स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ९
वेदव्यासः
अध्यायः १० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
एकदा तु सभामध्य आस्थितो देवराट् स्वयम्॥
लोकपालैः परिवृतो देवैश्च ऋषिभिस्तथा॥ ९.१ ॥

अप्सरोगणसंवीतो गंधर्वैश्च पुरस्कृतः॥
उपगीयमानविजयः सिद्धविद्याधरैरपि॥ ९.२ ॥

तदा शिष्यैः परिवृतो देवराजगुरुः सुधीः॥
आगतोऽसौ महाभागो बृहस्पति रुदारधीः॥ ९.३ ॥

तं दृष्ट्वा सहसा देवाः प्रणेमुः समुपस्थिताः॥
इंद्रोपि ददृशे तत्र प्राप्तं वाचस्पतिं तदा॥ ९.४ ॥

नोवाच किंचिद्दुर्मेधावचो मानुपुरःसरम्॥
नाह्वानं नासनं तस्य न विसर्जनमेव च॥ ९.५ ॥

शक्रं प्रमत्तं ज्ञात्वाथ मदाद्राज्यस्य दुर्मतिम्॥
तिरोधानमनुप्राप्तो बृहस्पती रुषान्वितः॥ ९.६ ॥

गते देवगुरौ तस्मिन्विमनस्काऽभवन्सुराः॥
यक्षा नागाः सगंधर्वा ऋषयोऽपि तथा द्विजाः॥ ९.७ ॥

गांधर्वस्या वसाने तु लब्धसंज्ञो हरिः सुरान्॥
पप्रच्छ त्वरितेनवै क्व गतो हि महातपाः॥ ९.८ ॥

तदैव नारदेनोक्तः शक्रो देवाधिपस्तथा॥
त्वया कृता ह्यवज्ञा च गुरोर्नस्त्यत्र संशयः॥ ९.९ ॥

गुरोरवज्ञया राज्यं गतं ते बलसूदन॥
तस्मात्क्षमापनीयोऽसौ सर्वभावेन हि त्वया॥ ९.१० ॥

एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः॥
आसनात्सहसोत्थाय तैः सर्वैः परिवारितः॥
आगच्छत्त्वरया शक्रो गुरोर्गेहमतंद्रितः॥ ९.११ ॥

पृष्ट्वा तारां प्रणम्यादौ क्व गतो हि महातपाः॥
न जानामीत्युवाचेदं तारा शक्रं निरीक्षती॥ ९.१२ ॥

तदा चिंतान्वितो भूत्वा शक्रः स्वगृहमाव्रजत्॥
एतस्मिन्नंतरे स्वर्गे ह्यनिष्टान्द्भुतानि च॥ ९.१३ ॥

अभवन्सर्वदुःखार्थे शक्रस्य च महात्मनः॥
पातालस्थेन बलिना ज्ञातं शक्रस्य चेष्टितम्॥ ९.१४ ॥

ययौ दैत्यैः परिवृतः पातालादमरावतीम्॥
तदा युद्धमतीवासीद्देवानां दानवैः सह॥ ९.१५ ॥

देवाः पराजिता दैत्यै राज्यं शक्रस्य तत्क्षणात्॥
संप्राप्तं सकलं तस्य मूढस्य च दुरात्मनः॥ ९.१६ ॥

नीतं सर्वप्रयत्नेन पातालं त्वरितं गताः॥
शुक्रप्रसादात्ते सर्वे तथा विजयिनोऽभवन्॥ ९.१७ ॥

शक्रोऽपि निःश्रिको जातो देवैस्त्यक्तस्ततो भृशम्॥
देवी तिरोधानगता बभूव कमलेक्षणा॥ ९.१८ ॥

ऐरावतो महानागस्तथैवोच्चैःश्रवा हयः॥
एवमादीनि रत्नानि अनेकानि बहून्यपि॥
नीतानि सहसा दैत्यैर्लोभादसाधुवृत्तिभिः॥ ९.१९ ॥

