ २३.७३ ॥

प्रहस्योवाच सा चंडी भूतानां तत्र श्रृण्वताम्॥
शंभोरुद्वहनार्थाय प्रेतारूढा व्रजाम्यहम्॥ २३.७४ ॥

हैमं कलशमादाय शिरसा बिभ्रती स्वयम्॥
करवालीस्वरूपेण चंडी जाता ततः स्वयम्॥ २३.७५ ॥

भूतैः परिवृता सर्वैः सर्वेषामग्रतोऽव्रजत्॥
गणास्तामनुजग्मुस्ते गणानां पृष्ठतः सुराः॥ २३.७६ ॥

इंद्रादयो लोकपाला ऋषयस्तेऽग्रपृष्ठतः॥
ऋषीणां पृष्ठतो भूत्वा पार्षदाश्च महाप्रभाः॥ २३.७७ ॥

विष्णोरमितभावज्ञा मुकुंदाच्च मनोरमाः॥
सर्वे पयोदसंकाशाः स्रग्विणो वनमालिनः॥
श्रीवत्सांकधराः सर्वे पीतवासोन्विताश्च ते॥ २३.७८ ॥

चतुर्भुजाः कुंडलिनः किरीटकटकांगदैः॥
हारनूपुरसूत्रैश्च कटिसूत्राङ्गुलीयकैः॥
शोभिताः सर्व एवैते महापुरुषलक्षणाः॥ २३.७९ ॥

तेषां मध्ये गतो विष्णुः श्रियोपेतः सुरारिहा॥ २३.८० ॥

बभौ त्रिलोकीकृतविश्वमंगलो महानुभावैर्हृदि कृत्य धिष्ठितः॥
शिवेन साकं परमार्थदस्तदा हरिः परात्मा जगदेकबंधुः॥ २३.८१ ॥

स तार्क्ष्यपुत्रोपरि संस्थितो महाँल्लक्ष्म्या समेतो भुवनैकभर्ता॥
स चामरैर्वीज्यमानो मुनींद्रैः सर्वैः समेतो हरिरीश्वरो महान्॥ २३.८२ ॥

तथा विरिंचिर्निजवाहनस्थो वेदैः समेतः सह षड्भिरंगैः॥
तथागमैः सेतिहासैः पुराणैः स संवृतो हेमगर्भो बभूव॥ २३.८३ ॥

वेधोहरिभ्यां च तदा सुरेद्रैः समावृतश्चर्षिभिः संपरीतः॥
वृषारूढो वृषकेतुर्दुरापोयोगीश्वरैरपि सर्वैरगम्यः॥ २३.८४ ॥

शुद्धस्फटिकसंकाशं वृषभं धर्मवत्सलम्॥
समेतो मातृभिश्चैव गोभिश्च कृतलक्षणम्॥ २३.८५ ॥

एभिस्समेतोऽसुरदानवैः सह ययौ महेशो विबुदैरलंकृतः॥
हिमालयं गिरिवर्यं तदानीं पाणिग्रहार्थं प्रमदोत्तमायाः॥ २३.८६ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे श्रीशिवस्य विवाहवर्णनंनाम त्रयोविंशोऽध्यायः॥ २३ ॥