स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः २५
वेदव्यासः
अध्यायः २६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
तत्रोपविविशुः सर्वे सत्कृताश्च हिमाद्रिणा॥
ते देवाः सपरिवाराः सहर्षाश्च सवाहनाः॥ २५.१ ॥

तत्रैव च महामात्रं निर्मितं विश्वकर्मणा॥
दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः॥ २५.२ ॥

तथैव विष्णोस्त्वपरं भवनं स्वयमेव हि॥
भास्वरं सुविचित्र च कृतं त्वष्ट्रा मनोरमम्॥
वण्डीगृहं मनोज्ञं च तथैव कृतवान्स्वयम्॥ २५.३ ॥

तथैव श्वेतं परमं मनोज्ञं महाप्रभं देववरैः सुपूजितम्॥
कैलासलक्ष्मीप्रभया महत्या सुशोभितं तद्भवनं चकार॥ २५.४ ॥

तत्रैव शंभुः परया विभूत्या स स्थापितस्तेन हिमाद्रिणा वै॥ २५.५ ॥

एतस्मिन्नंतरे मेना समायाता सखीगणैः॥
नीराजनार्थं शंभुं च ऋषिभिः परिवारिता॥ २५.६ ॥

तदा वादित्रदिर्घोपैर्नादितं भुवनत्रयम्॥
नीराजनं कृतं तस्य मेनया च तपस्विनः॥ २५.७ ॥

अवलोक्य परा साध्वी मेनाऽजानाद्धरं तदा॥
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता॥ २५.८ ॥

यद्वै पुरोक्तं च तया पार्वत्या मम सन्निधौ॥
ततोऽधिकं प्रपश्यामि सौंदर्यं परमेष्ठिनः॥
महेशस्य मया दृष्टमनिर्वाच्यं च संप्रति॥ २५.९ ॥

एवं विस्मयमापन्ना विप्रपत्नीभिरावृता॥
अहतां बरयुग्मेन शोभिता वरवर्णिनी॥ २५.१० ॥

कंचुकी परमा दिव्या नानारत्नैश्च शोभिता॥
अंगीकृता तदा देव्या रराज परया श्रिया॥ २५.११ ॥

बिभ्रती च तदा हारं दिव्यरत्नविभूषितम्॥
वलयानि महार्हाणि शुद्धचामीकराणि च॥ २५.१२ ॥

तत्रोपविष्टा सुभगा ध्यायंती परमेश्वरम्॥
सखीभिः सेव्यमाना सा विप्रपत्नीभिरेव च॥ २५.१३ ॥

एतस्मिन्नंतरे तत्र गर्गो वाक्यमभाषत॥
पाणिग्रहार्थं शंभुं च आनयध्वं स्वमंदिरम्॥
त्वरितेनैव वेलायामस्यामेव विचक्षणाः॥ २५.१४ ॥

तच्छ्रुत्वा वचनं तस्य गर्गस्य च महात्मनः॥
अभ्युत्थानपराः सर्वे पर्वताः सकलत्रकाः॥ २५.१५ ॥

महाविभूत्या संयुक्ताः सर्वे मंगलपाणयः॥
सालंकृतास्तदा तेषां पत्न्योलंकारमंडिताः॥ २५.१६ ॥

उपायनान्यनेकानि जगृहुः स्निग्धलोचनाः॥
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा॥ २५.१७ ॥

आजग्मुः सकलात्रास्ते यत्र देवो महेश्वरः॥
प्रमथैरावृतस्तत्र चंड्या चैवाभिसेवितः॥ २५.१८ ॥

तथा महर्षिभिस्तत्र तथा देवगणैः सह॥
एभिः परिवृतः श्रीमाञ्छंकरो लोकशंकरः॥ २५.१९ ॥

श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः॥
उत्थिता ऐकापद्येन देवैर्ऋषिभिरावृताः॥ २५.२० ॥

तथोद्यतो योगिनाचक्रयुक्ता गणा गणानां गणानां पतिरेकवर्चसाम्॥
शिवंपुरस्कृत्य तदानुभावास्तथैव सर्वे गणनायकाश्च॥ २५.२१ ॥

तद्योगिनी चक्रमतिप्रचंडं टंकारभेरीरवनिस्वनेन॥
चंडीं पुरस्कृत्य भयानकां तदा महाविभूत्या समलंकृतां तदा॥ २५.२२ ॥

कंठे कर्कोटकं नागं हारभूतं च कार सा॥
पदकं वृश्चिकानां च दंदशूकांश्च बिभ्रती॥ २५.२३ ॥

