सामग्री पर जाएँ

मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ६

विकिस्रोतः तः
← सर्गः ५ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ७ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।

हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ ंो_१,६.१ ॥

[ऋआमी १८, १]

स्पष्टम् ॥ ंोट्_१,६.१ ॥

 

 

 

सदृशं राजशार्दूल तवैवैतन्महीतले ।

महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ ंो_१,६.२ ॥

[ऋआमी १८, २]

"तवैव" न त्वन्यस्येत्यर्थः ॥ ंोट्_१,६.२ ॥

 

 

यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।

कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ंो_१,६.३ ॥

[ऋआमी १८, ३]

"तु"शब्दः "वाक्य"वाच्यस्य "कार्य"स्यातिकष्टं सम्पादनीयतां द्योतयति । तस्य "कार्यनिर्णयम्" हृद्गतवाक्यवाच्यकार्यनिर्णयमित्यर्थः । ननु किमर्थं करोमीत्य् । अत्राह "धर्मम्" इति । तवानेन धर्मपालनं भविष्यतीति भावः ॥ ंोट्_१,६.३ ॥

 

 

 

"हृद्गतं वाक्यम्" प्रकटीकरोति

अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।

तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ंो_१,६.४ ॥

[ऋआमी १८, ४]

"आतिष्ठे" आश्रयामि ॥ ंोट्_१,६.४ ॥

 

 

यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजम् ।

तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः ॥ ंो_१,६.५ ॥

"यजे" पूजयामि ॥ ंोट्_१,६.५ ॥

 

 

बहुशो विहिते तस्मिन्मम राक्षसनायकाः ।

अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥ ंो_१,६.६ ॥

[ऋआमी १८, ५ (*५६२)]

स्पष्टम् ॥ ंोट्_१,६.६ ॥

 

 

 

अवधूते तथाभूते तस्मिन् यागकदम्बके ।

कृतश्रमो निरुत्साहस्तस्माद्देशादपागमम् ॥ ंो_१,६.७ ॥

[ऋआमी १८, ६]

"अपागमम्" अपगतः ॥ ंोट्_१,६.७ ॥

 

 

न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।

तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ंो_१,६.८ ॥

[ऋआमी १८, ७]

शापदानेन स यज्ञः नश्यतीति भावः ॥ ंोट्_१,६.८ ॥

 

 

 

ईदृशी च क्षमा राजन्मम तस्मिन्महाक्रतौ ।

त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम् ॥ ंो_१,६.९ ॥

हे "राजन्" । अतः "मम तस्मिन्महाक्रतौ ईदृशी क्षमा" भवति । अतः अहम् "महाफलम्" तं क्रतुम् । "त्वत्प्रसादात्प्रापयेयम्" प्राप्नुयाम् । "प्रापयेयम्" इति स्वार्थे णिचार्षः ॥ ंोट्_१,६.९ ॥

 

 

 

त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् ।

अर्थिनां यन्निराशत्वं सतामभिभवो हि सः ॥ ंो_१,६.१० ॥

स्पष्टम् ॥ ंोट्_१,६.१० ॥

 

 

ननु केन प्रकारेणाहं त्वत्त्राणं करोमीत्य् । अत्राह

तवास्ति तनयः श्रीमान् दृप्तशार्दूलविक्रमः ।

महेन्द्रसदृशो वीरो रामो रक्षोविदारणः ॥ ंो_१,६.११ ॥

स्पष्टम् ॥ ंोट्_१,६.११ ॥

 

 

 

ननु ततः किमित्य् । अत्राह

तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।

काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ ंो_१,६.१२ ॥

[ऋआमी १८, ८]

तेनैव रक्षापरपर्यायं त्राणं मे भविष्यतीति भावः ॥ ंोट्_१,६.१२ ॥

 

 

ननु कथं शिशुरूपोऽसौ राक्षसेभ्यस्तव मखं रक्षिष्यतीत्य् । अत्राह

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।

राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ ंो_१,६.१३ ॥

[ऋआमी १८, ९]

स्पष्टम् ॥ ंोट्_१,६.१३ ॥

 

 

श्रेयश्चास्मिन् करिष्यामि बहुरूपमनन्तकम् ।

त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ ंो_१,६.१४ ॥

[ऋआमी १८, १०]

स्पष्टम् ॥ ंोट्_१,६.१४ ॥

 

 

ननु कथमसौ तादृशानां राक्षसानां पुरः स्थातुं शक्नोतीत्य् । अत्राह

न च तेन समासाद्य स्थातुं शक्ता निशाचराः ।

[ऋआमी १८, ११ ब्]

क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः ॥ ंोट्_१,६.१५ ॥

 

 

 

"तेन" इति द्वितीयास्थाने तृतीया आर्षी ॥ ंोट्_१,६.१५ ॥

 

