स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ०७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ६ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः
अध्यायः ७
वेदव्यासः
अध्यायः ८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५

॥लोमश उवाच॥
तदा च ते सुराः सर्व ऋषयोपि भयान्विताः॥
ईडिरे लिंगमैशं च ब्रह्माद्या ज्ञानविह्वलाः॥ ७.१ ॥

॥ब्रह्मोवाच॥
त्वं लिंगरूपी तु महाप्रभावो वेदांतवेद्योसि महात्मरूपि॥
येनैव सर्वे जगदात्ममूलं कृतं सदानंदपरेण नित्यम्॥ ७.२ ॥

त्वं साक्षी सर्वलोकानां हर्ता त्वं च विचक्षणः॥
रक्षणोसि महादेव भैरवोसि जगत्पते॥ ७.३ ॥

त्वया लिंगस्वरूपेण व्याप्तमेतज्जगत्त्रयम्॥
क्षुद्राश्चैव वयं नाथ मायामोहितचेतसः॥ ७.४ ॥

अहं सुराऽसुराः सर्वे यक्षगंधर्वराक्षसाः॥
पन्नगाश्च पिशाचाश्च तथा विद्याधरा ह्यमी॥ ७.५ ॥

त्वंहि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः॥
कर्ता त्वं भुवनस्यास्य त्वं हर्ता पुरुषः परः॥ ७.६ ॥

त्राह्यस्माकं महादेव देवदेव नमोऽस्तु ते॥
एवं स्तुतो हि वै धात्रा लिंगरूपी महेश्वरः॥ ७.७ ॥

ऋषयः स्तोतुकामास्ते महेश्वरमकल्मषम्॥
अस्तुवन्गीर्भिरग्र्याभिः श्रुतिगीताभिरादृताः॥ ७.८ ॥

॥ऋषय ऊचुः॥
अज्ञानिनो वयं कामान्न विंदामोऽस्य संस्थितिम्॥
त्वं ह्यात्मा परमात्मा च प्रकृतिस्त्वं विभाविनी॥ ७.९ ॥

त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमे॥
त्वमीश्वरो वेदविदेकरूपो महानुभावैः परिचिंत्यमानः॥ ७.१० ॥

त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम्॥
सर्वं भवति यस्मात्त्वत्तस्मात्सर्वोऽसि नित्यदा॥ ७.११ ॥

यस्माच्च संभवत्येतत्तस्माच्छंभुरिति प्रभुः॥ ७.१२ ॥

त्वत्पादपंकजं प्राप्ता वयं सर्वे सुरादयः॥
ऋषयो देवगंधर्वा विद्याधरमहोरगाः॥ ७.१३ ॥

तस्माच्च कृपया शंभो पाह्यस्माञ्जगतः पते॥ ७.१४ ॥

॥महादेव उवाच॥
श्रृणुध्वं तु वचो मेऽद्य क्रियतां च त्वरान्वितैः॥
विष्णुं सर्वे प्रार्थयंतु त्वरितेन तपोधनाः॥ ७.१५ ॥

तस्य तद्वचनं श्रुत्वा शंकरस्य महात्मनः॥
विष्णुं सर्वे नमस्कृत्य ईडिरे च तदा सुराः॥ ७.१६ ॥

॥देव ऊचुः॥
विद्याधराः सुरगणा ऋषयश्च सर्वे त्रातास्त्वयाद्य सकलाजगदेकबंधो॥
तद्वत्कृपाकरजनान्परिपालयाद्य त्रैलोक्यनाथ जगदीश जगन्निवास॥ ७.१७ ॥

प्रहस्य भगवन्विष्णुरुवाचेदं वचस्तदा॥
दैत्यैः प्रपीडिता यूयं रक्षिताश्च पुरा मया॥ ७.१८ ॥

अद्यैव भयमुत्पन्नं लिंगादस्माच्चिरंतनम्॥
न शक्यते मया त्रातुमस्माल्लिंगभयात्सुराः॥ ७.१९ ॥

अच्युतेनैवमुक्तास्ते देवा श्चिंतान्विताभवन्॥
तदा नभोगता वाणी उवाचाश्वास्य वै सुरान्॥ ७.२० ॥

एतल्लिंगं संवृणुष्व पूजनाय जनार्दन॥
पिंडिभूत्वा महाबाहो रक्षस्व सचराचरम्॥
तथेति मत्वा बगवान्वीरभद्रोऽभ्यपूजयत्॥ ७.२१ ॥

