सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.1 प्रथमोऽर्द्धः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन ।
कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५ ॥ ऋ. ९.९६.१७
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां ।
तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥११७६ ॥
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ ११७७ ॥

टिप्पणी

उद्वद्भार्गवम्

द्वादशाहे अष्टमस्याह्नः बहिष्पवमानम् (आर्षेयकल्पः उपोद्घातः पृ. ७७)

शिशुं जज्ञानं हर्यतं मृजन्तीति हरिवतीर् भवन्ति। हरिवती वै परमा वाचस् तनूः। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। शुम्भन्ति विप्रं मरुतो गणेनेति मरुत्वतीर् भवन्ति। मरुत्वद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। अथो क्षत्रं वै त्रिष्टुब्, विशो मरुतः। तद् यत् त्रिष्टुभो मरुत्वतीर् भवन्ति, क्षत्रायैव तद् विशम् अनुवर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनुवर्त्मा कविर् गीर्भिः काव्येन कविस् सन् सोमः पवित्रम् अत्य् एति रेभन्न् इत्य् अतिंहायन्। ऋषिमना य ऋषिकृत् स्वर्षास् सहस्रनीथः पदवीः कवीनाम् इति सहस्ररूपं छन्दोमानाम् उपगच्छन्ति। पशवो वै छन्दोमाः। तृतीयं धाम महिषस् सिषासन्न् इति तृतीयो ह्य् एष त्रियहः क्रियते यच् छन्दोमाः। सोमो विराजम् अनु राजति ष्टुब् इति त्रैष्टुभं रूपम् उपगच्छन्ति। त्रैष्टुभं ह्य् एतद् अहः। अथो पूर्वो वैष सहो राज्यम्। तम् एवैतच् छन्दोमा अनु राजन्ति। चमूषच् छ्येनश् शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रद् इति गोमतीः पशुमतीर् भवन्ति पशूनाम एवावरुद्ध्यै। पशवो हि छन्दोमाः। अपाम् ऊर्मिं सचमानस् समुद्रम् इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः। तुरीयं धाम महिषो विवक्तीति तुरीयं ह्य् एतद् अहर् अह्नां क्रियते यच् छन्दोमाः॥जैब्रा ३.२०५

रम्भोपरि टिप्पणी

महिषोपरि टिप्पणी

शिशु उपरि आरम्भिकटिप्पणी



एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।
वर्धन्तो अस्य वीर्यं ॥ ११७८ ॥ ऋ. ९.८.१
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।
ते नो धत्त सुवीर्यं ॥ ११८१ ॥
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
देवानां योनिमासदं ॥ ११८० ॥
मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः ।
अनु विप्रा अमादिषुः ॥ ११८१ ॥
देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।
स गोभिर्वासयामसि ॥ ११८२ ॥
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।
परि गव्यान्यव्यत ॥ ११८३ ॥
मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
इन्दो सखायमा विश ॥ ११८४ ॥
नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदं ।
भक्षीमहि प्रजामिषं ॥ ११८५ ॥
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।
सहो नः सोम पृत्सु धाः ॥ ११८६ ॥

टिप्पणी

ता एता भवन्ति त्रिष्टुभस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एते सोमा अभिप्रियम् इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। इन्द्रस्य कामम् अक्षरन्न् इति यद् ऐन्द्रं तत् त्रिष्टुभो रूपम्। क्षत्रं हि त्रिष्टुप्। वर्धन्तो अस्य वीर्यम् इति वृद्धं ह्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। सू्क्तम् अनुरूपो भवति - पशवो वै सूक्तं पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवो, भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपं कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत रोहिणी कल्माषम्, उत कल्माषी रोहितम्। नवर्चं भवति। नव वै पुरुषे प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। द्वितीयं नवर्चं भवति, तृतीयं नवर्चं भवति। अभिपूर्वम् एवैतत् प्राणैस् समृध्यमाना यन्ति। पञ्चर्चं भवति - पञ्चपदा वै पंक्तिः। पांक्ताः पशवः। पशवश्छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तद् आहु ऋतुमान् पृष्ठ्यष् षडहो, ऽनृतवश् छन्दोमाः। अनृताव् इव एते प्रतिष्ठिता यच् छन्दोमा इति। तद् यद् एतानि पञ्चर्च(ष्) षड् ऋचानि भवन्ति तेनैवर्तुमन्तश् छन्दोमाः क्रियन्ते। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। चतुश्चत्वारिंश स्तोमो भवति। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रिय एवैतद् वीर्ये प्रतितिष्ठन्तो यन्ति॥जैब्रा ३.२०६

