मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १९
← सर्गः १८ | मोक्षोपायटीका/वैराग्यप्रकरणम् भास्करकण्ठः |
सर्गः २० → |
मोक्षोपायटीका/वैराग्यप्रकरणम् |
---|
एवं बाल्यनिन्दां कृत्वा क्रमप्राप्तां यौवननिन्दां प्रस्तौति
बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः ।
आरोहति निपाताय यौवनं श्वभ्रसम्भ्रमम् ॥ १,१९.१ ॥
"श्वभ्र"वत्"सम्भ्रमो" यस्मिंस्तादृशम् । "पातश्" चात्र जरागमनरूपः ज्ञेयः ॥ १,१९.१ ॥
तत्रत्यं निपातं विस्तरेण कथयति
तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः ।
वृत्तीरनुसरन् याति दुःखाद्दुःखान्तरं जडः ॥ १,१९.२ ॥
"जडः" न तु ज्ञानी ॥ १,१९.२ ॥
स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा ।
बलात्कामपिशाचेन विवशः परिभूयते ॥ १,१९.३ ॥
पूर्वश्लोकस्थं "तत्रे"ति पदमत्राप्यनुवर्तनीयम् ॥ १,१९.३ ॥
चिन्तानां लोलवृत्तीनां ललनानामिवाभितः ।
अर्पयत्यवशश्चेतो ज्वालानामात्मजो यथा ॥ १,१९.४ ॥
"चिन्तानां" कुटुम्बभरणादिविषयाणाम् । यौवने पुरुषः यथा "ललनानां" "चेतः" "अर्पयति" तथा "चिन्तानाम्" अपीति पिण्डार्थः । को यथ्"आत्मजो" बालः "यथा" । "यथा" सः "ज्वालानां" "चेतः अर्पयति" । तथेत्यर्थः ॥ १,१९.४ ॥
ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम् ।
तरुणं प्रविलुम्पन्ति दृश्यास्ते नैव ये मुने ॥ १,१९.५ ॥
"तरुणं" यौवनाविष्टं पुरुषम् । "प्रविलुम्पन्ति" विश्रान्तेः च्यावयन्ति । "ते ते" के । हे "मुने" । "ते" तव । "ये" "दोषाः" "दृश्याः" "नैव" भवन्ति । तेभ्यो निष्क्रान्तत्वादिति भावः । अथ वा "ये दोषाः ते नैव" नान्येन "दृश्याः" भवन्तीति योज्यम् ॥ १,१९.५ ॥
महानरकबीजेन सन्ततभ्रमदायिना ।
यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥ १,१९.६ ॥
स्पष्टम् ॥ १,१९.६ ॥
नानारसमयी चिन्तावृत्तान्तनिचयोम्भिता ।
भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते ॥ १,१९.७ ॥
स्पष्टम् ॥ १,१९.७ ॥
निमेषभासुराकारमालोलघनगर्जितम् ।
विद्युत्प्रकाशमनिशं यौवनं मे न रोचते ॥ १,१९.८ ॥
स्पष्टम् ॥ १,१९.८ ॥
विविधावर्तबहुलं पङ्कलग्नं जडाशयम् ।
तरङ्गभङ्गुरं भीमं यौवनं मे न रोचते ॥ १,१९.९ ॥
"आवर्ताः" कामवेगाः । "पङ्कलग्नम्" पापग्रस्तम् । "जडः आशयः" यस्मिंस्। तादृशम् ॥ १,१९.९ ॥
सर्वस्याग्रेसरं पुंसः क्षणमात्रमनोहरम् ।
गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥ १,१९.१० ॥
"सर्वस्य" "पुंस" इति जातौ एकवचनम् । "अग्रेसरम्" अव्यभिचारीत्यर्थः ॥ १,१९.१० ॥
इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् ।
दाहदोषप्रदं नित्यं यौवनं मे न रोचते ॥ १,१९.११ ॥
"इषुप्रपातमात्रं" क्षनमात्रमित्यर्थः ॥ १,१९.११ ॥
मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् ।
सुराकल्लोलसदृशं यौवनं मे न रोचते ॥ १,१९.१२ ॥
"मधुरम्" आपाते । "तिक्तम्" परिणामे ॥ १,१९.१२ ॥
असत्यं सत्यसङ्काशमचिराद्विप्रलम्भदम् ।
स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते ॥ १,१९.१३ ॥
स्पष्टम् ॥ १,१९.१३ ॥
क्षणप्रकाशतरलं मिथ्यारचितचक्रिकम् ।
अलातचक्रप्रतिमं यौवनं मे न रोचते ॥ १,१९.१४ ॥
स्पष्टम् ॥ १,१९.१४ ॥
