मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २
← सर्गः १ | मोक्षोपायटीका/वैराग्यप्रकरणम् भास्करकण्ठः |
सर्गः ३ → |
मोक्षोपायटीका/वैराग्यप्रकरणम् |
---|
भरद्वाजः पृच्छति
जीवन्मुक्तस्थितिं ब्रह्मन् कृत्वा राघवमादितः ।
क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ ंो_१,२.१ ॥
"ब्रह्मन्" श्रीवाल्मीके । त्वम् । "जीवन्मुक्तस्थितिं" जीवन्मुक्तमर्यादाम् । "राघवं" श्रीरामम् । "आदितः" "कृत्वा" । "मे कथय" श्रीरामवृत्तान्तद्वारेण कथयेति भावः । ननु किमर्थं कथयामीत्य् । अत्राह । "भविष्यामी"ति । अहं "यथा" येन जीवन्मुक्तस्थितिकथनेन । "नित्यसुखी" जीवन्मुक्त्याख्यमहासुखयुक्तो । "भविष्यामि" ॥ ंोट्_१,२.१ ॥
श्रीवाल्मीकिः श्रीरामवृत्तान्तश्रवणाधिकारित्वसम्पादनार्थं तावत्सामान्येनोपदेशं करोति
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ ंो_१,२.२ ॥
हे "साधो" । अहम् "अस्य" पुरः स्फुरतः । "जागतस्य" जगत्सम्बन्धिनः । तद्विषयस्येति यावत् । तथा "आकाशवर्णवत्" आकाशनीलिमवत् । "जातस्य" प्रादुर्भूतस्य । मिथ्याभातस्येति यावत् । "भ्रमस्य" जगत्त्वज्ञानरूपस्य मिथ्याज्ञानस्य । "अपुनःस्मरणम्" पुनःस्मृतिविषयभावानयनम् । उपेक्षामिति यावत् । "वरम्" उत्कृष्टम् । "विस्मरणम्" विस्मृतिम् । "मन्ये" । उपेक्षा एवात्र युक्ता । न विस्मृतिः । तस्याः जाड्यव्याप्तत्वादिति भावः ॥ ंोट्_१,२.२ ॥
ननु तद्"अपुनःस्मरणं "केनोपायेन भविष्यतीत्य् । अत्राह
दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते ।
कदाचित्केनचिन्नाम स बोधोऽन्विष्यतामतः ॥ ंो_१,२.३ ॥
"नाम" निश्चये । "केनचित्" पुरुषेण । "तद्" अपुनःस्मरणम् । दृश्यस्य ...
...
अज्ञानसुघनाकारा घनाहङ्कारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ ंो_१,२.१२ ॥
पण्डितैः "वासना" "मलिना" "उक्ता" । कथम्भूता । "अज्ञानसुघनाकारा" । "अज्ञानेन" चिन्मात्राज्ञानेन । "सुघनः आकारः" यस्याः । सा । चिन्मात्राज्ञानेनैव हि वासना घनीभवन्ति । अन्यथा शुद्धचिन्मात्रैक्येन वासना किंविषया स्यात् । पुनः कथम्भूता । "घनः" अच्छिन्नः । यः "अहङ्कारः" देहादिविषयः अहम्भावः । तेन "शालिनी" । वासनावशेनैव हि देहादिनिष्ठः अहङ्कारो घनीभवति । पुनः कथम्भूता । "पुनः जन्मकरी" पुनरपि भवकरी । पदार्थभावेन व्यक्तीभावात् ॥ ंोट्_१,२.१२ ॥
शुद्धायाः स्वरूपं कथयति
पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् ।
देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते ॥ ंो_१,२.१३ ॥
पण्डितैः "सा" वासना । "शुद्धेति" कथ्यते । "सा" का । या "देहान्तं" देहस्थितिपर्यन्तमेव । न तु तदनन्तरमपि । "ध्रियते" अवतिष्ठते । या कथम्भूता ।" पुनर्जन्मा"ख्येन्"आङ्कुरेण" "त्यक्ता" । यतः "सम्भृष्टबीजवत्" भर्जितबीजवत् । "स्थिता" । यथा सम्भृष्टं बीजमाकारमात्रेण तिष्ठति । अङ्कुरसमर्थं न भवति । तथा शुद्धा वासनाप्याकारमात्रेणैव तिष्ठति । जन्माङ्कुरोत्पादनसमर्था न भवतीत्यर्थः । पुनः कथम्भूता । "ज्ञातं ज्ञेयम्" अवश्यज्ञेयत्वेन स्थितं परमात्मतत्त्वम् । यया हेतुभूतया । तादृशी । शास्त्रविचारादिरूपया शुद्धया वासनयैव हि परमात्मतत्त्वं ज्ञायते ॥ ंोट्_१,२.१३ ॥
