मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २७
← सर्गः २६ | मोक्षोपायटीका/वैराग्यप्रकरणम् भास्करकण्ठः |
सर्गः २८ → |
मोक्षोपायटीका/वैराग्यप्रकरणम् |
---|
एवं जगतो नित्यतामुक्त्वाथ तद्विपर्यासं कथयति
यच्चेदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
तत्सर्वमस्थिरं ब्रह्मन् स्वप्नसङ्गमसन्निभम् ॥ १,२७.१ ॥
स्पष्टम् ॥ १,२७.१ ॥
अस्थिरत्वमेव विस्तरतः कथयति
शुष्कसागरसङ्काशो निखातो योऽद्य दृश्यते ।
स प्रातरभ्रसंवीतो नगः सम्पद्यते मुने ॥ १,२७.२ ॥
"निखातः" गर्तः ॥ १,२७.२ ॥
यो वनव्यूहविस्तीर्णो विलीढगगनोऽचलः ।
दिनैरेव स यात्युर्वीसमतां कूपतां च वा ॥ १,२७.३ ॥
"विलीढगगनः" व्याप्ताकाशः ॥ १,२७.३ ॥
यदङ्गमद्य संवीतं कौशेयस्रग्विलेपनैः ।
दिगम्बरं तदेव श्वो दूरे विशरितावटे ॥ १,२७.४ ॥
"श्वो" दिने । "विशरिता" विशीर्णो भविता ॥ १,२७.४ ॥
यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् ।
तत्रैवोदेति दिवसैः संशून्यारण्यधन्वता ॥ १,२७.५ ॥
"धन्वा" मरुः ॥ १,२७.५ ॥
यः पुमानद्य तेजस्वी मण्डलान्यधितिष्ठति ।
स भस्मकूटतां राजन् दिवसैरधिगच्छति ॥ १,२७.६ ॥
"मण्डलानि" देशान् । "भस्मकूटताम्" भस्मचयभावम् ॥ १,२७.६ ॥
अरण्यानी महाभीमा या नभोमण्डलोपमा ।
पताकाच्छादिताकाशा सैव सम्पद्यते पुरी ॥ १,२७.७ ॥
स्पष्टम्॥ १,२७.७ ॥
या लतावलिता भीमा भात्यद्य विपिनावली ।
दिवसैरेव सा याति मुने मरुमहीपदम् ॥ १,२७.८ ॥
"मरुमहीपदम्" मरुमहीभावम् ॥ १,२७.८ ॥
सलिलं स्थलतां याति स्थली भवति वारिभूः ।
विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥ १,२७.९ ॥
"विपर्यस्यति" विपर्यासं याति ॥ १,२७.९ ॥
अनित्यं यौवनं बाल्यं शरीरं द्रव्यसञ्चयाः ।
भावाद्भावान्तरं यान्ति तरङ्गवदनारतम् ॥ १,२७.१० ॥
"भावात्" एकस्मात्स्वरूपात् । "भावान्तरम्" अन्यत्स्वरूपम् ॥ १,२७.१० ॥
वातात्तदीपकशिखालोलं जगति जीवितम् ।
तडित्स्फुरणसङ्काशा पदार्थश्रीर्जगत्त्रये ॥ १,२७.११ ॥
"वातात्ता" वातगृहीता ॥ १,२७.११ ॥
विपर्यासमियं याति भूरिभूतपरम्परा ।
बीजराशिरिवाजस्रं प्रथमानः पुनः पुनः ॥ १,२७.१२ ॥
"प्रथमानः" उप्यमानः ॥ १,२७.१२ ॥
मनःपवनपर्यस्तभूरिभूतरजःपटा ।
पातोत्पातपरावर्तवराभिनयभूषिता ॥ १,२७.१३ ॥
आलक्ष्यते स्थितिरियं जागती जनितभ्रमा ।
नृत्तावेशविवृत्तेव संसारारभटीनटी ॥ १,२७.१४ ॥
"मनःपवनेन पर्यस्ताः" ईरिताः । ये "भूरिभूतास्" । ते एव "रजःपटः" रजोवृतः पटः । यस्याः । सा । "परावर्तः" पुनरावृत्तिरूपो भ्रमः । "जागती स्थितिः" जगद्रूपा स्थितिः । "नृत्ते" य "आवेशः" । तत्र "विवृत्ता" प्रवृत्ता । "संसारे" संसाराख्ये रङ्गे । या "आरभटी" । तस्याः "नटी" । "आरभटी" रौद्ररसवृत्तिविशेषः ॥ १,२७.१३१४ ॥
गन्धर्वनगराकारविपर्यासविधायिनी ।
अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥ १,२७.१५ ॥
