सामग्री पर जाएँ

मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १२

विकिस्रोतः तः
← सर्गः ११ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १३ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



समनन्तरमेव प्रकृतां श्रीनिन्दां विस्तरेण कथयति

इयमस्मिन् विनोदाय संसारे परिकल्पिता ।

श्रीर्मुने परिमोहाय सापि नूनमनर्थदा ॥१,१२.१ ॥

"नूनं" निश्चयेन । "अनर्थदे"ति विशेषणद्वारहेतुः ॥१,१२.१ ॥

 

 

 

अनर्थदत्वमेवास्याः कथयति

उल्लासबहुलानन्तः कल्लोलानक्रमाकुलान्  ।

जडान् प्रस्रवति स्फारान् प्रावृषीव तरङ्गिणी ॥१,१२.२ ॥

इयं श्रीः "उल्लासबहुलान्" उल्लासपूर्णान् । "अक्रमाकुलान्" क्रमोल्लङ्घननिर्भरान् । तथा "जडान्" जाड्यदायित्वात्जडरूपान् । "कल्लोलान्" दर्पाख्यान्महातरङ्गान् । "प्रस्रवति" उत्पादयति । का "इव" । "तरङ्गिणीव" । यथा "तरङ्गिणी" "प्रावृषि" वर्षाकाले । उक्तविशेषणान्महातरङ्गान् प्रस्रवति । तथेत्यर्थः ॥१,१२.२ ॥

 

 

 

चिन्तादुहितरो बह्व्यो भूरिदुर्ललितेरिताः ।

चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥१,१२.३ ॥

"भूरीणि" यानि "दुर्ललितानि" दुर्विलासाः । तैर्"ईरिताः" चञ्चलिताः । उत्थापिता इति यावत् ॥१,१२.३ ॥

 

 

 

एषा हि पदमेकत्र न निबध्नाति दुर्भगा ।

मुग्धेवानियताचारमितश्चेतश्च धावति ॥१,१२.४ ॥

"हि" निश्चये । "अनियताचारं" कामचारत इत्यर्थः । क्रियाविशेषणमेतत् ॥१,१२.४ ॥

 

 

जनयन्ती परं दाहं परामृष्टाङ्गिका सती ।

विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥१,१२.५ ॥

स्पष्टम् ॥१,१२.५ ॥

 

 

गुणागुणविचारेण विनैव किल पार्श्वगम् ।

राजप्रकृतिवन्मूढा दुरारूढावलम्बते  ॥१,१२.६ ॥

"राजप्रकृतिवत्" राजस्वभाववत् । राजापि हि "गुणागुणविचार"रहितमेव "पार्श्वगम्" "अवलम्बते" ॥१,१२.६ ॥

 

 

 

कर्मणा तेन तेनैषा विस्तारमुपगच्छति ।

दोषाशीविषवेगस्य यत्क्षीरविसरायते ॥१,१२.७ ॥

"क्षीरस्य" "विसरः" सेकः । स इवाचरते "क्षीरविसरायते" ॥१,१२.७ ॥

 

 

 

तावच्छीतमृदुस्पर्शः परस्वे च जने जनः ।

वात्ययेव हिमं यावच्छ्रिया न परुषीकृतः ॥१,१२.८ ॥

श्रीस्पर्शे "जनः" "स्वस्मिन् परे च" महाकठिन एव भवतीति पिण्डार्थः । "वात्या" हि "हिमम्" "परुषीकरोती"त्युपमानत्वेन गृहीता ॥१,१२.८ ॥

 

 

प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये ।

पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥१,१२.९ ॥

स्पष्टम् ॥१,१२.९ ॥

 

 

न श्रीः सुखाय भगवन् दुःखायैव हि कल्पते ।

गुप्तं विनाशनं धत्ते मृतिं विषलता यथा  ॥१,१२.१० ॥

स्पष्टम् ॥१,१२.१० ॥

 

 

 

श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः ।

समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥१,१२.११ ॥

श्रिया स्पृष्टः साहङ्कारत्वेन जननिन्द्य एव भवतीति भावः ॥१,१२.११ ॥

 

 

एषा हि विषमा दुःखभोगिनां गहना गुहा ।

घनमोहगजेन्द्राणां विन्ध्यशैलमहाटवी ॥१,१२.१२ ॥

स्पष्टम् ॥१,१२.१२ ॥

 