ब्रह्मादिभः सुरगणैः सहितैस्तदानीं संपूजितः शिवविधानरतो महात्मा॥
स्रवीरभद्रः शशिशेखरोऽसौ शिवप्रियो रुद्रसमस्त्रिलोक्याम्॥ ७.२२ ॥

लिंगस्यार्चनयुक्तोऽसौ वीरभद्रोऽभवत्तदा॥
तद्रूपस्यैव लिंगस्य येन सर्वमिदं जगत्॥ ७.२३ ॥

उद्भाति स्थितिमाप्नोति तथा विलयमेति च॥
तल्लिंगं लिंगमित्याहुर्लयनात्तत्त्ववित्तमाः॥ ७.२४ ॥

ब्रह्माण्डागोलकैर्व्याप्तं तथा रुद्राक्षभूषितम्॥
तथा लिंगं महज्जातं सर्वेषां दुरतिक्रमम्॥ ७.२५ ॥

तदा सर्वेऽथ विबुधा ऋषो वै महाप्रभाः॥
तुष्टुवुश्च महालिंगं वेदावादैः पृथक्पृथक्॥ ७.२६ ॥

अणोरणीयांस्त्वं देव तथा त्वं महतो महान्॥
तस्मात्त्वया विधातव्यं सर्वैषां लिंगपूजनम्॥ ७.२७ ॥

तदानीमेव सर्वेण लिंगं च बहुशः कृतम्॥
सत्ये ब्रह्मेश्वरं लिंगं वैकुण्ठे च सदाशिवः॥ ७.२८ ॥

अमरावत्यां सुप्रतिष्ठममरेश्वरसंज्ञकम्॥
वरुणेश्वरं च वारुण्यां याम्यां कालेश्वरं प्रभुम्॥ ७.२९ ॥

नैर्ऋतेश्वरं च नैर्ऋत्यां वायव्यां पावनेश्वरम्॥
केदारं मृत्युलोके च तथैव अमरेस्वरम्॥ ७.३० ॥

ओंकारं नर्मदायां च महाकालं तथैव च॥
काश्यां विश्वेश्वरं देवं प्रयागे ललितेश्वरम्॥ ७.३१ ॥

त्रियम्बकं ब्रह्मगिरौ कलौ भद्रेश्वरं तथा॥
द्राक्षारामेश्वरं लिंगं गंगासागरसंगमे॥ ७.३२ ॥

सौराष्ट्रे च तथा लिंगं सोमेश्वरमिति स्मृतम्॥
तथा सर्वेश्वरं विन्ध्ये श्रीशैले शिखरेश्वरम्॥
कान्त्यामल्लालनाथं च सिंहनाथं च सिंगले॥ ७.३३ ॥

विरूपाक्षं तथा लिंगं कोटिशङ्करमेव च॥
त्रिपुरान्तकं भीमेशममरेश्वरमेव च॥ ७.३४ ॥

भोगेश्वरं च पाताले हाटकेश्वरमेव च॥
एवमादीन्यनेकानि लिंगानि भुवनत्रये॥
स्थापितानि तदा देवैर्विश्वोपकृतिहेतवे॥ ७.३५ ॥

लिंगेशैश्च तथा सर्वैः पूर्णमासीज्जगत्त्रयम्॥
तथा च वीरभद्रांशाः पूजार्थममरैः कृताः॥ ७.३६
तत्र विंशतिसंस्कारास्तेषामष्टाधिकाभवन्॥
कथिताः शंकरेणैव लिंगस्याचनसूचकाः॥ ७.३७ ॥

संति रुद्रेण कथिताः शिवधर्मा सनातनाः॥
वीरभद्रो यथा रुद्रस्तथान्ये गुरवः स्मृताः॥ ७.३८ ॥

गुरोर्जाताश्च गुरवो विख्याता भुवनत्रये॥
लिंगस्य महिमान तु नन्दी जानाति तत्त्वतः॥ ७.३९ ॥

तथा स्कन्दो हि भगवान्न्ये ते नामधारकाः॥
यथोक्ताः शिवधरमा हि नन्दिना परिकीर्त्तिताः॥ ७.४० ॥

शैलादेन महाभागा विचित्रा लिंगधारकाः॥
शवस्योपरि लिंगं च ध्रियते च पुरातनैः॥ ७.४१ ॥