कर्णावतंसान्सा दध्रे पाणिपादमयांस्तथा॥
रणे हतानां वीराणां शिरांस्युरसिचापरान्॥ २५.२४ ॥

द्वीपिचर्मपरीधाना योगिनीचक्रसंयुता॥
क्षेत्रपालावृता तद्वद्भैरवैः परिवारिता॥ २५.२५ ॥

तथा प्रेतैश्च भूतैश्च कपटैः परिवारिता॥
वीरभद्रादयश्चैव गणाः परमदारुणाः॥
ये दक्षयज्ञनाशार्थे शिवेनाज्ञापितास्तदा॥ २५.२६ ॥

तथा काली भैरवी च माया चैव भयावहा॥
त्रिपुरा च जया चैव तथा क्षेमकरी शुभा॥ २५.२७ ॥

अन्याश्चैव तथा सर्वाः पुरस्कृत्य सदाशिवम्॥
गंतुकामाश्चोग्रतरा भूतैः प्रेतैः समावृताः॥ २५.२८ ॥

एताः सर्वा विलोक्याथ शिवभक्तो जनार्द्दनः॥
महर्षीश्च पुरस्कृत्य ह्यमरांश्च तथैव च॥
अनसूयां पुरस्कृत्य तथैव च ह्यरुंधतीम्॥ २५.२९ ॥

॥विष्णुरुवाच॥
चण्डीं कुरु समीपस्थां लोकपालनतां प्रभो॥ २५.३० ॥

तदुक्तं विष्णुना वाक्यं निशम्य जगदीश्वरः॥
उवाच प्रहसन्नेव चंडीं प्रति सदाशिवः॥ २५.३१ ॥

अत्रैव स्थीयतां चंडीं यावदुद्वहनं भवेत्॥
मम भावान्विजानासि कार्याकार्ये सुशोभने॥ २५.३२ ॥

एवमाकर्ण्य वचनं शंभोरमिततेजसः॥
उवाच कुपिता चंडी विष्णुमुद्दिश्य सादरम्॥ २५.३३ ॥

तथान्ये प्रमथाः सर्वे विष्णुमूचुः प्रकोपिताः॥
यत्रयत्र शिवो भाति तत्रतत्र वयं प्रभो॥ २५.३४ ॥

त्वया निवारिताः कस्माद्वयमाभ्युदये परे॥
तेषां तद्वचनं श्रुत्वा केशवोवाक्यमब्रवीत्॥ २५.३५ ॥

चण्डीमुद्दिश्य प्रमथानन्यांश्चैव तथाविधान्॥
यूयं चैव मया प्रोक्ता मा कोपं कर्त्तुमर्हथ॥ २५.३६ ॥

एवमुक्तास्तदा तेन चंडीमुख्या गणास्तदा॥
एकांतमाश्रिताः सर्वे विष्णुवाक्याज्ज्वलद्धृदः॥ २५.३७ ॥

तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः॥
सकलत्राः संभ्रमेण महेशं प्रति सत्वरम्॥ २५.३८ ॥

पंचवाद्यप्रघोषेण ब्रह्मघोषेण भूयसा॥
योषिद्भिः संवृतास्तत्र गीतशब्देन भूयसा॥ २५.३९ ॥

एवं प्राप्ता यत्र शंभुः सकलैः परिवारितः॥
आगत्य कलशैः साकं स्नापितो हि सदाशिवः॥
स्त्रीभिर्मंगलगीतेन सर्वाभरणभूषितः॥ २५.४० ॥

ऋषयो देवगंधर्वास्तथान्ये पर्वतोत्तमाः॥
शंभ्यग्रगास्तदा जग्मुः स्त्रियश्चैव सुपूजिताः॥
बभौ छत्रेण महता ध्रिमाणेन मूर्द्धनि॥ २५.४१ ॥

चामरै वीर्ज्यमानोऽसौ मुकुटेन विराजितः॥
ब्रह्मा विष्णुस्तथा चंद्रो लोकपालस्तथैव च॥ २५.४२ ॥

अग्रगा ह्यपि शोभंतः श्रिया परमया युताः॥
तथा शंखाश्च भेर्यश्च पटहानकगोमुखाः॥ २५.४३ ॥

तथैव गायकाः सर्वे परममंगलम्॥
पुनः पुनरवाद्यंत वादित्राणि महोत्सवे॥ २५.४४ ॥

अरुंधती महाभागा अनसूया तथैव च॥
सावित्री च तथा लक्ष्मीर्मातृभिः परिवारिताः॥ २५.४५ ॥

