स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ८
वेदव्यासः
अध्यायः ०९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५


॥लोमश उवाच॥
तस्करोऽपि पुरा ब्रह्मन्सर्वधर्मबाहिष्कृतः॥
ब्रह्मघ्नोऽसौ सुरापश्च सुवर्णस्य च तस्करः॥ ८.१ ॥
लंपटोहि महापाप उत्तमस्त्रीषु सर्वदा॥
द्यूतकारी सदा मंदः कितवैः सह संगतः॥ ८.२ ॥
एकदा क्रीडता तेन हारितं द्यूतमद्भुतम्॥
कितवैर्मर्द्यमानो हि तदा नोवाच किञ्चन॥ ८.३ ॥
पीडितोऽप्यभवत्तूष्णीं तैरुक्तः पापकृत्तमः॥
द्यूते त्वया च तद्द्रव्यं हारितं किं प्रयच्छसि॥ ८.४ ॥
नो वा तत्कथ्यतां शीघ्रं याथातथ्येन दुर्मते॥
यद्धारितं प्रयच्छामि रात्रावित्यब्रवीच्च सः॥ ८.५ ॥
तैर्मुक्तस्तेन वाक्येन गतास्ते कितवादयः॥
तदा निशीथसमये गतोऽसौ शिवमंदिरम्॥ ८.६ ॥
शिरोधिरुह्य शम्भोश्च घण्टामादातुमुद्यतः॥
तावत्कैलासशिखरे शंभुः प्रोवाच किंकरान्॥ ८.७ ॥
अनेन यत्कृतं चाद्य सर्वेषामधिकं भुवि॥
सर्वेषामेव भक्तानां वरिष्ठोऽयं च मत्प्रियः॥ ८.८ ॥
इति प्रोक्त्वान यामास वीरभद्रादिभिर्गणैः॥
ते सर्वे त्वरिता जग्मुः कैलासाच्छिववल्लभात्॥ ८.९ ॥
सर्वैर्डमरुनादेन नादितं भुवनत्रयम्॥
तान्दृष्ट्वा सहसोत्तीर्य तस्करोसौ दुरात्मवान्॥
लिंगस्य मस्तकात्सद्यः पलायनपरोऽभवत्॥ ८.१० ॥
पलायमानं तं दृष्ट्वा वीरभद्रः समाह्वयत्॥ ८.११ ॥
कस्माद्विभेपि रे मन्द देवदेवो महेस्वरः॥
प्रसन्नस्तव जातोद्य उदारचरितो ह्यसौ॥ ८.१२ ॥
इत्युक्त्वा तं विमाने च कृत्वा कैलासमाययौ॥
पार्षदो हि कृतस्तेन तस्करो हि महात्मना॥ ८.१३ ॥
तस्माद्भाव्या शिवे भक्तिः सर्वेषामपि देहिनाम्॥
पशवोऽपि हि पूज्याः स्युः किं पुनर्मानवाभुवि॥ ८.१४ ॥
ये तार्किकास्तर्कपरास्तथ मीमांसकाश्च ये॥
अन्योन्यवादिनश्चान्ये चान्ये वात्मवितर्ककाः॥ ८.१५ ॥
एकवाक्यं न कुर्वंति शिवार्चनबहिष्कृताः॥
तर्को हि क्रियते यैश्च तेसर्वे किं शिवं विना॥ ८.१६ ॥
तथा किं बहुनोक्तेन सर्वेऽपि स्थिरजंगमाः॥
प्राणिनोऽपि हि जायंते केवलं लिंगधारिणः॥ ८.१७ ॥
पिण्डीयुक्तं यता लिंगं स्थापितं च यथाऽभवत्॥
तथा नरा लिंगयुक्ताः पिण्डीभूतास्तता स्त्रियः॥ ८.१८ ॥
शिवशक्तियुतं सर्वं जगदेतच्चराचरम्॥
तं शिवं मौढ्यतस्त्यक्त्वा मूढाश्चान्यं भजंति ये॥ ८.१९ ॥
धर्ममात्यंतिकं तुच्छं नश्वरं क्षणभंगुरम्॥
यो विष्णुः स शिवो ज्ञेयो यः शिवो विष्णुरेव सः॥ ८.२० ॥
पीठिका विष्णुरूपं स्याल्लिंगरूपी महेश्वरः॥