मृदुस्फारतरोदारमन्तःशून्यं क्षणात्क्षतम् ।
शरदम्बुदसङ्काशं यौवनं मे न रोचते ॥ १,१९.१५ ॥
स्पष्टम् ॥ १,१९.१५ ॥
आपातमात्ररमणं सद्भावरहितान्तरम् ।
वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते ॥ १,१९.१६ ॥
"सद्भावः" सत्त्वं स्नेहश्च ॥ १,१९.१६ ॥
ये केचन दुरारम्भास्ते सर्वे सर्वदुःखदाः ।
तारुण्ये सन्निधिं यान्ति महोत्पाता इव क्षये ॥ १,१९.१७ ॥
स्पष्टम् ॥ १,१९.१७ ॥
हार्दान्धकारकारिण्या भैरवाकारवानपि ।
यौवनाकारयामिन्या बिभेति भगवानपि ॥ १,१९.१८ ॥
"हार्दं" हृत्सम्बन्धि । "अन्धकारं" करोतीति तादृश्या । "भगवान्" श्रीमहादेवः । अन्येषां तु का कथेत्य्"अपि"शब्दाभिप्रायः ॥ १,१९.१८ ॥
सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् ।
ददात्यतितरामेष भ्रमं यौवनविभ्रमः ॥ १,१९.१९ ॥
"सुविस्मृतः" "शुभाचारः" यस्मिंस्। तम् ॥ १,१९.१९ ॥
कान्तावियोगजातेन हृदि दुर्धर्षवह्निना ।
यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा ॥ १,१९.२० ॥
"दुर्धर्षवह्निना" दुर्निवार्येण कामाग्निना ॥ १,१९.२० ॥
विस्तीर्णापि प्रसन्नापि पावन्यपि हि यौवने ।
मतिः कलुषतामेति प्रावृषीव तरङ्गिणी ॥ १,१९.२१ ॥
स्पष्टम् ॥ १,१९.२१ ॥
शक्यते घनकल्लोलभीमा रोधयितुं नदी ।
न तु तारुण्यतरला तृष्णातरलितान्तरा ॥ १,१९.२२ ॥
"तारुण्यतरले"त्यनेन यौवननिन्दैवेयं ज्ञातव्या ॥ १,१९.२२ ॥
सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् ।
तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः ॥ १,१९.२३ ॥
"तारुण्ये" यौवने ॥ १,१९.२३ ॥
तरत्तरलतृष्णार्तं युवानमिह साधवः ।
पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा ॥ १,१९.२४ ॥
"तरन्ती" चञ्चलतां गच्छन्ती । या "तरला तृष्णा" । तया "आर्तं" दीनम् ॥ १,१९.२४ ॥
नाशायैव मदान्धस्य दोषमौक्तिकधारिणः ।
अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥ १,१९.२५ ॥
"दोषाः" रागादयः । "अभिमान" एवाहङ्कार एव "महेभस्" । तस्य ॥ १,१९.२५ ॥
मनोविपुलमूलानां दोषाशीविषधारिणाम् ।
रोषरोदनवृक्षाणां यौवनं नवकाननम् ॥ १,१९.२६ ॥
"रोषेण" यानि "रोदनानि" । तान्येव "वृक्षास्" । तेषाम् ॥ १,१९.२६ ॥
रसकेसरसम्बाधं कुविकल्पदलाकुलम् ।
दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥ १,१९.२७ ॥
त्वं "यौवनं" । "दुश्चिन्ताः" एव भोगविषयाः कुचिन्ता एव । "चञ्चरीकाः" भ्रमराः । तेषाम् "पुष्करम्" आधारभूतं पद्मम् । "विद्धि" जानीहि । कथम्भूतम् । "रसाः" विषयास्वादा एव । "केसराः" किञ्जल्कास्। तैः "सम्बाधं" सङ्कटम् । तथा "कुविकल्पाः" कुत्सिताः विकल्पा एव "दलानि" । तैः "आकुलं" निर्भरितम् ॥ १,१९.२७ ॥
कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् ।
आधिव्याधिविहङ्गानामालयो नवयौवनम् ॥ १,१९.२८ ॥
"कृताकृतौ" विहिताविहितौ एव । "कुपक्षौ" येषाम् । तादृशानाम् । विहितस्यापि धर्माख्यशुद्धाशुद्धिव्युत्थापकत्वेन "कृताकृते"त्युक्तम् ॥ १,१९.२८ ॥
जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् ।
अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम् ॥ १,१९.२९ ॥
"अनपेक्षितमर्यादः" मर्यादरहित इत्यर्थः ॥ १,१९.२९ ॥
