स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २४
वेदव्यासः
अध्यायः २५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
तथैव सर्वं परया मुदान्वितश्चक्रे गिरींद्रः स्वसुतार्थमेव॥
गर्गं पुरस्कृत्य महानुभावो मंगल्यभूमिं परया विभूत्या॥ २४.१ ॥

आहूय विश्वकर्माणं कारयामास सादरम्॥
मंडपं च सुविस्तीर्णं वेदिकाभिर्मनोरमम्॥ २४.२ ॥

अयुतेनैव विस्तारं योजनानां द्विजोत्तमाः॥
मंडपं च गुणोपेतं नानाश्चर्यसमन्विततम्॥ २४.३ ॥

स्थावरं जंगमं चैव सदृशं च मनोहरम्॥
जंगमं च जितं तत्र स्थावरेण तथैव च॥ २४.४ ॥

जंगमेन च तत्रैव जितं स्थावरमेव च॥
पयसा च जिता तत्र स्थलभूमिरभूत्तदा॥ २४.५ ॥

जलं किं नु स्थलं तत्र न विदुस्तत्त्वतो जनाः॥
क्वचित्सिंहाः क्वचिद्धंसाः सारसाश्च महाप्रभाः॥ २४.६ ॥

क्वचिच्छिखंडिनस्तत्र कृत्रिमाः सुमनोहराः॥
तथा नागाः कृत्रिमाश्च हयाश्चैव तथा मृगाः॥ २४.७ ॥

के सत्याः के असत्याश्च संस्कृता विश्वकर्मणा॥
तथैव चैवं विधिना द्वारपाः अद्भुताः कृताः॥ २४.८ ॥

पुंसो धनूंषि चोत्कृष्य स्थावरा जंगमोपमाः॥
तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः॥ २४.९ ॥

चामरैर्वीज्यमानाश्च केचित्पुष्पांकुरान्विताः॥
केचिच्च पुरुषास्तत्र विरेजुः स्रग्विणस्तथा॥ २४.१० ॥

कृत्रिमाश्च तथा बह्व्यः पताकाः कल्पितास्तथा॥
द्वारि स्थिता महालक्ष्मीः क्षीरोदधिसमुद्भवा॥ २४.११ ॥

गजाः स्वलंकृता ह्यासन्कृत्रिमा ह्यकृतोपमाः॥
तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः॥ २४.१२ ॥

रथा रथियुता ह्यासन्कृत्रिमा ह्यकृतोपमाः॥
सर्वेषां मोहनार्थाय तथा च संसदः कृताः॥ २४.१३ ॥

महाद्वारि स्थितो नंदी कृतस्तेन हि मंडपे॥
शुद्धस्फटिकसंकाशो यथा नंदी तथैव सः॥ २४.१४ ॥

तस्योपरि महद्दिव्यं पुष्पकं रत्नभूषितम्॥
राजितं पल्लवाच्छत्रैश्चामरैश्च सुशोभितम्॥ २४.१५ ॥

वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ॥
चतुर्दतौ षष्टिवर्षौ महात्मानौ महाप्रभौ॥ २४.१६ ॥

तथैव दक्षिणे पार्श्वे द्वावश्वौ दंशितौ कृतौ॥
रत्नालंकारसंयुक्ताँल्लोकपालांस्तथैव च॥ २४.१७ ॥

षोडशप्रकृतीस्तेन याथातथ्येन धीमता॥
सर्वे देवा यथार्थेन कृता वै विश्वकर्मणा॥ २४.१८ ॥

तथैव ऋषयः सर्वे भृग्वाद्यश्च तपोधनाः॥
विश्वे च पार्षदैः साकमिंद्रो हि परमार्थतः॥ २४.१९ ॥

कृताः सर्वे महात्मानो याथातथ्येन धीमता॥
एवंभूतः कृतस्तेन मंडपो दिव्यरूपवान्॥ २४.२० ॥