तस्माल्लिंगार्चनं श्रेष्ठं सर्वेषामपि वै द्विजाः॥ ८.२१ ॥
ब्रह्मा मणिमयं लिंगं पूजयत्यनिशं शुभम्॥
इन्द्रो रत्नमयं लिंगं चन्द्रो मुक्तामयं तथा॥ ८.२२ ॥
भानुस्ताम्रमयं लिंगं पूजयत्यनिशं शुभम्॥
रौक्मं लिंगं कुबेरश्च पाशी चारक्तमेव च॥ ८.२३ ॥
यमो नीलमयं लिंगं राजतं नैर्ऋतस्तथा॥
काश्मीरं पवनो लिंगमर्चयत्यनिशं विभोः॥ ८.२४ ॥
एवं ते लिंगिताः सर्वे लोकपालाः सवासवाः॥
तथा सर्वेऽपि पाताले गंधर्वाः किंनरैः सह॥ ८.२५ ॥
दैत्यानां वैष्णवाः केचित्प्रह्लादप्रमुखा द्विजाः॥
तथाहि राक्षसानां च विभीषणपुरोगमाः॥ ८.२६ ॥
बलिश्च नमुचिश्चैव हिरण्यकशिपुस्तथा॥
वृषपर्वा वृषश्चैव संह्रादो बाण एव च॥ ८.२७ ॥
एते चान्ये च बहवः शिष्याः शुक्रस्य धीमतः॥
एवं शिवार्चनरताः सर्वे ते दैत्यदानवाः॥ ८.२८ ॥
राक्षसा एव ते सर्वे शिवपूजान्विताः सदा॥
हेतिः प्रहेतिः संयातिर्विघसः प्रघसस्तथा॥ ८.२९ ॥
विद्युज्जिह्वस्तीक्ष्णदंष्ट्रो धूम्राक्षो भीमविक्रमः॥
माली चैव सुमाली च माल्यवानतिभीषमः॥ ८.३० ॥
विद्युत्कैशस्तडिज्जिह्वो रावणश्च महाबलः॥
कुंभकर्णो दुराधर्षो वेगदर्शी प्रतापवान्॥ ८.३१ ॥
एते हि राक्षसाः श्रेष्ठा शिवार्चनरताः सदा॥
लिंगमभ्यर्च्य च सदा सिद्धिं प्राप्ताः पुरा तु ते॥ ८.३२ ॥
रावणेन तपस्तप्तं सर्वेषामपि दुःखहम्॥
तपोधिपो महादेवस्तुतोष च तदा भृशम्॥ ८.३३ ॥
वरान्प्रायच्छत तदा सर्वेषामपि दुर्लभान्॥
ज्ञानं विज्ञानसहितं लब्धं तेन सदाशिवात्॥ ८.३४ ॥
अजेयत्वं च संग्रामे द्वैगुण्यं शिरसामपि॥
पंचवक्त्रो महा देवो दशवक्त्रोऽथ रावणः॥ ८.३५ ॥
देवानृषीन्पितॄंश्चैव निर्जित्य तपसा विभुः॥
महेशस्य प्रसादाच्च सर्वेषामधिकोऽभवत्॥ ८.३६ ॥
राजा त्रिकूटाधिपतिर्महेशेन कृतो महान्॥
सर्वेषां राक्षसानां च परमासनमास्तितः॥ ८.३७ ॥
तपस्विनां परीक्षायै यदृषीणां विहिंसनम्॥
कृतं तेन तदा विप्रा रावणेन तपस्विना॥ ८.३८ ॥
अजेयो हि महाञ्जातो रावणो लोकरावणः॥
सृष्ट्यंतरं कृतं येन प्रसादाच्छंकरस्य च॥ ८.३९ ॥
लोकपाला जितास्तेन प्रतापेन तपस्विना॥
ब्रह्मापि विजितो येन तपसा परमेण हि॥ ८.४० ॥
अमृतांशुकरो भूत्वा जितो येन शशी द्विजाः॥
दाहकत्वाज्जितो वह्निरीशः कैलासतोलनात्॥ ८.४१ ॥
ऐश्वर्येण जितश्चेन्द्रो विष्णुः सर्वगतस्तथा॥
लिंगार्चनप्रसादेन त्रैलोक्यं च वशीकृतम्॥ ८.४२ ॥
तदा सर्वे सुरगणा ब्रह्मविष्णुपुरोगमाः॥
मेरुपृष्ठं समासाद्य सुमंत्रं चक्रिरे तदा॥ ८.४३ ॥