तडित्तरलमालोकमातन्वाना पुनः पुनः ।
संसाररञ्जना ब्रह्मन्नृत्तमत्तेव राजते ॥ १,२७.१६ ॥
"संसारस्य" "रञ्जना" रागः । "नृत्तमत्तेव राजते" । कथम्भूता । "गन्धर्वनगराकारः" यः "विपर्यासः" । तं "विदधाती"ति तादृशी । तथ्"आपाङ्ग"वत्"भङ्गुरः" । "अपाङ्गेषु" च "भङ्गुरः" । यः "उदारव्यवहारः" । तेन "मनोरमा" । तथा "तडित्तरलम्" अतिचञ्चलम् । "आलोकं" स्वविषयं ज्ञानं स्वशरीरप्रकाशनं च । "पुनः" "पुनः आतन्वाना" ॥ १,२७.१५१६ ॥
दिवसास्ते महान्तस्ते संपदस्ताः क्रियाश्च ताः ।
सर्वं स्मृतिपदं यातं यामो वयमपि क्षणात् ॥ १,२७.१७ ॥
"ते दिवसा" इति सम्बन्धः । "तच्"छब्देन पूर्वानुभूतानां दिवसानां स्मरणम् ॥ १,२७.१७ ॥
प्रत्यहं क्षयमायाति प्रत्यहं जायते पुनः ।
अद्यापि हतरूपाया नान्तोऽस्या दग्धसंसृतेः ॥ १,२७.१८ ॥
स्पष्टम् ॥ १,२७.१८ ॥
तिर्यक्त्वं पुरुषा यान्ति तिर्यञ्चो नरतामपि ।
देवाश्चादेवतां चैते किमेवेह विभो स्थिरम् ॥ १,२७.१९ ॥
"तिर्यग्"आदीनाम् "पुरुषत्वा"दिगमनं स्वभावद्वारेण ज्ञेयमथ वा जन्मद्वारेण ॥ १,२७.१९ ॥
रचयन् रश्मिजालेन रात्र्यहानि पुनः पुनः ।
अतिवाह्य रविः कायं विनाशावधिमीक्षते ॥ १,२७.२० ॥
"अतिवाह्य" प्रवर्तयित्वा ॥ १,२७.२० ॥
ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः ।
नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ १,२७.२१ ॥
स्पष्टम् ॥ १,२७.२१ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् ॥ १,२७.२२ ॥
सुदाह्यत्वसूचकं "संशुष्कम्" इति ॥ १,२७.२२ ॥
धनानि बन्धवो भृत्या मित्राणि विभवाश्च ये ।
विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥ १,२७.२३ ॥
ममेति शेषः ॥ १,२७.२३ ॥
स्वदन्ते तावदेवैते भावा जगति धीमतः ।
यावत्स्मृतिपथं याति न विनाशकुराक्षसः ॥ १,२७.२४ ॥
स्पष्टम् ॥ १,२७.२४ ॥
क्षणमैश्वर्यमायाति क्षणमेति दरिद्रता ।
क्षणं विगतरोगत्वं क्षणमागतरोगता ॥ १,२७.२५ ॥
स्पष्टम् ॥ १,२७.२५ ॥
प्रतिक्षणं विपर्यासदायिना महतामुना ।
जगद्भ्रमेण के नाम धीमन्तोऽपि न मोहिताः ॥ १,२७.२६ ॥
स्पष्टम् ॥ १,२७.२६ ॥
तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् ।
क्षणं कनकनिःष्यन्दकोमलालोकसुन्दरम् ॥ १,२७.२७ ॥
क्षणं जलदनीलाब्जमालावलितकोटरम् ।
क्षणमुड्डामररवं क्षणं मूकमवस्थितम् ॥ १,२७.२८ ॥
क्षणं ताराविलसितं क्षणमर्केण भूषितम् ।
क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥ १,२७.२९ ॥
आगमापायपरया स्थित्या संस्थितनाशया ।
न बिभेतीह संसारे धीरोऽपि क इवानया ॥ १,२७.३० ॥
"स्थित्या" जगत्स्थित्या । अधीरस्य तु का कथेति भावः ॥ १,२७.२७३० ॥
आपदः क्षणमायान्ति क्षणमायान्ति सम्पदः ।
क्षणं जन्माथ मरणं मुने किमिव न क्षणम् ॥ १,२७.३१ ॥
सर्वं क्षणे एवेति भावः ॥ १,२७.३१ ॥
प्रागासीदन्य एवेह तातस्त्वन्येतरो दिनैः ।
