मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ११
← सर्गः १० | मोक्षोपायटीका/वैराग्यप्रकरणम् भास्करकण्ठः |
सर्गः १२ → |
मोक्षोपायटीका/वैराग्यप्रकरणम् |
---|
इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः ।
उवाच वचनं चारु धीरपूर्णार्थमन्थरम् ॥१,११.१ ॥
"धीरं" च तत्"पूर्णार्थेन" "मन्थरं" निर्भरं च "धीरपूर्णार्थमन्थरम्" ॥१,११.१ ॥
इतः परं वैराग्यप्रकरणारम्भः ।
स्मृत्वा तत्त्वं परमगहनं स्वस्वरूपाख्यमाद्यं
स्पृष्ट्वा मूर्ध्ना गुरुचरणयोर्धूलिपुञ्जं प्रयत्नात्*
कृत्वा देवं शरणमनिशं विघ्नराजं च टीका
वैराग्याख्ये प्रकरणवरे तन्यते भास्करेण ** १४ **
समाश्वासनपरं श्रीवसिष्ठश्रीविश्वामित्रयोर्वाक्यं श्रुत्वा श्रीरामो हृद्गतं वैराग्यं प्रकटीकरोति
भगवन् भवता पृष्टो यथावदधुना किल ।
कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥१,११.२ ॥
"भवते"ति कुलगुरुं वसिष्ठं प्रत्युक्तिः । किमर्थं कथयसीत्य् । अत्राह "को" "लङ्घयती"ति ॥१,११.२ ॥
स्वयं कृतां प्रतिज्ञां सम्पादयति
अहं तावदयं जातो निजेऽस्मिन् पितृसद्मनि ।
क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश्च संस्थितः ॥१,११.३ ॥
"तावच्"छब्दो विप्रतिपत्त्यभाववाचकः ॥१,११.३ ॥
ततः सदाचारपरो भूत्वाहं मुनिनायक ।
विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥१,११.४ ॥
स्पष्टम् ॥१,११.४ ॥
एतावताथ कालेन संसारास्थामिमां मम ।
स्वविवेको जहारान्तरोघस्तटलतामिव ॥१,११.५ ॥
"स्वविवेकः" कोऽहमिति विचारः ॥१,११.५ ॥
विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।
भोगनीरसया बुद्ध्या प्रविचारितवानिदम् ॥१,११.६ ॥
स्पष्टम् ॥१,११.६ ॥
किं त्वया "प्रविचारितम्" इत्य् । अत्राह
किं नामेदं वत सुखं योऽयं संसारसंसृतिः ।
जायते मृतये लोको म्रियते जननाय च ॥१,११.७ ॥
"वत" कष्टे । "इदं" "सुखं" "किं" "नाम" भवति । न भवतीत्यर्थः । "इदं" किम् । "संसारे" "संसृतिः" संसरणं यस्य । सः तादृशः । "यः" "अयं" "लोकः" । "मृतये" यत्"जायते" । "जननाय" च यन् "म्रियते" ॥१,११.७ ॥
मृतिजननरूपस्य संसरणस्य दुःखत्वमुक्त्वा तदाश्रयभूतानां भावानां दुःखयुक्तत्वं कथयति
स्वस्थिताः सर्व एवेमे सचराचरचेष्टिताः ।
आपदां पतयः पापा भावा विभवभूमयः ॥१,११.८ ॥
"सचराचरचेष्टिताः" चलनस्थितिरूपक्रियायुक्ताः । "सर्वे" "एवेमे"ऽनुभूयमानाः । "भावाः" स्थावरजङ्गमरूपाः पदार्थाः । "आपदाम्" "पतयः" आपद्युक्ताः भवन्ति । पूर्वश्लोकोक्तजननमरणरूपदुःखाश्रयत्वादित्यर्थः । "भावाः" कथम्भूताः । "स्वस्थिताः" स्वस्मिन् स्थिताः । न तु परस्परं सम्बन्धयुक्ताः । पुनः कथम्भूताः । "विभवभूमयः" यथास्वं शक्तियुक्ताः ॥१,११.८ ॥
ननु कथम् "भावाः" "स्वस्थिताः" भवन्ति । परस्परं तेषां नानाविधसम्बन्धदर्शनादित्य् । अत्राह
अयःशलाकासदृशाः परस्परमसङ्गिनः ।
श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥१,११.९ ॥