पीडिताः स्मो रावणेन तपसा दुष्करेण वै॥
गोकर्णाख्ये गिरौ देवाः श्रूयतां परमाद्भुतम्॥ ८.४४ ॥
साक्षाल्लिंगार्चनं येन कृतमस्ति महात्मना॥
ज्ञानज्ञेयं ज्ञानगम्यं यद्यत्परममद्भुतम्॥
तत्कृतं रावणेनैव सर्वेषां दुरतिक्रमम्॥ ८.४५ ॥
वैराग्यं परमास्थाय औदार्यं च ततोऽधिकम्॥
तेनैव ममता त्यक्ता रावणेन महात्मना॥ ८.४६ ॥
संवत्सरसहस्राच्च स्वशिरो हि महाभुजः॥
कृत्त्वा करेण लिंगस्य पूजनार्थं समर्पयत्॥ ८.४७ ॥
रावणस्य कबंधं च तदग्रे च समीपतः॥
योगधारणया युक्तं परमेण समाधिना॥ ८.४८ ॥
लिंगे लयं समाधाय कयापि कलया स्थितम्॥
अन्यच्छिरोविवृश्च्यैवं तेनापि शिवपूजनम्॥
कृतं नैवान्यमुनिना तथा चैवापरेणहि॥ ८.४९ ॥
एवं शिरांस्येव बहूनि तेन समर्पितान्येव शिवार्चनार्थे॥
भूत्वा कबंधो हि पुनः पुनश्च शिवोऽसौ वरदो बभूव॥ ८.५० ॥
मया विनासुरस्तत्र पिंडीभूतेन वै पुरा॥
वरान्वरय पौलस्त्य यथेष्टं तान्ददाम्यहम्॥ ८.५१ ॥
रावणेन तदा चोक्तः शिवः परममंगलः॥
यदि प्रसन्नो भगवन्देयो मे वर उत्तमः॥ ८.५२ ॥
न कामयेऽन्यं च वरमाश्रये त्वत्पदांबुजम्॥
यथा तथा प्रदातव्यं यद्यस्ति च कृपा मयि॥ ८.५३ ॥
तदा सदाशिवेनोक्तो रावणो लोकरावणः॥
मत्प्रसादाच्च सर्वं त्वं प्राप्स्यसे मनसेप्सितम्॥ ८.५४ ॥
एवं प्राप्तं शिवात्सर्वं रावणेन सुरेश्वराः॥
तस्मात्सर्वैर्भवद्भिश्च तपसा परमेण हि॥ ८.५५ ॥
विजेतव्यो रावणोयमिति मे मनसि स्थितम्॥
्च्युतस्य वचः श्रुत्वा ब्रह्माद्या देवतागणाः॥ ८.५६ ॥
चिंतामापेदिरे सर्वे चिरं ते विषयान्विताः॥
ब्रह्मापि चेंद्रियग्रस्तः सुता रमितुमुद्यतः॥ ८.५७ ॥
इंद्रो हि जारभावाच्च चंद्रो हि गुरुतल्पगः॥
यमः कदर्यभावाच्च चंचलत्वात्सदागतिः॥ ८.५८ ॥
पावकः सर्वभक्षित्वात्तथान्ये देवतागणाः॥
अशक्ता रावणं जेतुं तपसा च विजृंभितम्॥ ८.५९ ॥
शैलादो हि महातेजा गणश्रेष्ठः पुरातनः॥
बुद्धि मान्नीतिनिपुणो महाबलपराक्रमी॥ ८.६० ॥
शिवप्रियो रुद्ररूपी महात्मा ह्युवाच सर्वानथ चेंद्रमुख्यान्॥
कस्माद्यूयं संभ्रमादागताश्च एतत्सर्वं कथ्यतां विस्तरेण॥ ८.६१ ॥
नंदिना च तदा सर्वे पृष्टाः प्रोचुस्त्वरान्विताः॥ ८.६२ ॥
॥ देवा ऊचुः॥
रावणेन वयं सर्वे निर्जिता मुनिभिः सह॥
प्रसादयितुमायाताः शिवं लोकेश्वरेश्वरम्॥ ८.६३ ॥
प्रहस्य भगवान्नंदी ब्रह्माणं वै ह्युवाच ह॥
क्व यूयं क्व शिवः शंभुस्तपसा परमेण हि॥
द्रष्टव्यो हृदि मध्यस्थः सोऽद्य द्रष्टुं न पार्यते॥ ८.६४ ॥