एभिः समेतो जगदेकबंधुर्बभौ तदानीं परमेण वर्चसा॥
सचंद्रसूर्यानिलवायुना वृतः सलोकपालप्रवरैर्महर्षिभिः॥ २५.४६ ॥

स वीज्यमानः पवनेनः साक्षाच्छत्रं च तस्मै शशिना ह्यधिष्ठितम्॥
सूर्यः पुरस्तादभवत्प्रकाशकः श्रियान्वितो विष्णुरभूच्च सन्निधौ॥ २५.४७ ॥

पुष्पैर्ववर्षुर्ह्यवकीर्यमाणा देवास्तदानीं मुनिभिः समेताः॥
ययौ गृहं कांचनकुट्टिमं महन्महावि भूत्यापरिशोभितं तदा॥
विवेश शंभुः परया सपर्यया संपूज्यमानो नरदेवदानवैः॥ २५.४८ ॥

एवं समागतः शंभुः प्रविष्टो यज्ञमण्डपम्॥
संस्तूयमानो विबुधैः स्तुतिभिः परमेश्वरः॥ २५.४९ ॥

गजादुत्तारयामास महेशं पर्वतोत्तमः॥
उपविश्य ततः पीठे कृत्वा नीराजनं महत्॥ २५.५० ॥

मेनया सखिभिः साकं तथैव च पुरोधसा॥
मधुपर्कादिकं सर्वं यत्कृतं चैव तत्र वै॥ २५.५१ ॥

ब्रह्मणा नोदितः सद्यः पुरोधाः कृतवान्प्रभुः॥
मंगलं शुभकल्याणं प्रस्तावसदृशं बहु॥ २५.५२ ॥

अंतर्वेद्यां संप्रवेश्य यत्र सा पार्वती स्थिता॥
वेदिकोपरि तन्वंगी सर्वाभरणभूषिता॥ २५.५३ ॥

तत्रानीतो हरः साक्षाद्विष्णुना ब्रह्मणा सह॥
लग्नं निरीक्षमाणास्ते वाचस्पतिपुरोगमाः॥ २५.५४ ॥

गर्गो मुनिश्चोपविष्टस्तत्रैव घटिकालये॥
यावत्पूर्णा घटी जाता तावत्प्रणवभाषणम्॥ २५.५५ ॥

ॐपुण्येति प्रणिगदन्गर्गो वध्वंजलिं दधे॥
पार्वत्यक्षतपूर्णं च शिवोपरि ववर्ष वै॥ २५.५६ ॥

तया संपूजितो रुद्रो दध्यक्षतकुशादिभिः॥
मुदा परमया युक्ता पार्वती रुचिरानना॥ २५.५७ ॥

विलोकयंती शंभुं तं यदर्थे परमं तपः॥
कृतं पुरा महादेव्या परेषां परमं महत्॥ २५.५८ ॥

तपसा तेन संप्राप्तो जगज्जीवनजीवनः॥
नारदेन ततः प्रोक्तो महादेवो वृषध्वजः॥ २५.५९ ॥

तथा गंगादिभिश्चन्यैर्मुनिभिः सनकादिभिः॥
प्रति पूजां कुरु क्षिप्रं पार्वत्याश्च त्रिलोचन॥
तदा शिवेन सा तन्वी पूजितार्घ्याक्षतादिभिः॥ २५.६० ॥

एवं परस्परं तौ च पार्वतीपरमेश्वरौ॥
अर्च्यमानौ तदानीं च शुशुभाते जगन्मयौ॥ २५.६१ ॥

त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षंतौ परस्परम्॥
तदा नीराजितौ लक्ष्म्या सावित्र्या च विशेषतः॥
अरुंधत्या तदा तौ च दंपती परमेश्वरौ॥ २५.६२ ॥

अनसूया तथा शंभुं पार्वतीं च यशस्विनीम्॥
दृष्ट्वा नीराजयामास प्रीत्युत्कलितलोचना॥ २५.६३ ॥

तथैव सर्वा द्विजयोषितश्च नीराजयामासुरहो पुनः पुनः॥
सतीं च शंभुं च विलोकयंत्यस्तथैव सर्वा मुदिता हसंत्यः॥ २५.६४ ॥

॥लोमश उवाच॥
एतस्मिन्नंतरे तत्र गर्गाचार्यप्रणोदितः॥
हिमवान्मेनया सार्द्धं कन्यां दातुं प्रचक्रमे॥ २५.६५ ॥

हैमं कलशमादाय मेना चार्द्धां गामाश्रिता॥
हिमाद्रेश्च महाभागा सर्वाभरणभूषिता॥ २५.६६ ॥