अनेकाश्चर्यसंभूतो दिव्यो दिव्यविमोहनः॥
एतस्मिन्नंतरे तत्र आगतो नारदोग्रतः॥ २४.२१ ॥

ब्रह्मणा नोदितस्तत्र हिमालयगृहं प्रति॥
नारदोथ ददर्शाग्रे आत्मानं विनयान्वितम्॥ २४.२२ ॥

भ्रांतो हि नारदस्तेन कृत्रिमेण महायशाः॥
अवलोकपरस्तत्र चरितं विश्वकर्मणः॥ २४.२३ ॥

प्रविष्टो मंडपं तस्य हिमाद्रे रत्नचित्रितम्॥
सुवर्णकलशैर्जुष्टं रंभाद्यैरुपशोभितम्॥ २४.२४ ॥

सहस३स्तम्भसंयुक्तं ततोऽद्रिः स्वगणैर्वृतः॥
तमृषिं पूजयामास किं कार्यमिति पृष्टवान्॥ २४.२५ ॥

॥नारद उवाच॥
आगतास्ते महात्मानो देवा इन्द्रपुरोगमाः॥
तथा महर्षयः सर्वे गणैश्च परिवारिताः॥
महादेवो वृषारूढो ह्यागतोद्वहनं प्रति॥ २४.२६ ॥

ततस्तद्वचनं श्रुत्वा हिमवान्गिरिसत्तमः॥
उवाच नारदं वाक्यं प्रशस्तमधुरं महत्॥ २४.२७ ॥

पूजयित्वा यथान्यायं गच्छ त्वं शंकरं प्रति॥ २४.२८ ॥

ततस्तद्वचनं श्रुत्वा मुनिर्हिमवतो गिरेः॥
तथैव मत्वा वचनं शैलराजानब्रवीत्॥
मेनाकेन च सह्येन मेरुणा गिरिणा सह॥ २४.२९ ॥

एभिः समेतो ह्यधुनामहामते यतस्व शीघ्रं शिवमत्र चानय॥
देवैः समेतं च महर्षिवर्यैः सुरासुरैर्चितपादपंकजम्॥ २४.३० ॥

तथेति मत्वा स जगाम तूर्णां सहै व तैः पर्वतराजभिश्च॥
त्वरागतश्चैकपदेन शंभुं प्राप्नोदृषीणां प्रवरो महात्मा॥ २४.३१ ॥

तावद्दृष्टो महादेवो देवैश्च परिवारितः॥
तदा ब्रह्मा च विष्णुश्च रुद्रश्चैव सुरैः सह॥ २४.३२ ॥

पप्रचछुर्नारदं सर्वे येऽन्ये रुद्रचरा भृशम्॥
कथ्यतां पृच्छमानानामस्माकं कथ्यते न हि॥ २४.३३ ॥

एकैकस्यात्मजाः स्वाः स्वाः सह्यमैनाकमेरवः॥
कन्यां दास्यंति वा शंभोः किं त्विदानीं प्रवर्तते॥ २४.३४ ॥

ततोऽवोचन्महातेजा नारदश्चर्षिसत्तमः॥
ब्रह्माणं पुरतः कृत्वा विष्णुं प्रति सहेतुकम्॥ २४.३५ ॥

एकांतमाश्रित्य तदा सुरेन्द्रं स नारदो वाक्यमिदं बभाषे॥
त्वष्ट्रा कृतं वै भवनं महत्तरं येनैव सर्वे च विमोहिता वयम्॥ २४.३६ ॥

पुरा कृतं तस्य महात्मनस्त्वया किं विस्मृतं तत्सकलं शचीपते॥
तस्मादसौ त्वां विजिगीषुकामो गृहे वसंस्तस्यगिरेर्महात्मनः॥ २४.३७ ॥