यावद्भावा ह्यनेकाश्च इंद्रियार्थास्तथैव च॥
यावच्च ममताभावस्तावदीशो हि दुर्लभः॥ ८.६५ ॥
जितेंद्रियाणां शांतानां तन्निष्ठानां महात्मनाम्॥
सुलभो लिंगरूपी स्याद्भवतां हि सुदुर्लभः॥ ८.६६ ॥
तदा ब्रह्मादयो देवा ऋषयश्च विपश्चितः॥
प्रणम्य नंदिनं प्राहुः कस्मात्त्वं वानराननः॥
तत्सर्वं कथयान्यं च रावणस्य तपोबलम्॥ ८.६७ ॥
॥नंदीश्वर उवाच॥
कुबेरोऽधिकृतस्तेन शंकरेण महात्मना॥
धनानामादिपत्ये च तं द्रष्टुं रावणोऽत्र वै॥ ८.६८ ॥
आगच्छत्त्वरया युक्तः समारुह्य स्ववाहनम्॥
मां दृष्ट्वा चाब्रवीत्क्रुद्धः कुबेरो ह्यत्र आगतः॥ ८.६९ ॥
त्वया दृष्टोऽथ वात्रासौ कथ्यतामविलंबितम्॥
किं कार्यं धनदेनाद्य इति पृष्टो मया हि सः॥ ८.७० ॥
तदोवाच महातेजा रावणो लोकरावणः॥
मय्यश्रद्धान्वितो भूत्वा विषयात्मा सुदुर्मदः॥ ८.७१ ॥
शिक्षापयितुमारब्धो मैवं कार्यमिति प्रभो॥
यथाहं च श्रिया युक्त आढ्योऽहं बलवानहम्॥
तथा त्वं भव रे मूढ मा मूढत्वमुपार्जय॥ ८.७२ ॥
अहं मूढः कृतस्तेन कुबेरेण महात्मना॥
मया निराकृतो रोषात्तपस्तेपे स गुह्यकः॥ ८.७३ ॥
कुबेरः स हि नंदिन्किमागतस्तव मंदिरम्॥
दीयतां च कुबेरोद्य नात्र कार्या विचारणा॥ ८.७४ ॥
रावणस्य वचः श्रुत्वा ह्यवोचं त्वरितोऽप्यहम्॥
लिंगकोसि महाभाग त्वमहं च तथाविधः॥ ८.७५ ॥
उभयोः समनां ज्ञात्वा वृथा जल्पसि दुर्मते॥
यथोक्तः स त्ववादीन्मां वदनार्थे बलोद्धतः॥ ८.७६ ॥
यथा भवद्भिः पृष्टोऽहं वदनार्थे महात्मभिः॥
पुरावृत्तं मया प्रोक्तं शिवार्चनविधेः फलम्॥
शिवेन दत्तं सालूप्यं न गृहीतं मया तदा॥ ८.७७ ॥
याचितं च मया शंभोर्वदनं वानरस्य च॥
शिवेन कृपया दत्तं मम कारुण्यशालिना॥ ८.७८ ॥
निराभिमानिनो ये च निर्दभा निष्परिग्रहाः॥
शंभोः प्रियास्ते विज्ञेया ह्यन्ये शिववबहिष्कृताः॥ ८.७९ ॥
तथावदन्मया सार्द्धं रावणस्तपसो बलात्॥
मया च याचितान्येव दश वक्त्राणि धीमता॥ ८.८० ॥
उपहासकरं वाक्यं पौलस्त्यस्य तदा सुराः॥
मया तदा हि शप्तोऽसौ रावणो लोकरावणः॥ ८.८१ ॥
ईदृशान्येव वक्त्राणि येषां वै संभवंति हि॥
तैः समेतो यदा कोऽपि नरवर्यो महातपाः॥
मां पुरस्कृत्य सहसा हनिष्यति न संशयः॥ ८.८२ ॥
एवं शप्तो मया ब्रह्मन्रावणो लोकरावणः॥
अर्चितं केवलं लिंगं विना तेन महात्मना॥ ८.८३ ॥
पीठिकारूपसंस्थेन विना तेन सुरोत्तमाः॥
विष्णुना हि महाभागास्तस्मात्सर्वं विधास्यति॥ ८.८४ ॥
देवदेवो महादेवो विष्णुरूपी महेश्वरः॥
सर्वे यूयं प्रार्थयंतु विष्णुं सर्वगुहाशयम्॥ ८.८५ ॥