लिंगेन सह पञ्चत्वं लिंगेन सह जीवितम्॥
एते धर्माः सुप्रतिष्ठाः शैलादेन प्रतिष्ठिताः॥ ७.४२ ॥

धर्मः पाशुपतः श्रेष्ठः स्कन्देन प्रतिपालितः॥ ७.४३ ॥

शुद्धा पञ्चाक्षरी विद्या प्रासादी तदनन्तरम्॥
षडक्षरी तथा विद्याग्रासा स्यच दीपिका॥ ७.४४ ॥

स्कन्दात्तत्समनुप्राप्तमगस्त्येन महात्मना॥
पश्चादाचार्यभेदेन ह्यागमा बहवोऽभवन्॥ ७.४५ ॥

किं तु वै बहुनोक्तेन श्वि इत्यक्षरद्वयम्॥
उच्चारयंति स नित्यं ते रुद्रा नात्र संशयः॥ ७.४६ ॥

सतां मार्गं पुरस्कृत्य ये सर्वे ते पुरांतकाः॥
वीरा माहेश्वराज्ञेयाः पापक्षयकरा नृणाम्॥ ७.४७ ॥

प्रसंगेनानुपंक्षेण श्रद्वया च यदृच्छया॥
शिवभक्तिं प्रकुर्वन्ति ये वै ते यांति सद्गतिम्॥ ७.४८ ॥

श्रृणुध्वं कथयामीह इतिहासं पुरातनम्॥
कृतं सिवालयं यच्च पतंग्या मार्जन पुरा॥ ७.४९ ॥

आगता भक्षणार्थं हि नैवेद्यं केन चार्पितम्॥
मार्जनं रजस्तस्याः पक्षाभ्यामभवत्पुरा॥ ७.५० ॥

तेन कर्मविपाकेन उत्तमं स्वर्गमागता॥
भुक्त्वा स्वर्गसुखं चोग्रं पुनः संसाग्मागता॥ ७.५१ ॥

काशिगजसुता जाता सुन्दरीनाम विश्रुता॥
पूर्वाभ्यासाच्च कल्याणी बभूव परमा सती॥ ७.५२ ॥

उपस्युपसि तन्वंगी शिवद्वाररता सदा॥
संमार्जनं च कुरुते भक्त्या परमया युता॥ ७.५३ ॥

स्वयमेव तदा देवी सुन्दरी राजकन्यका॥
तथाभूतां च तां दृष्ट्वा ऋषिरुद्दालकोऽब्रवीत्॥ ७.५४ ॥

सुकुमारी सती बाले स्वयमेव कथं शुभे॥
संमार्जनं च कुरुषे कन्यके त्वं शुचिस्मिते॥ ७.५५ ॥

दासी दास्यश्च बहवः संति देवि तवाग्रतः॥
तवाज्ञया करिष्यंति सर्वं संमार्जनादिकम्॥ ७.५६ ॥

ऋषेस्तद्वचनं श्रुत्वा प्रहस्येदमुवाच ह॥ ७.५७ ॥

शिवसेवां प्रकुर्वाणाः शिवभक्तिपुरस्कृताः॥
ये नराश्चैव नार्य्यश्च शिवलोकं व्रजंति वै॥ ७.५८ ॥

संमार्जनं च पाणिभ्यां पद्भ्यां यानं शिवालये॥
तस्मान्मया च क्रियते संमार्जनमतंद्रितम्॥ ७.५९ ॥

अन्यत्किञ्चिन्न जानामि एकं संमार्जनं विना॥
ऋषिस्तद्वचनं श्रुत्वा मनसा च विमृश्य हि॥ ७.६० ॥

अनया किं कृतं पूर्वं केयं कस्य प्रसादतः॥
तदा ज्ञानं च ऋषिणा तत्सर्वं ज्ञानचक्षुषा॥
विस्मयेन समाविष्टस्तूष्णींभूतोऽभवत्तदा॥ ७.६१ ॥

सविस्मयोऽभूदथ तद्विदित्वा उद्दालको ज्ञानवतां वरिष्ठः॥
शिवप्रभावं मनसा विचिंत्य ज्ञानात्परं बोधमवाप शांतः॥ ७.६२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे सप्तमोऽध्यायः॥ ७ ॥ छ ॥