तदा हिमाद्रिणा प्रोक्तो विश्वनाथो वरप्रदः॥
ब्रह्मणा सह संगत्य विष्णुना च तथैव च॥ २५.६७ ॥

सार्द्धं पुरोधसा चैव गर्गेण सुमहात्मना॥
कन्यादानं करोम्यद्य देवदेवस्य शूलिनः॥ २५.६८ ॥

प्रयोगो भण्यतां ब्रह्मन्नस्मिन्समय आगते॥
तथेति मत्वा ते सर्वे कालज्ञा द्विजसत्तमाः॥ २५.६९ ॥

कथ्यतां तात गोत्रं स्वं कुलं चैव विशेषतः॥
कथयस्व महाभाग इत्याकर्ण्य वचस्तथा॥
सुमुखेन विमुखः सद्यो ह्यशोच्यः शोच्यतां गतः॥ २५.७० ॥

एवंविधः सुरवरैर्ऋषिभिस्तदानीं गंधर्वयक्षमुनिसिद्धगणैस्तथैव॥
दृष्टो निरुत्तरमुखो भगवान्महेशो हास्यं चकार सुभृशं त्वथ नारदश्च॥ २५.७१ ॥

वीणां प्रकटयामास ब्रह्मपुत्रोऽथ नारदः॥
तदानीं वारितो धीमान्वीणां मा वादय प्रभो॥ २५.७२ ॥

इत्युक्तः पर्वतेनैव नारदो वाक्यमब्रवीत्॥
त्वया पृष्टो भवः साक्षात्स्वगोत्रकथनं प्रति॥ २५.७३ ॥

अस्य गोत्रं कुलं चैव नाद एव परं गिरे॥
नादे प्रतिष्ठितः शंभुर्नादो ह्यस्मिन्प्रतिष्ठितः॥ २५.७४ ॥

तस्मान्नादमयः शंभुर्नादाच्च प्रतिलभ्यते॥
तस्माद्वीणा मया चाद्य वादिता हि परंतप॥ २५.७५ ॥

अस्य गोत्रं कुलं नाम न जानंति हि पर्वत॥
ब्रह्मादयो हि विवुधा अन्येषां चैव का कथा॥ २५.७६ ॥

त्वं हि मूढत्वमापन्नो न जानासि हि किंचन॥
वाच्यावाच्यं महेशस्य विषया हि बहिर्मुखाः॥ २५.७७ ॥

येये आगमिकाश्चाद्रे नष्टास्ते नात्र संशयः॥
अरूपोयं विरूपाक्षो ह्यकुलीनोऽयमुच्यते॥ २५.७८ ॥

अगोत्रोऽयं गिरिश्रेष्ठ जामाता ते न संशयः॥
न कर्त्तव्यो विमर्शोऽत्र भवता विबुधेन हि॥ २५.७९ ॥

न जानंति हरं सर्वे किं बहूक्त्या मम प्रभो॥
यस्याज्ञानान्महाभाग मोहिता ऋषयो ह्यमी॥ २५.८० ॥

ब्रह्मापि तं न जानाति मस्तकं परमेष्ठिनः॥
विष्णुर्गतो हि पातालं न दृष्टो हि तथैव च॥ २५.८१ ॥

तेन लिंगेन महता ह्यगाधेन जगत्त्रयम्॥
व्याप्तमस्तीति तद्विद्धि किमनेन प्रयोजनम्॥ २५.८२ ॥

अनयाराधितं नूनं तव पुत्र्या हिमालय॥
तत्त्वतो हि न जानासि कथं चैव महागिरे॥ २५.८३ ॥

आभ्यामुत्पाद्यते विश्वमाभ्यां चैव प्रतिष्ठितम्॥
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः॥ २५.८४ ॥

हिमाद्रिप्रमुखाः सर्वे तथा चेंद्रपुरोगमाः॥
साधुसाध्विति ते सर्वे ऊचुर्विस्मितमानसाः॥ २५.८५ ॥

ईश्वरस्य तु गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः॥
विस्मयेन समाश्लिष्टा ऊचुः सर्वे परस्परम्॥ २५.८६ ॥

॥ऋषय ऊचुः॥
यस्याज्ञया जगदिदं च विशालमेव जातं परात्परमिदं निजबोधरूपम्॥
सर्वं स्वतंत्रपरमेश्वरभागम्यं सोऽसौ त्रिलोकनिजरूपयुतो महात्मा॥ २५.८७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीविवाहवर्णनंनाम पंचविंशोऽध्यायः॥ २५ ॥ छ ॥