अहं हि सर्वदेवानां पुरोवर्ती भवाम्यतः॥
ते सर्वे नंदिनो वाक्यं श्रुत्वा मुदितमानसाः॥
वैकुंठमागता गीर्भिर्विष्णुं स्तोतुं प्रचक्रिरे॥ ८.८६ ॥
॥ देवा ऊचुः॥
नमो भगवते तुभ्यं देवदेव जगत्पते॥
त्वदाधारमिदं सर्वं जगदेतच्चराचरम्॥ ८.८७ ॥
एतल्लिंगं त्वया विष्णो धृतं वै पिण्डिरूपिणा॥
महाविष्णुस्वरूपेण घातितौ मधुकैटभौ॥ ८.८८ ॥
तथा कमठरूपेण धृतो वै मंदराचलः॥
वराहरूपमास्थाय हिरण्याक्षो हतस्त्वया॥ ८.८९ ॥
हिरण्यकशिपुर्दैत्यो हतो नृहरिरूपिणा॥
त्वया चैव बलिर्बद्धो दैत्यो वामनरूपिणा॥ ८.९० ॥
भृगूणामन्वये भूत्वा कृतवीर्यात्मजो हतः॥
इतोप्यस्मान्महाविष्णो तथैव परिपालय॥ ८.९१ ॥
रावमस्य भयादस्मात्त्रातुं भूयोर्हसि त्वरम्॥ ८.९२ ॥
एवं संप्रार्थितो देवैर्भगवान्भूतभावनः॥
उवाच च सुरान्सर्वान्वासुदेवो जगन्मयः॥ ८.९३ ॥
हे देवाः श्रूयतां वाक्यं प्रस्तावसदृशं महत्॥
शैलादिं च पुरस्कृत्य सर्वे यूयं त्वरान्विताः॥
अवतारान्प्रकुर्वन्तु वानरीं तनुमाश्रिताः॥ ८.९४ ॥
अहं हि मानुषो भूत्वा ह्यज्ञानेन समावृतः॥
संभविष्याम्ययोध्यायं गृहे दशरथस्य च॥
ब्रह्मविद्यासहायोस्मि भवतां कार्यसिद्धये॥ ८.९५ ॥
जनकस्य गृहे साक्षाद्ब्रह्मविद्या जनिष्यति॥
भक्तो हि रावणः साक्षाच्छिवध्यानपरायणः॥ ८.९६ ॥
तपसा महता युक्तो ब्रह्मविद्यां यदेच्छति॥
तदा सुसाध्यो भवति पुरुषो धर्मनिर्जितः॥ ८.९७ ॥
एवं संभाष्य भगवान्विष्णुः परममङ्गलः॥
वाली चेन्द्रांशसंभूतः सुग्रीवों शुमतः सुतः॥ ८.९८ ॥
तथा ब्रह्मांशसंभूतो जाम्बवान्नृक्षकुञ्जरः॥
शिलादतनयो नंदी शिवस्यानुचरः प्रियः॥ ८.९९ ॥
यो वै चैकादशो रुद्रो हनूमान्स महाकपिः॥
अवतीर्णः सहायार्थं विष्णोरमिततेजसः॥ ८.१०० ॥
मैंदादयोऽथ कपयस्ते सर्वे सुरसत्तमाः॥
एवं सर्वे सुरगणा अवतेरुर्यथा तथम्॥ ८.१०१ ॥
तथैव विष्णुरुत्पन्नः कौशल्यानंदवर्द्धनः॥
विश्वस्य रमणाच्चैव राम इत्युच्यते बुधैः॥ ८.१०२ ॥
शेषोपि भक्त्या विष्णोश्च तपसाऽवातरद्भुवि॥ ८.१०३ ॥
दोर्दण्डावपि विष्णोश्च अवतीर्णौ प्रतापिनौ॥
शत्रुघ्नभरताख्यौ च विख्यातौ भुवनत्रये॥ ८.१०४ ॥
मिथिलाधिपतेः कन्या या उक्ता ब्रह्मवादिभिः॥
सा ब्रह्मविद्यावतरत्सुराणां कार्य्यसिद्धये॥
सीता जाता लांगलस्य इयं भूमिविकर्षणात्॥ ८.१०५ ॥
तस्मात्सीतेति विख्याता विद्या सान्वीक्षिकी तदा॥
मिथिलायां समुत्पन्ना मैथितीत्यभिधीयते॥ ८.१०६ ॥
जनकस्य कुले जाता विश्रुता जनकात्मजा॥