अयं मम पुत्रादिः अयं मम पित्रादिरिति "मनःकल्पितेन" सङ्कल्पेनैव भावानाम् "परस्परं" सम्बन्धोऽस्ति । न तु परमार्थत इति भावः ॥१,११.९ ॥
ननु मनसः कथमेतावती शक्तिरस्तीत्य् । अत्राह
मनःसमायत्तमिदं जगदाभोगि दृश्यते ।
मनश्चासदिहाभाति केन स्मः परिमोहिताः ॥१,११.१० ॥
"आभोगि" विस्तारयुक्तम् । "मनसः" "असत्त्वम्" असत्यभूतपदार्थानुसन्धानमात्ररूपत्वेन ज्ञेयम् ॥१,११.१० ॥
असतैव वयं कष्टं विक्रीता मूढबुद्धयः ।
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥१,११.११ ॥
"असता" "एव" । न तु सत्यभूतेन । मनसेति शेषः ॥१,११.११ ॥
न केनचिच्च विक्रीता विक्रीता इव संस्थिताः ।
वत मूढा वयं सर्वे जनाना अपि शम्बरम् ॥१,११.१२ ॥
"शम्बरम्" मायाम् ॥१,११.१२ ॥
किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।
मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥१,११.१३ ॥
"एतेषु प्रपञ्चेषु" मध्ये ।" सुदुर्भगाः" अतिशयेन दुर्भगत्वाख्यगुणयुक्ताः । "भोगा नाम किम्" भवन्ति । आपातमात्ररमणीयत्वात्न किञ्चिदपि भवन्तीत्यर्थः । "हि"शब्दः अतःशब्दार्थे । "हि" अतः । "वयम्" "एतेषु" भोगेषु । "बद्धभावनाः" । "मोहात्" "मुधैव" "संस्थिताः" व्यर्थत्वात् ॥१,११.१३ ॥
अज्ञाते बहुकालेन व्यर्थ एव वयं घने ।
मोहे निपतिता मुग्धाः श्वभ्रे मुग्धमृगा इव ॥१,११.१४ ॥
"मोहे" भोगभावनाख्ये मोहे । "बहुकालेन" बहुकालं तावत् ॥१,११.१४ ॥
किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् ।
यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥१,११.१५ ॥
[भगवद्गीता ई ३२ द्]
"यत्मिथ्या" भवति "तत्मिथ्यैवास्तु" इति सम्बन्धः ॥१,११.१५ ॥
अवान्तरमुपसंहारं करोति
एवं विमृशतो ब्रह्मन् सर्वेष्वेव ततो मम ।
भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥१,११.१६ ॥
स्पष्टम् ॥१,११.१६ ॥
स्वाभिमतमाविष्करोति
तदेतद्भगवन् ब्रूहि किमिदं परिनश्यति ।
किमिदं जायते भूयः किमिदं परिवर्धते ॥१,११.१७ ॥
"किम्" इति कथमित्यस्यार्थे ॥१,११.१७ ॥
जरामरणमापच्च जननं सम्पदस्तथा ।
आविर्भावतिरोभावैर्विवर्तन्ते पुनः पुनः ॥१,११.१८ ॥
भावेषु इति शेषः । "भावैर्" इति इत्थम्भावे तृतीया । "विवर्तन्ते" रूपान्तरं गच्छन्ति ॥१,११.१८ ॥
भावैस्तैरेव तैरेव तुच्छैर्वयमिमे किल ।
पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥१,११.१९ ॥
स्पष्टम् ॥१,११.१९ ॥
अचेतना इव जनाः पवनैः प्राणनामभिः ।
ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥१,११.२० ॥
"कीचकवेणवो" हि व्यर्थं ध्वनन्ति ॥१,११.२० ॥
शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया ।
जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥१,११.२१ ॥
स्पष्टम् ॥१,११.२१ ॥
संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् ।
निजलोकभयादेव गलद्बाष्पैर्न रोदिमि ॥१,११.२२ ॥