सर्वेषां गुणपर्णानामपनेतुं रजस्ततः ।
अपनेतुं स्थितो दक्षो विषमो यौवनानिलः ॥ १,१९.३० ॥
"अपनेतुं" "स्थितः" सर्वापनयनशीलः । "रजसा" रजोगुणेन धूल्या च । "ततः" व्याप्तः । "विषमः" "यौवनानिलः" "सर्वेषां" "गुणपर्णानाम्" "अपनेतुं" दूरीकर्तुम् । "दक्षः" भवति ॥ १,१९.३० ॥
नयन्ति पाण्डुतां वक्त्रमाकुलावकरोत्कटाः ।
आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥ १,१९.३१ ॥
"आकुलः" चञ्चलः । यः "अवकरः" सङ्करः । मर्जनीसङ्क्षिप्तं रज इति यावत् । तद्वत्"उत्कटाः" उद्भटाः ॥ १,१९.३१ ॥
उद्बोधयति दोषालीं निकृन्तति गुणावलिम् ।
नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाः ॥ १,१९.३२ ॥
स्पष्टम् ॥ १,१९.३२ ॥
शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् ।
निबध्य मोहयत्येष नरं यौवनचन्द्रमाः ॥ १,१९.३३ ॥
"यौवन"वशेनैव पुरुषः "शरीरा"सक्तो भवतीति भावः ॥ १,१९.३३ ॥
शरीरषण्डकोद्भूता रम्या यौवनवल्लरी ।
लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता ॥ १,१९.३४ ॥
स्पष्टम् ॥ १,१९.३४ ॥
शरीरमरुतापोत्थां युवतां मृगतृष्णिकाम् ।
मनोमृगाः प्रधावन्तः पतन्ति विषमाटवीम् ॥ १,१९.३५ ॥
"शरीरम्" एव "मरुः" । तत्र तापोत्थां "शरीरमरुतापोत्थां" । "विषमाटवीं" स्त्रीत्यादिविषयरूपं विषमारण्यम् ॥ १,१९.३५ ॥
शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा ।
लहरी जीविताम्भोधेर्युवता मे न रोचते ॥ १,१९.३६ ॥
स्पष्टम् ॥ १,१९.३६ ॥
दिनानि कतिचिद्येयं फलिता देहजङ्गले ।
युवताशरदस्यां हि न समाश्वासमर्हथ ॥ १,१९.३७ ॥
"फलिता" कान्ताभोगादिफलयुक्ता ॥ १,१९.३७ ॥
झगित्येष प्रयात्येव शरीराद्युवताखगः ।
क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥ १,१९.३८ ॥
स्पष्टम् ॥ १,१९.३८ ॥
यदा यदा परां कोटिमभ्यारोहति यौवनम् ।
वल्गन्ति सरसाः कामास्तदा नाशाय केवलम् ॥ १,१९.३९ ॥
"सरसाः" विषयरसपूर्णाः । "कामाः" अभिलाषाः ॥ १,१९.३९ ॥
तावदेव विवल्गन्ति रागद्वेषपिशाचिकाः ।
नास्तमेति समस्तैषा यावद्यौवनयामिनी ॥ १,१९.४० ॥
स्पष्टम् ॥ १,१९.४० ॥
नानाधिकारबहले वराके क्षणनाशिनि ।
कारुन्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥ १,१९.४१ ॥
स्पष्टम् ॥ १,१९.४१ ॥
हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना ।
यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥ १,१९.४२ ॥
स्पष्टम् ॥ १,१९.४२ ॥
मानमोहमदोन्मत्तं यौवनं योऽभिलष्यति ।
अचिरेण सुदुर्बुद्धिः पश्चात्तापेन युज्यते ॥ १,१९.४३ ॥
"पश्चात्तापेन" तन्नाशकृतेन इत्यर्थः ॥ १,१९.४३ ॥
ते धर्म्यास्ते महात्मानस्त एव पुरुषा भुवि ।
ये सुखेन समुत्तीर्णाः साधो यौवनसङ्कटात् ॥ १,१९.४४ ॥
स्पष्टम् ॥ १,१९.४४ ॥
सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः ।
न कल्लोलवनोल्लासि सदोषं हतयौवनम् ॥ १,१९.४५ ॥
स्पष्टम् ॥ १,१९.४५ ॥
सर्गान्तश्लोकेन यौवननिन्दां समापयति
विनयभूषितमार्यजनास्पदं
करुणयोज्ज्वलमावलितं गुणैः ।
इह हि दुर्लभमङ्ग सुयौवनं
जगति काननमम्बरगं यथा ॥ १,१९.४६ ॥
एतादृशं यौवनं प्रशस्तमेवेति भावः । इति शिवम् ॥ १,१९.४६ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनविंशः सर्गः ॥ १,१९ ॥