 

पुनः कीदृश्यस्तीत्यपेक्षायामाह

सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका ।

सद्दृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥१,१२.१३ ॥

"कल्लोलाः" दर्परूपाः महातरङ्गाः ॥१,१२.१३ ॥

 

 

सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी ।

केदारिका विकल्पानां खदा कुभयभोगिनाम् ॥१,१२.१४ ॥

"खदा" गुहा । "कुभयानि" एव "भोगिनः" सर्पाः । तेषाम् ॥१,१२.१४ ॥

 

 

हिमं वैराग्यवल्लीनां विकारोलूकयामिनी ।

राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥१,१२.१५ ॥

स्पष्टम् ॥१,१२.१५ ॥

 

 

इन्द्रायुधवदालोलनानारागमनोहरा ।

लोला तडिदिवोत्पन्नध्वंसिनी जडसंश्रया ॥१,१२.१६ ॥

स्पष्टम् ॥१,१२.१६ ॥

 

 

चपला वर्जिता रत्या नकुली नकुलीनजा ।

विप्रलम्भनतात्पर्यहेतूग्रमृगतृष्णिका ॥१,१२.१७ ॥

"चपला" चापल्यगुणसहिता । अत एव "रत्या" "वर्जिता" कुत्रापि रतिमकुर्वतीत्यर्थः । तथा "नकुली" अतिचापलत्वेन नकुलस्त्रीसरूपा । तथा "नकुलीनजा" दुष्टा । अकुलीनजो हि दुष्टो भवति । तथा "विप्रलम्भने" परवञ्चने । यत्"तात्पर्यम्" । तस्य "हेतुश्" चासौ "उग्रमृगतृष्णिका" कठिनमृगतृष्णास्वरूपा ॥१,१२.१७ ॥

 

 

 

लहरीवैकरूपेण क्षणं पदमकुर्वती ।

चला दीपशिखेवाति दुर्ज्ञेयागतिगोचरा ॥१,१२.१८ ॥

न "गतौ" गमने गोचरा "अगतिगोचरा" । "दीपशिखा"पि गतौ अगोचरा एव भवति ॥१,१२.१८ ॥

 

 

सिंहीव विग्रहव्यग्रकरीन्द्रकुलपातिनी ।

खड्गधारेव शिशिरा तीक्ष्णा तीक्ष्णाशयाश्रया ॥१,१२.१९ ॥

"विग्रहव्यग्रं" युद्धव्यग्रम् । यत्"करीन्द्रकुलं" हस्तिकुलम् । तत्र पततीति तादृशी तत्साध्यत्वात् । "सिंही" चेदृशी भवति । "शिशिरा" आमुखे सन्तापहरित्वात् । "तीक्ष्णाशयाः" कठिनचिन्ताः । "आश्रयः" यस्याः । सा ॥१,१२.१९ ॥

 

 

 

नानयोपहतार्थिन्या दुराधिपरिपीनया ।

पश्याम्यभव्यया लक्ष्म्या किञ्चिद्दुःखादृते सुखम् ॥१,१२.२० ॥

"उपहतान्" अज्ञानबाधितान् । "अर्थते" आलम्बनत्वेन काङ्क्षतीति तादृश्या ॥१,१२.२० ॥

 

 

 

द्वारेणोत्सारिता लक्ष्मीः पुनरेति तमोऽरिणा ।

अहो वत हृतस्थाना निर्लज्जा दुर्जनास्पदा ॥१,१२.२१ ॥

"तमोऽरिणा" गेहान्तर्गततमोनिवारणार्थं कल्पितेन क्षुद्रद्वारेण ॥१,१२.२१ ॥ सर्गान्तश्लोकेन श्रीनिन्दां समापयति

मनोरमा कर्षति चित्तवृत्तिं

कदर्यसाध्या क्षणभङ्गुरा च ।

व्यालावलीगर्भनिवृत्तदेहा

श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥१,१२.२२ ॥

"कदर्यसाध्या" कुकर्मसाध्या । श्रीपक्षे "व्यालावली" दुःखावली । इति शिवम् ॥१,१२.२२ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वादशः सर्गः ॥ १,१२ ॥