पुण्यभांजि च तान्येव पतितानि च सागरे॥
तदा स विस्मयाविष्टो बलिराह गुरुं प्रति॥ ९.२० ॥

देवान्निर्जित्य चास्माभिरानीतानि बहूनि च॥
रत्नानि तु समुद्रेऽथ पतितानि तदद्भुतम्॥ ९.२१ ॥

बलेस्तद्वचनं श्रुत्वा उशना प्रत्युवाच तम्॥
अश्वमेधशतेनैव सुरराज्यं भविष्यति॥
दीक्षितस्य न संदेहस्तस्माद्भोक्त स एव च॥ ९.२२ ॥

अश्वमेधं विना किंचित्स्वर्गं भोक्तं न पार्यते॥ ९.२३ ॥

गुरोर्वचनमाज्ञाय तूष्णींभूतो बलिस्ततः॥
बभूव देवैः सार्द्धं च यथोचितमकारयत्॥ ९.२४ ॥

इन्द्रोपि शोच्यतां प्राप्तो जगाम परमेष्ठिनम्.॥
विज्ञापयामास तथा सर्वं राज्यभयादिकम्॥ ९.२५ ॥

शक्रस्य वचनं श्रुत्वा परमेष्ठी उवाच ह॥ ९.२६ ॥

संमिलित्वा सुरान्सर्वांस्त्वया साकं त्वरान्विताः॥
आराधनार्थं गच्छामो विष्णुं सर्वेश्वरेश्वरम्॥ ९.२७ ॥

तथेति गत्वा ते सर्वे शक्राद्या लोकपालकाः॥
ब्रह्माणं च पुरस्कृत्य तटं क्षीरार्णवस्य च॥
प्राप्योपविश्य ते सर्वे हरिं स्तोतुं प्रचक्रमुः॥ ९.२८ ॥

॥ब्रह्मोवाच॥
देवदेव जगान्नाथ सुरासुरनमस्कृत॥
पुण्यश्लोकाव्ययानंत परमात्मन्नमोऽस्तु ते॥ ९.२९ ॥

यज्ञोऽसि यज्ञरूपोऽसि यज्ञांगोऽसि रमापते॥
ततोऽद्य कृपया विष्णो देवानां वरदो भव॥ ९.३० ॥

गुरोरवज्ञया चाद्य भ्रष्टराज्यः शतक्रतुः॥
जातः सुरर्षिभिः साकं तस्मादेनं समुद्धर॥ ९.३१ ॥

॥श्रीभगवानुवाच॥
दुकोकलज्ञया सर्वं नस्यतीति किमद्भुतम्॥
ये पापिनो ह्यधर्मिष्ठाः केवलं विषयात्मकाः॥
पितरौ निंदितौ यैश्च निर्दैवात्वेन संशयः॥ ९.३२ ॥

अनेन यत्कृतं ब्रह्मन्सद्यस्तत्फलमागतम्॥
कर्मणा चास्य शक्रस्य सर्वेषां संकटागमः॥ ९.३३ ॥

विपरीतो यदा कालः पुरुषस्य भवेत्तदा॥
भूतमैत्रीं प्रकुर्वंति सर्वकार्यार्थसिद्धये॥ ९.३४ ॥

तेन वै कारणेनेंद्र मदीयं वचनं कुरु॥
कार्यहेतोस्त्वया कार्यो दैत्यैः सह समागमः॥ ९.३५ ॥

एवं भगवतादिष्टः शक्रः परमबुद्धिमान्॥
अमरावतीं ययौ हित्वा सुतलं दैवतैः सह॥ ९.३६ ॥

इन्द्रं समागतं श्रुत्वा इंद्रसेनो रुषान्वितः॥
बभूव सह सैन्येन हंतुकामः पुरंदरम्॥ ९.३७ ॥

नारदेन तदा दैत्या बलिश्च बलिनां वरः॥
निवारितस्तद्वधाच्च वाक्यैरुच्चावचैस्तथा॥ ९.३८ ॥

ऋषेस्तस्यैव वचनात्त्यक्तमन्युर्बलिस्तदा॥
बभूव सह सैन्येन आगतो हि शतक्रतुः॥ ९.३९ ॥