अप्येकरूपं भगवन् किञ्चिदस्ति न सुस्थितम् ॥ १,२७.३२ ॥
"तातः" दशरथः । अन्यस्मातितरः "अन्येतरः" ॥ १,२७.३२ ॥
घटस्य पटता दृष्टा पटस्यापि घटस्थितिः ।
न तदस्ति न यद्दृष्टं विपर्यस्यति संसृतौ ॥ १,२७.३३ ॥
"दृष्टे"ति कालान्तरे मृत्त्वादिद्वारेण "विपर्यस्यति" विपर्यासं गच्छति ॥ १,२७.३३ ॥
अशूरेण हतः शूर एकेनापि शतं हतम् ।
प्राकृताः प्रभुतां याताः सर्वमावर्तते जगत् ॥ १,२७.३४ ॥
"आवर्तते" परिवृत्तिं भजते ॥ १,२७.३४ ॥
जनतेयं विपर्यासमजस्रमनुगच्छति ।
जडस्पन्दपरामर्शात्तरङ्गानामिवावली ॥ १,२७.३५ ॥
"जनता" जनसमूहः । "जडः" यः "स्पन्दः" । तेन "परामर्शात्" स्पर्शात् । जाड्यादिति यावत् । "जलस्पन्दे" यः "परामर्शः" । तस्मादिति च ॥ १,२७.३५ ॥
बाल्यमद्य दिनैरेव यौवनश्रीस्ततो जरा ।
देहेऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥ १,२७.३६ ॥
स्पष्टम् ॥ १,२७.३६ ॥
क्षणमानन्दितामेति क्षणमेति विषादिताम् ।
क्षणं सौम्यत्वमायाति सर्वस्मिन्नटवन्मनः ॥ १,२७.३७ ॥
"सर्वस्मिन्" सर्वेषु प्राणिषु ॥ १,२७.३७ ॥
इतश्चान्यदितश्चान्यदितश्चान्यदयं विधिः ।
रचयन् वस्तु नायाति खेदं लीलास्विवार्भकः ॥ १,२७.३८ ॥
स्पष्टम् ॥ १,२७.३८ ॥
चिनोत्युन्मादयत्यत्ति निहन्त्याहन्ति चात्मसात् ।
जगज्जातमिदं धाता पातोत्पातशतैरिह ॥ १,२७.३९ ॥
"चिनोति" वर्धयति । "उन्मादयति" उन्मादयुक्तं करोति । "अत्ति" भक्षयति । "निहन्ति" नाशयति । "आत्मसात्" स्वाधीनं करोति । "आहन्ति" समन्तान्नाशयति ॥ १,२७.३९ ॥
क्षणेनान्यद्दिनेनान्यत्प्रातरन्यदितस्ततः ।
रचयन् वञ्चनादक्षो विधिर्दृष्टो न केनचित् ॥ १,२७.४० ॥
"न दृष्टः" इन्द्रियाविषयत्वात् ॥ १,२७.४० ॥
यदद्य तत्तु न प्रातर्यत्प्रातस्तत्तु नाद्य च ।
यदन्यदा तु तन्नाद्य सर्वमावर्ततेतराम् ॥ १,२७.४१ ॥
स्पष्टम् ॥ १,२७.४१ ॥
सन्ततानीह दुःखानि सुखानि विरलानि च ।
सततं रात्र्यहानीव विवर्तन्ते नरं प्रति ॥ १,२७.४२ ॥
"सन्ततानि" अविच्छिन्नानि । "नरम्" "प्रति" प्रतिपुरुषम् ॥ १,२७.४२ ॥
आविर्भावतिरोभावभागिनो भवभाविनः ।
जनस्य स्थिरतां यान्ति नापदो न च सम्पदः ॥ १,२७.४३ ॥
"आविर्भावतिरोभावौ" भजतीति तादृशस्य । "भवे" संसारे । "भावः" प्रादुर्भावः अस्यास्तीति तादृशस्य ॥ १,२७.४३ ॥
पदात्पदमयं पापः सर्वमापदि पातयन् ।
हेलाविवलिताशेषः खलः काललवः स्थितः ॥ १,२७.४४ ॥
गच्छन्निति शेषः । "हेलया" न तु यत्नेन । "विवलितं" रूपान्तरं नीतम् । "अशेषम्" । येन । सः ॥ १,२७.४४ ॥
सर्गान्तश्लोकेनैतत्समापयति
समविषमदशाविपाकभिन्नास्
त्रिभुवनभूतपरम्पराफलौघाः ।
समयपवनपातिताः पतन्ति
प्रतिदिनमाततसंसृतिद्रुमेभ्यः ॥ १,२७.४५ ॥
"समविषमदशानां" यः "विपाकः" परिणामः । तेन "भिन्नाः" । तद्युक्ता इति यावद् । इति शिवम् ॥ १,२७.४५ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तविंशः सर्गः ॥ १,२७ ॥