अहो विमोहितस्तेन प्रतिरूपेण भास्वता॥
तथा विष्णुः कृतस्तेन शंखचक्रगदादिभृत्॥ २४.३८ ॥

ब्रह्मा चैव तथाभूतस्तं चैव कृतवानसौ॥ २४.३९ ॥

मायामयो वृषभस्तेन वेषात्कृतो हि नागोश्वतरस्तथैव॥
तथा चान्यान्याप्यनेनामरेन्द्र सर्वाण्येवोल्लिखितान्यत्र विद्धि॥ २४.४० ॥

तच्छ्रुत्वा वचनं तस्य देवेंद्रो वाक्यमब्रवीत्॥ २४.४१ ॥

विष्णुं प्रति तदा शीघ्रं दृष्ट्वा यामि वसात्र भोः॥
पुत्रशोकेन तप्तोऽसौ व्याजेनान्येन वाऽकरोत्॥ २४.४२ ॥

तस्य तद्वचनं श्रुत्वा देवदेवो जनार्द्दनः॥
उवाच प्रहसन्वाक्यं शक्रमाप्तभयं तदा॥ २४.४३ ॥

निवातकवचैः पूर्वं मोहितोऽसि शचीपते॥
विद्याऽमृता तत्र मया समानीतोपसत्तये॥ २४.४४ ॥

महाविद्याबलेनैव प्रविश्य मण्डपेऽधुना॥
पर्वतो हिमवानेष तथान्ये पर्वतोत्तमाः॥ २४.४५ ॥

विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव॥
हेतुं स्मृत्वाथ वै त्वष्टा मायया ह्यकरोदिदम्॥ २४.४६ ॥

जयमिच्छंति वै मूढा न च भेतव्यमण्वपि॥ २४.४७ ॥

एवं विवदमानांस्तान्देवाञ्छक्रपुरोगमान्॥
सांत्वयामास वै विष्णुर्नारदं ते ततोऽब्रुवन्॥ २४.४८ ॥

ददाति वा न ददाति कन्यां गिरीन्द्रः स्वां वै कथ्यतां शीघ्रमेव॥
किं तेन दृष्टां किं कृतं चाद्य शंस तत्सर्वं भो नारद ते नमोऽस्तु॥ २४.४९ ॥

तच्छ्रुत्वा प्रहसञ्छंभुरुवाच वचनं तदा॥
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमालयः॥
मायया मम किं कार्यं वद विष्णो यथातथम्॥ २४.५० ॥

केनाप्वुपायेन फलं हि साध्यमित्युच्यते पंडितैर्न्यायविद्भिः॥
तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थोभिश्चेन्द्रपुरोगमैश्च॥ २४.५१ ॥

तदा शिवोऽपि विश्वात्मा पंचबाणेन मोहितः॥
महाभूतेन भूतेशस्त्वन्येषां चैव का कथा॥ २४.५२ ॥

एवं च विद्यमानेऽसौ शंभुः परमशोभनः॥
कृतो ह्यनंगेन वशे यथान्यः प्राकृतो जनः॥ २४.५३ ॥

मदनो हि बली लोके येन सर्वमिदं जगत्॥
जितमस्ति निजप्रौढ्या सदेवर्षिसमन्वितम्॥ २४.५४ ॥
सर्वेषामेव भूतानां देवानां च विशेषतः॥
राजा ह्यनंगो बलवान्यस्य चाज्ञा बलीयसी॥ २४.५५ ॥

पार्वतीस्त्रीस्वरूपेण अजेयो भुवनत्रये॥
तां दृष्ट्वा हि स्त्रियं सर्वे ऋषयोऽपि विचक्षणाः॥ २४.५६ ॥

देवा मनुष्या गन्धर्वाः पिशाचोरगराक्षसाः॥
आज्ञानुल्लंघिनः सर्वे मदनस्य महात्मनः॥ २४.५७ ॥