इन्द्रसेनेन दृष्टोऽसौ लोकपालैः समावृतः॥
उवाच त्वरया युक्तः प्रहसन्निव दैत्यराट्॥ ९.४० ॥

कस्मादिहागतः शक्र सुतलं प्रति कथ्यताम्॥
तस्यैतद्वचनं श्रुत्वा स्मयमान उवाचतम्.। ९.४१ ॥

वयं कश्यपदायादा यूयं सर्वे तथैव च॥
यथा वयं तथा यूयं विग्रहो हि निरर्थकः॥ ९.४२ ॥

मम राज्यं क्षणेनैव नीतं दैववशात्तवया॥
तथा ह्येतानि तान्येन रत्नानि सुबहून्यपि॥
गतानि तत्क्षणादेव यत्नानीतानि वै त्वया॥ ९.४३ ॥

तस्माद्विमर्शः कर्तव्यः पुरुषेण विपश्चिता॥
विमर्शज्जायते ज्ञानं ज्ञानान्मोक्षो भविष्यति॥ ९.४४ ॥

किं तु मे बत उक्तेन जाने न च तवाग्रतः॥
शरणार्थी ह्यहं प्राप्तः सुरैः सह तवांतिकम्॥ ९.४५ ॥

एतच्छ्रुत्वा तु शक्रस्य वाक्यं वाक्यविदां वरः॥
प्रहस्योवाच मतिमाञ्छक्रं प्रति विदां वरः॥ ९.४६ ॥

त्वमागतोसि देवेंद्र किमर्थं तन्न वेद्मयहम्॥ ९.४७ ॥

शक्रस्तद्वचनं श्रुत्वा ह्यश्रुपूर्णाकुलेक्षणः॥
किंचिन्नोवाच तत्रैनं नारदो वाक्यमब्रवीत्॥ ९.४८ ॥

बले त्वं किं न जानासि कार्याकार्यविचारणाम्॥
धर्मो हि महतामेष शरणागतपालनम्॥ ९.४९ ॥

शरणागतं च विप्रं च रोगिणं वृद्धमेव च॥
यएतान्न च रक्षंति ते वै ब्रह्महणो नराः॥ ९.५० ॥

शरणागतशब्देन आगतस्तव सन्निधौ॥
संरक्षणाय योग्यश्च त्वया नास्त्यत्र संशयः॥
एवमुक्तो नारदेन तदा दैत्यपतिः स्वयम्॥ ९.५१ ॥

विमृश्य परया बुद्ध्या कार्याकार्यविचारणाम्॥
शक्रं प्रपूजयामास बहुमानपुरःसरम्॥
लोकपालैः समेतं च तथा सुरगणैः सह॥ ९.५२ ॥

प्रत्ययार्थं च सत्त्वानि ह्यनेकानि व्रतानि वै॥
बलिप्रत्ययभूतानि स चकारः पुरंदरः॥ ९.५३ ॥

एवं स समयं कृत्वा शक्रः स्वार्थपरायणः॥
बलिना सह चावासीदर्थशास्त्रपरो महान्॥ ९.५४ ॥

एवं निवसतस्तस्य सुतलेऽपि शतक्रतोः॥
वत्सरा बहवो ह्यासंस्तदा बुद्धिमकल्पयत्॥
संस्मृत्य वचनं विष्णोर्विमृश्य च पुनःपुनः॥ ९.५५ ॥

एकदा तु सभामध्य आसीनो देवराट्‌स्वयम्॥
उवाच प्रहसन्वाक्यं बलिमुद्दिश्य नीतिमान्॥ ९.५६ ॥

प्राप्तव्यानि त्वया वीर अस्माकं च त्वया बले॥
गजादीनि बहून्येव रत्नानि विविधानि च॥ ९.५७ ॥

गतानि तत्क्षणादेव सागरे पतितानि वै॥
प्रयत्नो हि प्रकर्तव्यो ह्यस्माभिस्त्वयान्वितैः॥ ९.५८ ॥