शुद्धाया आश्रयविशेषं कथयति
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥ ंो_१,२.१४ ॥
"जीवन्मुक्तेषु देहिषु" जीवेषु । "अपुनर्जन्मकरणी" पुनर्जन्माकारिका । "शुद्धा" "वासना देहे विद्यते" । न तु चित्ते । का "इव "। "भ्रमः" "इव" । यथा "भ्रमः" चाक्राकारेण भ्रमणम् । "चक्रे" विद्यते । तथेत्यर्थः । जीवन्मुक्तानां वासना फलाद्यनुसन्धानानुत्पादिका एवास्तीति भावः ॥ ंोट्_१,२.१४ ॥
जीवन्मुक्तलक्षणं कथयति
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ ंो_१,२.१५ ॥
"शुद्धा वासना" येषाम् । ते । तादृशाः ॥ ंोट्_१,२.१५ ॥
सामान्येनोपदेशं कृत्वा श्रीरामवृत्तान्तमारभते
जीवन्मुक्तपदं प्राप्तो यथा रामो महामतिः ।
तत्तेऽहं सम्प्रवक्ष्यामि जरामरणशान्तये ॥ ंो_१,२.१६ ॥
ननु किमर्थं श्रीरामजीवन्मुक्तिप्राप्तिं कथयसीत्य् । अत्राह "जरे"ति । श्रीरामजीवन्मुक्तिपदप्राप्तिश्रवणेन हि तवापि तद्व्यवहारानुसारेण जरादिशान्तिर्भवतीति भावः ॥ ंोट्_१,२.१६ ॥
ननु बहूपदेशकाङ्क्षिणो मम किं रामक्रममात्रकथनेनेत्य् । अत्राह
भरद्वाज महाबुद्धे रामक्रममिमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा ॥ ंो_१,२.१७ ॥
"सर्वथे"त्यनेन ततः काप्याकाङ्क्षा तव न स्यादिति भावः ॥ ंोट्_१,२.१७ ॥
तदेव कथयति
विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥ ंो_१,२.१८ ॥
"दिवसानि" । न तु मासान् । अविद्यमानं कुतोऽपि भयं यस्य सः "अकुतोभयः "। निर्भय इत्यर्थः ॥ ंोट्_१,२.१८ ॥
अथ गच्छति कालेऽत्र पालयत्यवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ ंो_१,२.१९ ॥
तीर्थमुन्याश्रमश्रेणीं द्रष्टुमुत्कण्ठितं मनः ।
रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥ ंो_१,२.२० ॥
स्पष्टम् । युग्मम् ॥ ंोट्_१,२.१९२० ॥
राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः ।
हंसः पद्माविव नवौ जग्राह नवकेसरौ ॥ ंो_१,२.२१ ॥
पादवन्दनं चकारेत्यर्थः ॥ ंोट्_१,२.२१ ॥
श्रीरामः पितरं प्रति कथयति
तीर्थानि देवसद्मानि वनान्यायतनानि च ।
द्रष्टुमुत्कण्ठितं तात ममेदं हि भृशं मनः ॥ ंो_१,२.२२ ॥
"हि" निश्चये ॥ ंोट्_१,२.२२ ॥
तदेतामर्थनां पूर्वां सफलीकर्तुमर्हसि ।
न सोऽस्ति भुवने तात त्वया योऽर्थी विमानितः ॥ ंो_१,२.२३ ॥
मयाद्य तावत्तव कापि प्रार्थना न कृतेति "पूर्वाम्" इत्यस्याभिप्रायः ॥ ंोट्_१,२.२३ ॥ श्रीरामप्रार्थनामुपसंहरति
इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ ंो_१,२.२४ ॥
"विचार्यै"व । न तु "विचारम्" अकृत्वा । "प्रथममर्थिनं" तत्पूर्वमर्थिभूतम् ॥ ंोट्_१,२.२४ ॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ ंो_१,२.२५ ॥
वसिष्ठप्रहितैर्विप्रैः शास्त्रतज्ज्ञैः समन्वितः ।
स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥ ंो_१,२.२६ ॥
अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः ।
निरगात्स गृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥ ंो_१,२.२७ ॥
"आलिङ्ग्यालिङ्ग्ये"त्यनेन स्नेहातिशयो द्योत्यते । "निरगात्" निर्ययौ ॥ ंोट्_१,२.२५२७ ॥
निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वर्धितः ।
पीयमानः पुरन्ध्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥ ंो_१,२.२८ ॥
ग्रामीणललनालोकहस्तपद्मापवर्जितैः ।
लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥ ंो_१,२.२९ ॥
आवर्जयन् विप्रगणान् परिशृण्वन् प्रजाशिषः ।
आलोकयन् दिगन्तांश्च परिचक्राम जङ्गले ॥ ंो_१,२.३० ॥
"परिचक्राम" पादचारेण गतवान् । तीर्थयात्रायां हि पादचारेण गमनं पुण्यावहम् ॥ ंोट्_१,२.२८३० ॥
अथारभ्य स्वकात्तस्मात्क्रमात्कोसलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ ंो_१,२.३१ ॥
"ह"शब्दः निपातः ॥ ंोट्_१,२.३१ ॥
किं "ददर्शे"ति कर्मापेक्षायामाह
नदीस्तीर्थानि पुण्यानि वनान्यायतनानि च ।
जङ्गलानि वनान्तेषु तटान्यब्धिमहीभृताम् ॥ ंो_१,२.३२ ॥
"वनान्तेषु" स्थितानि "जङ्गलानि" सजलाः देशाः ॥ ंोट्_१,२.३२ ॥
मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रुं च चन्द्रभागामिरावतीम् ॥ ंो_१,२.३३ ॥
स्पष्टम् ॥ ंोट्_१,२.३३ ॥
वेणां च कृष्णवेणां च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ंो_१,२.३४ ॥
स्पष्टम् ॥ ंोट्_१,२.३४ ॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा ।
वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ंो_१,२.३५ ॥
स्पष्टम् ॥ ंोट्_१,२.३५ ॥
मानसं च क्रमसरस्तथैवोत्तरमानसम् ।
वडवां मडवां चैव तीर्थवृन्दं ससोदरम् ॥ ंो_१,२.३६ ॥
"तीर्थवृन्दं" कथम्भूतम् । "ससोदरं" सोदराख्यतीर्थसहितम् ॥ ंोट्_१,२.३६ ॥
अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा ।
सरांसि सरसीश्चैव तथा वापीह्रदावलीम् ॥ ंो_१,२.३७ ॥
स्पष्टम् ॥ ंोट्_१,२.३७ ॥
स्वामिनं कार्त्तिकेयं च सालिग्रामहरिं तथा ।
स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः ॥ ंो_१,२.३८ ॥
स्पष्टम् ॥ ंोट्_१,२.३८ ॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्द्यकन्दरकुञ्जांश्च कुलशैलस्थलानि च ॥ ंो_१,२.३९ ॥
स्पष्टम् ॥ ंोट्_१,२.३९ ॥
राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च ।
देवानां ब्राह्मणानां च पावनानाश्रमाञ्शुभान् ॥ ंो_१,२.४० ॥
स्पष्टम् ॥ ंोट्_१,२.४० ॥
भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ंो_१,२.४१ ॥
स्पष्टम् ॥ ंोट्_१,२.४१ ॥
सर्गान्तश्लोकेन तीर्थयात्राभ्रमणमुपसंहरति
अमरकिन्नरमानवमानितः
समवलोक्य महीमखिलामिमाम् ।
उपययौ स्वगृहं रघुनन्दनो
विहृतदिक्शिवलोकमिवेश्वरः ॥ ंो_१,२.४२ ॥
"ईश्वरः" कथम्भूतः । "विहृतदिक्" विहृताः विहारविषयीकृताः दिशः येन । तादृशः । इति शिवम् ॥ ंोट्_१,२.४२ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वितीयः सर्गः ॥ १,२ ॥