तपोबलेन महता तथा दानबलेन च॥
वेत्तुं न शक्यो मदंनो विनयेन विना द्विजाः॥ २४.५८ ॥

तस्मादनंगस्य महान्क्रोधो हि बलवत्तरः॥
ईश्वरं मदनेनैवं मोहितं वीक्ष्य माधवः॥ २४.५९ ॥

उवाच वाक्यं वाक्यज्ञो मा चिंतां कुरु वै प्रभो॥
यदुक्तं नारदेनैव मंडपं प्रति सर्वशः॥ २४.६० ॥

त्वष्ट्रा कृतं विचित्रं च तत्सर्वं मदनात्प्रभोः॥
तदानीं शंकरो वाक्यमुवाच मधुसूदनम्॥ २४.६१ ॥

अविद्यया वृतं तेन कृतं त्वष्ट्रा हि मण्डपम्॥
किं तु वक्ष्यामहे विष्णो मण्डपः केवलेन हि॥ २४.६२ ॥

विवाहो हि महाभाग अविद्यामूल एव च॥
तस्मात्सर्वे वयं याम उद्वाहार्थं च संप्रति॥ २४.६३ ॥

नारदं च पुरस्कृत्य सर्वे देवाः सवासवाः॥
हिमाद्रिसहिता जग्मुर्मन्दिरं परमाद्भुतम्॥
अनेकाश्चर्यसंयुक्तं विचित्रं विश्वकर्मणा॥ २४.६४ ॥

कृतं च तेनाद्य पवित्रमुत्तमं तं यज्ञवाटं बहुभिः पुरस्कृतम्॥
विचित्रचित्रं मनसो हरं च तं यज्ञवाटं स चकार बुद्धिमान्॥ २४.६५ ॥

प्रवेक्ष्यमाणास्ते सर्वे सुरेन्द्रा ऋषिभिः सह॥
दृष्टा हिमाद्रिणा तत्र अभ्युत्थानगतोऽभवत्॥ २४.६६ ॥

तथैव तेषां च मनोहराणि हर्म्याणि तेन प्रतिकल्पितानि॥
गन्धर्वयक्षाः प्रमथाश्च सिद्धा देवाश्च नागाप्सरसां गणाश्च॥
वसंति यत्रैव सुखेन तेभ्यः स तत्रतत्रोपवनं चकार॥ २४.६७ ॥

तेषामर्थे महार्हाणि धाराजिरगृहाणि च॥
अत्यद्भुतानि शोभंते कृतान्येव महात्मना॥ २४.६८ ॥

निवासार्थे कल्पितानि सावकाशानि तत्र वै॥
देवानां चैव सर्वेषामृषीणां भावितात्मनाम्॥ २४.६९ ॥

एवं विस्तारयामास विश्वकर्मा बहून्यपि॥
मन्दिराणि यथायोग्यं यत्र तत्रैव तिष्ठताम्॥ २४.७० ॥

भैरवाः क्षेत्रपालाश्च येऽन्ये च क्षेत्रवासिनः॥
श्मशानवासिनश्चान्ये येऽन्ये न्यग्रोधवासिनः॥ २४.७१ ॥

अश्वत्थसेविनश्चान्ये खेचराश्च तथा परे॥
येये यत्रोपविष्टाश्च तत्रतत्रैव तेन वै॥ २४.७२ ॥

कृतानि च मनोज्ञानि भवनानि महांतिवै॥
तेषामेवानुकूलानि भूतानां विश्वकर्मणा॥ २४.७३ ॥

तत्रैव ते सर्वगणैः समेता निवासितास्तेन हिमाद्रिणा स्वयम्॥
सेंद्राः सुरा यक्षपिशाचरक्षसां गन्धर्वविद्याप्सरसां समूहाः॥ २४.७४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे पार्वतीपरिणयने हिमाद्रिणा देवानां निवासस्थानकरणवर्णनंनाम चतुर्विंशोऽध्यायः॥ २४ ॥ छ ॥