तेषां चोद्धरणे दैत्य रत्नानामिह सागरात्॥
तर्हि निर्मथनं कार्यं भवता कार्यसिद्धये॥ ९.५९ ॥

बलिः प्रवर्तितस्तेन शक्रेण सुरसूदनः॥
उवाच शक्रं त्वरितः केनेदं मथनं भवेत्॥ ९.६० ॥

तदा नभोगता वाणी मेघगंभीरनिःस्वना॥
उवाच देवा दैत्याश्च मंथध्वं क्षीरसागरम्॥ ९.६१ ॥

भवतां बलवृद्धिश्च भविष्यति न संशयः॥ ९.६२ ॥

मंदरं चैव मंथानं रज्जुं कुरुत वासुकिम्॥
पश्चाद्देवाश्च दैत्याश्च मेलयित्वा विमथ्यताम्॥ ९.६३ ॥

नभोगतां च तां वाणीं निशम्याथ तदाःसुराः॥
दैत्यैः सार्द्धं ततः सर्व उद्यमं चक्रुरुद्यताः॥ ९.६४ ॥

पातालान्निर्गताः सर्वे तदा तेऽथ सुरासुराः॥
आजग्मुरतुलं सर्वे मंदरं पर्वतोत्तमम्॥ ९.६५ ॥

दैत्याश्च कोटिसंख्याकास्तथा देवा न संशयः॥
उद्युक्ताः सहसा प्राऽयुर्मंदरं कनकप्रभम्॥ ९.६६ ॥

सरत्नं वर्तुलाकारं स्थूलं चैव महाप्रभम्॥
अनेकरत्नसंवीतं नानाद्रुमनिषेवितम्॥ ९.६७ ॥

चंदनैः पारिजातैश्च नागपुन्नागचंपकैः॥
नानामृगगणाकीर्णं सिंहशार्दूलसेवितम्॥ ९.६८ ॥

महाशैलं दृष्ट्वा ते सुरसत्तमाः॥
ऊचुः प्रांजलयः सर्वे तदा ते सुरसत्तमाः॥ ९.६९ ॥

॥देवा ऊचुः॥
अद्रे सुरा वयं सर्वे विज्ञप्तुमिह चागताः॥
तच्छृणुष्व महाशैल परेषामुपकारकः॥ ९.७० ॥

एवमुक्तस्तदा शैलो दवैर्दैत्यैः स मंदरः॥
उवाच निःसृतो भूत्वा परं विग्रहवान्वचः॥ ९.७१ ॥

तेन रूपेण रूपी स पर्वतो मंदराचलः॥
किमर्थमागताः सर्वे मत्समीपं तदुच्यताम्॥ ९.७२ ॥

तदा बलिरुवाचेदं प्रस्तावसदृशं वचः॥
इंद्रोपि त्वरया युक्तो बभाषे सूनृतं वचः॥ ९.७३ ॥

अस्माभिः सह कार्यार्थे भव त्वं मंदराचल॥
अमृतोत्पादनार्थे त्वं मंथानं भव सुव्रत॥ ९.७४ ॥

तथेति मत्वा तद्वाक्यं देवानां कार्यसिद्धये॥
ऊचे देवासुरांश्चेदमिन्द्रं प्रति विशेषतः॥ ९.७५ ॥

छेदितौ च त्वया पक्षौ वज्रेण शतपर्वणा॥
गंतुं कथं समर्थोऽहं भवतां कार्यसिद्धये॥ ९.७६ ॥

तदा देवासुराः सर्वे स्तूयमाना महाचलम्॥
उत्पाटयेयुरतुलं मंदरं च ततोद्भुतम्॥ ९.७७ ॥

क्षीरार्णवं नेतुकामा ह्यशक्तास्ते ततोऽभवन्॥
पर्वतः पतितः सद्यो देवदैत्योपरि ध्रुवम्॥ ९.७८ ॥

केचिद्भग्ना मृताः केचित्केचिन्मूर्छापरा भवन्॥
परीवादरताः केचित्केचित्क्लेशत्वमागताः॥ ९.७९ ॥