"संसारदुःखान्य्" एव "पाषाणाः" । तैः "नीरन्ध्रं" "हृदयं" यस्य । सः तादृशः ॥१,११.२२ ॥
शून्यसन्मुखवृत्तीस्तु शुष्करोदननीरसाः ।
विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥१,११.२३ ॥
"शून्या" व्यर्थाश्च ताः । "सन्मुखवृत्तयः" सन्मुखव्यापाराः ताः । "एकान्तेषु" "विवेकै"कपर "एवा"स्मीति भावः ॥१,११.२३ ॥
भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।
दारिद्र्येणेव सुभगो दूरे संसारचिन्तया ॥१,११.२४ ॥
"स्थितिं" जगदाख्यां स्थितिम् । अहं क "इव" । "सुभग इव" । यथा "सुभगः" "दारिद्र्येण" "मुह्यति" । तथेत्यर्थः । अतः "संसारचिन्तया" "दूरे" । सा दूरे भवत्वित्यर्थः ॥१,११.२४ ॥
एवं सामान्येन संसारपदार्थानां दुःखदतामुक्त्वा तद्विशेषेषु प्रधानभूतायाः श्रियः कथयति
मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणानलम् ।
दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥१,११.२५ ॥
"मोहयन्ति" अविवेकयुक्ततां कुर्वन्ति । ऐश्वर्यमदग्रस्ता हि पूर्वापरविचारशून्या एव भवन्ति । "विप्रलम्भपराः" वञ्चनपराः ॥१,११.२५ ॥
एवं श्रियः दुःखदत्वमुक्त्वा तत्प्रधानावयवभूतस्य धनस्यापि दुःखदत्वं कथयति
चिन्तानिचयवक्राणि नानन्दाय धनानि मे ।
सम्प्रसूतकलत्राणि गृहाण्युग्रापदां यथा ॥१,११.२६ ॥
"चिन्तानिचयेना"र्जनाद्यर्थं प्रयुक्तेन चिन्तासमूहेन । "वक्राणि" कुटिलानि । "उग्रापदां" हि बहु"कलत्राणि" "गृहाणि" दुःखायैव भवन्ति ॥१,११.२६ ॥
सङ्ग्रहेण स्वास्वास्थ्यं कथयति
विविधदोषदशापरिचिन्तनैः
सततभङ्गुरकारणकल्पितैः ।
मम न निर्वृतिमेति मनो मुने
निगडितस्य यथा वनहस्तिनः ॥१,११.२७ ॥
"विविधा" याः "दोषदशाः" । तासाम् "परिचिन्तनैः" । कथम्भूतैः । "सततं" "भङ्गुराणि" यानि "कारणानि" भोगरूपाणि कारणानि । तैः "कल्पितैः" स्वविषयतया प्रकटीकृतैः ॥१,११.२७ ॥
सर्वदोषमूलकारणभूतान् विषयान् सर्गान्तश्लोकेन निन्दति
खलाः काले काले निशि निशितमोहैकमिहिका
गतालोके लोके विषयहठचौराः सुचतुराः ।
प्रवृत्ताः प्रोद्युक्ता दिशि दिशि विवेकैकहरणे
रणे शक्तास्तेषां वदत विबुधाः केऽद्य सुभटाः ॥१,११.२८ ॥
"खलाः" अत्यन्तदुःखकारित्वात्दुर्जनसदृशास्। तथा "सुचतुराः" अतिचातुर्ययुक्ताः । "विषयहठचौराः" । "निशि" लक्षणया अविद्यारूपायां रात्रौ । "निशिता" तीक्ष्णा या "मोहैकमिहिका" । तया "गतालोके" दूरे गतविचाराख्यप्रकाशे । "लोके" अस्मिन् संसारे । "काले काले" सर्वेषु कालेषु । "दिशि दिशि" सर्वासु दिक्षु । "प्रोद्युक्ताः" प्रकृष्टोद्योगभाजः । अत एव "विवेकस्य" सम्यग्विचारस्य । यद्"एकं" "हरणं" केवलं हरणम् । तत्र "प्रवृत्ताः" भवन्ति । हे "विबुधाः" यूयम् । "वदताद्य" अस्मिन् समये । "तेषां" "विषयहठचौराणां" "रणे के सुभटाः" "शक्ताः" भवन्ति । न केऽपीति भावः । इति शिवम् ॥१,११.२८ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकादशः सर्गः ॥ १,११ ॥