द्वादशाहे अष्टमे अहनि बहिष्पवमाने विनियोगः - आर्षेयकल्पः उपोद्घातः पृ. ७५



सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
वायोरिन्द्रस्य निष्कृतं ॥ ११८७ ॥
पवमानमवस्यवो विप्रमभि प्र गायत ।
सुष्वाणं देववीतये ॥ ११८८ ॥
पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
गृणाना देववीतये ॥ ११८९ ॥
उत नो वाजसातये पवस्व बृहतीरिषः ।
द्युमदिन्दो सुवीर्यं ॥ ११९० ॥
अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।
वि वारमव्यमाशवः ॥ ११९१ ॥
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यं ।
सुवाना देवास इन्दवः ॥ ११९२ ॥
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः ।
दधन्विरे गभस्त्योः ॥ ११९३ ॥
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
विश्वा अप द्विषो जहि ॥ ११९४ ॥
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
योनावृतस्य सीदत ॥ ११९५ ॥


सोमा असृग्रमिन्दवः सुता ऋतस्य धारया ।
इन्द्राय मधुमत्तमाः ॥ ११९६ ॥
अभि विप्रा अनूषत गावो वत्सं न धेनवः ।
इन्द्रं सोमस्य पीतये ॥ ११९७ ॥
मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।
सोमो गौरी अधि श्रितः ॥ ११९८ ॥
दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।
सोमो यः सुक्रतुः कविः ॥ ११९९ ॥
यः सोमः कलशेष्वा अन्तः पवित्र आहितः ।
तमिन्दुः परि षस्वजे ॥ १२०० ॥
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।
जिन्वन्कोशं मधुश्चुतं ॥ १२०१ ॥
नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघां ।
हिन्वानो मानुषा युजा ॥ १२०२ ॥
आ पवमान धारय रयिं सहस्रवर्चसं ।
अस्मे इन्दो स्वाभुवं ॥ १२०३ ॥
अभि प्रिया दिवः कविर्विप्रः स धारया सुतः ।
सोमो हिन्वे परावति ॥ १२०४ ॥


उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।
वाणस्य चोदया पविं ॥ १२०५ ॥
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।
यदव्य एषि सानवि ॥ १२०६ ॥
अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।
पवमानं मधुश्चुतं ॥ १२०७ ॥
आ पवस्व मदिन्तम पवित्रं धारया कवे ।
अर्कस्य योनिमासदं ॥ १२०८ ॥
स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।
एन्द्रस्य जठरं विश ॥ १२०९ ॥


अया वीती परि स्रव यस्त इन्दो मदेष्वा ।
अवाहन्नवतीर्नव ॥ १२१० ॥
पुरः सद्य इत्थाधिये दिवोदासाय शंबरं ।
अध त्यं तुर्वशं यदुं ॥ १२११॥
परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।
क्षरा सहस्रिणीरिषः ॥ १२१२ ॥


अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।
गच्छन्निन्द्रस्य निष्कृतं ॥ १२१३ ॥
महो नो राय आ भर पवमान जही मृधः ।
रास्वेन्दो वीरवद्यशः ॥ १२१४ ॥
न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् ।
यत्पुनानो मखस्यसे ॥ १२१५ ॥


अया पवस्व धारया यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः ॥ १२१६ ॥
अयुक्त सूर एतशं पवमानो मनावधि ।
अन्तरिक्षेण यातवे ॥ १२१७ ॥
उत त्या हरितो रथे सूरो अयुक्त यातवे ।
इन्दुरिन्द्र इति ब्रुवन् ॥१२१८ ॥


अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं ।
यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥ १२१९ ॥
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।
आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥ १२२० ॥
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।
अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥१२२१ ॥

टिप्पणी

अग्निं वो देवम् अग्निभिस् सजोषा इत्य् आग्नेयम् आज्यं भवति ऱाथन्तरम्। राथन्तरं ह्य् एतद् अहः। यजिष्ठं दूतम् अध्वरे कृणुध्वम्। यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः॥ इति । एतद् वा अग्नेः प्रियं धाम यद् घृतम्। प्रियेणैवैनं तं धाम्ना समृद्धयन्ति। प्रोथद् अश्वो न यवसे ऽविष्यन्न् इत्य् अश्ववद् भवति भ्रातृव्यस्यैवावनुत्त्यै। यदा महस् संवरणाद् व्य् अस्थाद् इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृ्णम् अस्तीति। यदा वा अग्निं वात उपवाजयत्य् अथ स महद् दीप्यते। तद् एतद् दीप्तिर् एव ब्रह्मवर्चसस्य रूपम्। उद् यस्य ते नवजातस्य वृष्ण इति त्रैष्टुभं रूपम् उपगच्छन्ति। त्रैष्टुभं ह्य् एतद् अहः। अग्ने चरन्त्य् अजरा इधानाः। अच्छा द्याम् अरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान्॥ इति स्वर्गस्य लोकस्य समष्ट्यै॥जैब्रा ३.२०७


१०
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥१२२२ ॥
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।
द्युम्नी श्लोकी स सोम्यः ॥ १२२३ ॥
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
ववक्ष उग्रो अस्तृतः ॥ १२२४ ॥

११
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनाहीन्द्राय पातवे ॥ १२२५ ॥
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।
पवमानस्य मरुतः ॥ १२२६ ॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमं ॥ १२२७ ॥
वैरूपम्
आशुभार्गवम्
मार्गीयवम्
सौमित्रम्
ऐटतम्
धुरासाकमश्वम्
विलम्बसौपर्णम्

१२
धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा ॥ १२२८ ॥
शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु ।
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥ १२२९ ॥
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।
प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः ॥ १२३० ॥
उद्वद्भार्गवम्

१३
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥ १२३१ ॥
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥ १२३२ ॥
नैपातिथम्

१४
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥१२३३ ॥
तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः ।
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ १२३४ ॥
वैयश्वम्

१५
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ १२३५ ॥
पवमान नि तोशसे रयिं सोम श्रवाय्यं ।
इन्दो समुद्रमा विश ॥ १२३६ ॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥ १२३७ ॥
सुरूपाद्यम्
भासम्
काक्षीवतम्
वासिष्ठमासितम्
स्वाशिरामर्कः

१६
अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥
परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ १२४० ॥
गौरीवितम्
ऐडं कौत्सम्
पदनिधनशुद्धाशुद्धीयम्
क्रौञ्चम्
रयिष्ठम्
औदलम्

१७
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ १२४१ ॥
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥ १२४२ ॥
दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥ १२४३ ॥
धर्म

१८
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियं ।
अग्ने रथं न वेद्यं ॥ १२४४ ॥
कविमिव प्रशंस्यं यं देवास इति द्विता ।
नि मर्त्येष्वादधुः ॥ १२४५ ॥
त्वं यविष्ठ दाशुषो नॄँ: पाहि शृणुही गिरः ।
रक्षा तोकमुत त्मना ॥ १२४६ ॥
औशनम्

१९
एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।
गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ १२४७ ॥
अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥ १२४८ ॥
त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि ।
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ १२४९ ॥
सांवर्तम्

२०
पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥ १२५० ॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलं ।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ १२५१ ॥
इन्द्रमीशानमोजसाभि स्तोमैरनूषत ।
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ १२५२ ॥
मारुतम्


[सम्पाद्यताम्]

टिप्पणी

१२२८ धर्ता दिवः इति

माध्यन्दिनस्य पवमानस्य स्तोम क्लृप्तिः : उद्वद्भार्गवं भवति। प्रवता वै देवा स्वर्गं लोकं प्रायन्नुद्वतोदायन्। - तां.ब्रा.१४.९.३९