 

 

तेषां च नान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् ।

[ऋआमी १८, ११ द्]

ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ ंोट्_१,६.१६ ॥

 

 

 

स्पष्टम् ॥ ंोट्_१,६.१६ ॥

 

 

वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।

[ऋआमी १८, १२ ब्]

खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ ंोट्_१,६.१७ ॥

 

 

 

स्पष्टम् ॥ ंोट्_१,६.१७ ॥

 

 

रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।

[ऋआमी १८, १२ द्]

अनारतागता धारा जलदस्येव पांसवः ॥ ंोट्_१,६.१८ ॥

 

 

 

स्पष्टम् ॥ ंोट्_१,६.१८ ॥

 

 

न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ।

[ऋआमी १८, १३ ब्]

न तदस्ति जगत्यस्मिन् यन्न देयं महात्मनः ॥ ंोट्_१,६.१९ ॥

 

 

स्पष्टम् ॥ ंोट्_१,६.१९ ॥

 

 

हन्त नूनं विजानामि हतांस्तान् विद्धि राक्षसान् ।

[ऋआमी १८, १३ द्]

न ह्यस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ ंोट्_१,६.२० ॥

 

 

 

"हन्त" हर्षे ।" नूनं" निश्चये । अहं तान् "राक्षसान्" "हतान्" जानामि । त्वमपि "विद्धि" । ननु कथमहं त्वत्कथनमात्रेण जानामीत्य् । अत्राह "न" "ही"ति । "सं" सम्यक् । "प्रवृत्तिः" । येषाम् । ते तादृशाः ॥ ंोट्_१,६.२० ॥

 

 

अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।

वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ ंो_१,६.२१ ॥

[ऋआमी १८, १४]

स्पष्टम् ॥ ंोट्_१,६.२१ ॥

 

 

यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।

तन्मह्यं स्वमभिप्रेतमात्मजं दातुमर्हसि ॥ ंो_१,६.२२ ॥

[ऋआमी १८, १५]

"मनसि स्थितं" काङ्क्षितम् । "अभिप्रेतम्" प्रोक्तं कार्यार्थमिष्टम् ॥ ंोट्_१,६.२२ ॥

 

 

दशरात्रश्च मे यज्ञो यस्मिन् रामेण राक्षसाः ।

[ऋआमी १८, १७ द्]

हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ ंोट्_१,६.२३ ॥

 

 

स्पष्टम् ॥ ंोट्_१,६.२३ ॥

 

 

अत्राभ्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।

वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ ंो_१,६.२४ ॥

[ऋआमी १८, १६]

स्पष्टम् ॥ ंोट्_१,६.२४ ॥

 

 

नात्येति कालः कालज्ञ यथायं मम राघव ।

तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ ंो_१,६.२५ ॥

[ऋआमी १८, १८]

"अत्येति" गच्छति ॥ ंोट्_१,६.२५ ॥

 

 

कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।

महदप्युपकारेण रिक्ततामेत्यकालतः ॥ ंो_१,६.२६ ॥

"अकालतः" अकाले ॥ ंोट्_१,६.२६ ॥

 

 

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।

विरराम महातेजा विश्वामित्रो मुनीश्वरः  ॥ ंो_१,६.२७ ॥

[ऋआमी १८, १९]

स्पष्टम् ॥ ंोट्_१,६.२७ ॥

 

 

 

सर्गान्तश्लोकेन दशरथतूष्णीम्भावं कथयति

श्रुत्वा वचो मुनिवरस्य महाप्रभावस्

तूष्णीमतिष्ठदुपपन्नमिदं स वक्तुम् ।

नो युक्तियुक्तकथनेन विनैति तोषं

धीमानपूरितमनोऽभिमतश्च लोकः ॥ ंो_१,६.२८ ॥

"महाप्रभावो" महानुभावयुक्तः । "स" दशरथः । "मुनिवरस्य" विश्वामित्रस्य । "वचः" "श्रुत्वा" "तूष्णीमतिष्ट्ःत्" । नो किञ्चिदप्युक्तवानित्यर्थः । "इदं" तूष्णीमासनम् । "उपपन्नं" युक्तम् । भवति । यतः "धीमान्" बुद्धियुक्तः । "युक्तियुक्तकथनेन" "विना" "वक्तुं" कथयितुं "तोषं" "नैति" । न कथयतीत्यर्थः । "लोकश्" "च" लोकस्तु । "अपूरितमनोऽभि"लषितः "वक्तुं" "तोषं" "नैति" । अतः युक्तिरहितं विश्वामित्रस्य वाक्यं श्रुत्वा दशरथः तुष्णीमभूदिति भावः । इति शिवम् ॥ ंोट्_१,६.२८ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षष्ठः सर्गः ॥ १,६ ॥