ेवं भग्नोद्यमा जाता असुराःसुरदानवाः॥
चेतनां परमां प्राप्तास्तुष्टुवुर्जगदीश्वरम्॥ ९.८० ॥

रक्षरक्ष महाविष्णो शरणागतवत्सल॥
त्वया ततमिदं सर्वं जंगमाजंगमं च यत्॥ ९.८१ ॥

देवानां कार्यसिद्ध्यर्थं प्रादुर्भूतो हरिस्तदा॥
तान्दृष्ट्वा सहसा विष्णुर्गरुडोपरि संस्थितः॥ ९.८२ ॥

लीलया पर्वतश्रेष्ठमुत्तभ्यारोपयत्क्षणात्॥
गरुत्मति तदा देवः सर्वेषामभयं ददौ॥ ९.८३ ॥

तत उत्थाय तान्देवान्क्षीरोस्योत्तरं तटम्॥
नीत्वा तं पर्वतं वृद्धं निक्षिप्याप्सु ततो ययौ॥ ९.८४ ॥

तदा सर्वे सुरगणाः स्वागत्य असुरैः सह॥
वासुकिं च समादाय चक्रिरे समयंच तम्॥ ९.८५ ॥

मंथानं मंदरं चैव वासुकिं रज्जुमेव च॥
कृत्वा सुराऽसुराः सर्वे ममंथुः श्रीरसागरम्॥ ९.८६ ॥

क्षीराब्धेर्मथ्यमानस्य पर्वतो हि रसातलम्॥
गतः स तत्क्षणादेव कूर्मो भूत्वा रमापतिः॥
उद्धृतस्तत्क्षणादेव तदद्भुतमिवाभवत्॥ ९.८७ ॥

भ्राम्यमाणस्ततः शैलो नोदितः सुरदानवैः॥
भ्रममाणो निराधारो बोधश्चेव गुरुं विना॥ ९.८८ ॥

परमात्मा तदा विष्णुराधारो मंदरस्य च॥
दोर्भिश्चतुर्भिः संगृह्य ममंथाब्धिं सुखावहम्॥ ९.८९ ॥

तदा सुरासुराः सर्वे ममंथुः क्षीरसागरम्॥
एकीभूत्वा बलेनैवमतिमात्रं बलोत्कटाः॥ ९.९० ॥

पृष्ठकंठोरुजान्वंतः कमठस्य महात्मनः॥
तथासौ पर्वतश्रेष्ठो वज्रसारमयो दृढः॥
उभयोर्घर्षणादेव वडवाग्निः समुत्थितः॥ ९.९१ ॥

हलाहलं च संजातं तदॄष्ट्वा नारदेन हि॥
ततो देवानुवाचेदं देवर्षिरमितद्युतिः॥ ९.९२ ॥

न कार्यं मथनं चाब्धेर्भवद्भिरधुनाऽखिलैः॥
प्रार्थयध्वं शिवं देवाः सर्वे दक्षस्य याजनम्॥
तद्विस्मृतिं च वोयातं वीरभद्रेण यत्कृतम्॥ ९.९३ ॥

तस्माच्छिवः स्मर्यतां चाशु देवाः परः पराणामपि वा परश्च॥
परात्परः परमानंदरूपो योगिध्येयो निष्प्रपंचो ह्यरूपः॥ ९.९४ ॥

ते मथ्यमानास्त्वरिता देवाः स्वात्मार्थसाधकाः॥
अभिलाषपराः सर्वे न श्रृण्वंति यतो जडाः॥ ९.९५ ॥

उपदेशैश्च बहुभिर्नोपदेश्याः कदाचन॥
ते रागद्वेषसंघाताः सर्वे शिवपराङ्‌मुखाः॥ ९.९६ ॥

केवलोद्यमसंवीता ममंथुः क्षीरसागरम्॥
अतिनिर्मथनाज्जातं क्षीराब्धेश्चहलाहलम्॥ ९.९७ ॥