ख्याता वेदवती पूर्वं ब्रह्मविद्याघनाशिनी॥ ८.१०७ ॥
सा दत्ता जनकेनैव विष्णवे परमात्मने॥ ८.१०८ ॥
तयाथ विद्यया सार्द्धं देवदेवो जगत्पतिः॥
उग्रे तपसि लीनोऽसौ विष्णुः परमदुष्करम्॥ ८.१०९ ॥
रावणं जेतुकामो वै रामो राजीवलोचनः॥
अरण्यवासमकरोद्देवानां कार्यसिद्धये॥ ८.११० ॥
शेषावतारोऽपि महांस्तपः परमदुष्करम्॥
तताप परया शक्त्या देवानां कार्यसिद्धये॥ ८.१११ ॥
शत्रुघ्नो भरतश्चैव तेपतुः परमं तपः॥ ८.११२ ॥
ततोऽसौ तपसा युक्तः सार्द्धं तैर्देवतागणैः॥
सगणं रावणं रामः षड्भिर्मासैरजीहनत्॥
विष्णुना घातितः शस्त्रैः शिवसारूप्यमाप्तवान्॥ ८.११३ ॥
सगमः स पुनः सद्यो बंधुभिः सह सुव्रताः॥ ८.११४ ॥
शिवप्रसादात्सकलं द्वैताद्वैतमवाप ह॥
द्वैताद्वैतविवेकार्थमृपयोप्यत्र मोहिताः॥
तत्सर्वं प्राप्नुवंतीह शिवार्चनरता नराः॥ ८.११५ ॥
येऽर्चयंति शिवं नित्यं लिंगरूपिणमेव च॥
स्त्रियो वाप्यथ वा शूद्राः श्वपचा ह्यंत्यवासिनः॥
तं शिवं प्राप्नुवंत्येव सर्वदुःखोपनाशनम्॥ ८.११६ ॥
पशवोऽपि परं याताः किं पुनर्मानुषादयः॥ ८.११७ ॥
ये द्विजा ब्रह्मचर्येण तपः परममास्थिताः॥
वर्षैरनेकैर्यज्ञानां तेऽपि स्वर्गपरा भवन्॥ ८.११८ ॥
ज्योतिष्टोमो वाजपेयो ह्यतिरात्रादयो ह्यमी॥
यज्ञाः स्वर्गं प्रयच्छंति सत्त्रीणां नात्र संशयः॥ ८.११९ ॥
तत्र स्वर्गसुखं भुक्त्वा पुण्यक्षयकरं महत्॥
पुण्यक्षयेऽपि यज्वानो मर्त्यलोकं पतंति वै॥ ८.१२० ॥
पतितानां च संसारे दैवाद्बुद्धिः प्रजायते॥
गुणत्रयमयी विप्रास्तासुतास्त्विह योनिषु॥ ८.१२१ ॥
यथा सत्त्वं संभवति सत्त्वयुक्तभवं नराः॥
राजसाश्च तथा ज्ञेयास्ता मसाश्चैव ते द्विजाः॥ ८.१२२ ॥
एवं संसारचक्रेऽस्मिन्भ्रमिता बहवो जनाः॥
यदृच्छया दैवगत्या शिवं संसेवते नरः॥ ८.१२३ ॥
शिवध्यानपराणां च नराणां यतचेतसाम्॥
मायानिरसनं सद्यो भविष्यति न चान्यथा॥ ८.१२४ ॥
मायानिरसनात्सद्यो नश्यत्येव गुणत्रयम्॥
यदा गुणत्रयातीतो भवतीति स मुक्तिभाक्॥ ८.१२५ ॥
तस्माल्लिङ्गार्चनं भाव्यं सर्वेषामपि देहिनाम्॥
लिङ्गरूपी शिवो भूत्वा त्रायते संचराचरम्॥ ८.१२६ ॥
पुरा भवद्भिः पृष्टोऽहं लिङ्गरूपी कथं शिवः॥
तत्सर्वं कथितं विप्रा याथातथ्येन संप्रति॥ ८.१२७ ॥
कथं गरं भक्षितवाञ्छिवो लोकमहेश्वरः॥
तत्सर्वं श्रूयतां विप्रा यतावत्कथयामि वः॥ ८.१२८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवलिङ्गार्चनमाहात्म्यकथने श्रीरामावतारकथावर्णनंनामाष्टमोऽध्यायः॥ ८ ॥ छ ॥