त्रैलोक्यदहने प्रौढं प्राप्तं हंतुं दिवौकसः॥
अत ऊर्ध्वं दिशः सर्वा व्याप्तं कृत्स्नं नभस्तलम्॥
ग्रसितुं सर्वभूतानां कालकूटं समभ्ययात्॥ ९.९८ ॥

दृष्ट्वा बृहंतं स्वकरस्थमोजसा तं सर्पराजं सह पर्वतेन॥
तत्रैव हित्वापययुस्तदानीं पलायमाना ह्यसुरैः समेताः॥ ९.९९ ॥

तथैव सर्व ऋषयो भृग्वाद्याः शतशाम्यति॥
दक्षस्य यजनं तेन यथा जातं तथाभवत्॥ ९.१०० ॥

सत्यलोकं गताः सर्वे भुगुणा नोदिता भृशम्॥
वेदवाक्यैश्च विविधैः कालकूटं शतशस्ततः॥
देवा नास्त्यत्र संदेहः सत्यं सत्यं वदामि वः॥ ९.१०१ ॥

भृगुणोक्तं वचः श्रुत्वा कालकूटविषार्द्दिताः॥
सत्यलोकं समासाद्य ब्रह्माणं शरणं ययुः॥ ९.१०२ ॥

तदा जाज्वल्यमानं वै कालकूटं प्रभोज्जवलम्॥
दृष्ट्वा ब्रह्माथ तान्दृष्ट्वा ह्यकर्मज्ञानसुरासुरान्॥
तेषां शपितुमारेभे नारदेन निवारितः॥ ९.१०३ ॥

॥ब्रह्मोवाच॥
अकार्यं किं कृतं देवाः कस्मात्क्षोभोयमुद्यतः॥
ईश्वरस्य च जातोऽद्य नान्यथा मम भाषितम्॥ ९.१०४ ॥

ततो देवैः परिवृतो वेदोपनिषदैस्तथा॥
नानागमैः परिवृतः कालकूटभयाद्ययौ॥ ९.१०५ ॥

ततश्चिंतान्विता देवा इदमूचुः परस्परम्॥
अविद्याकामसंवीताः कुर्यामः शंकरं च कम्॥ ९.१०६ ॥

ब्रह्माणं च पुरस्कृत्य तदा देवास्त्वरान्विताः॥
वैकुण्ठमाव्रजन्सर्वे कालकूट भयार्द्दिताः॥ ९.१०७ ॥

ब्रह्मादयश्चर्षिगणाश्च तदा परेशं विष्णुं पुराणपुरुषं प्रभविष्णुमीशम्॥
वैकुण्ठमाश्रितमधोक्षजमाधवं ते सर्वे सुरासुरगणाः शरणं प्रयाताः॥ ९.१०८ ॥

तावत्प्रवृद्धं सुमहत्कालकूटं समभ्ययात्॥
दग्ध्वादो ब्रह्मणो लोकं वैकुण्ठं च ददाह वै॥ ९.१०९ ॥

कालकूटाग्निना दग्धो विष्णुः सर्वगुहाशयः॥
पार्षदैः सहितः सद्यस्तमालसदृशच्छविः॥ ९.११० ॥

वैकुण्ठं च सुनीलं च सर्वलोकैः समावृतम्॥
जलकल्मषसंवीताः सर्वे लोकास्तदाभवन्॥ ९.१११ ॥

अष्टावरणसंवीतं ब्रह्मांडं ब्रह्मणा सह॥
भस्मीभूतं चकाराशु जलकल्मषमद्भुतम्॥ ९.११२ ॥

नोभूमिर्न जलं चाग्निर्न वायुर्न नभस्तदा॥
नाहंकारो न च महान्मूलाविद्या तथैव च॥
शिवस्य कोपात्संजातं तदा भस्माकुलं जगत्॥ ९.११३ ॥

इति श्रीस्कांदे महापुराणं एकाशीतिसाहस्र्यां संहितायां प्रथममाहेश्वरखण्डान्तर्गते केदारखण्डे नवमोऽध्यायः॥ ९ ॥ छ ॥