सामग्री पर जाएँ

मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ३

विकिस्रोतः तः
← सर्गः २ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ४ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



श्रीरामस्य गृहप्रवेशं कथयति

लाजपुष्पाञ्जलिव्रातैर्विकीर्णः पौरवासिभिः ।

स विवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥ ंो_१,३.१ ॥

"विकीर्णः" भरितः ।" जयन्तः" इन्द्रपुत्रः ॥ ंोट्_१,३.१ ॥

प्रणनामाथ पितरं वसिष्ठं मातृबान्धवान् ।

ब्राह्मणान् गुरुवृद्धांश्च राघवः प्रथमागतः ॥ ंो_१,३.२ ॥

स्पष्टम् ॥ ंोट्_१,३.२ ॥
 

सुहृद्भिर्मातृभिश्चैव पित्रा द्विजगणेन च ।

मुहुरालिङ्गनाचारै राघवो न ममौ तदा ॥ ंो_१,३.३ ॥

"राघवस्" "तदा" "सुहृद्"आदि"भिः" सहकृतैः "आलिङ्गनाचारैः" आलिङ्गनरूपैः लोकाचारैः ।" न" "ममौ" महानन्दयुक्तो जात इति भावः ॥ ंोट्_१,३.३ ॥

 

 

 

तस्मिन् दृढैर्दाशरथौ प्रियप्रकथनैर्मिथः ।

जुघूर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥ ंो_१,३.४ ॥

"तस्मिन्" "दाशरथौ" "मिथः" "प्रियप्रकथनैः" श्रीरामविषयैः अन्योऽन्यं प्रियकथनैः । श्रीरामो गृहं प्राप्त इत्येवंरूपैः परस्परं प्रियकथनैरिति यावत् ।" आशाः" दिशः । "जुघूर्णुः" घूर्णिं प्रापुः । मङ्गलवाचिभूकम्पोत्थानादियमुक्तिः ।" प्रियप्रकथनैः" कथम्भूतैः । "दृढैस्" तथा "मधुरैः" कर्णसुखैः । "प्रियप्रकथनैः" कैर्"इव" । "मृदुवंशस्वनैर्" "इव" । यथा तैः पुरुषाः घूर्णन्ति । तथेत्यर्थः ॥ ंोट्_१,३.४ ॥

बहून्यास दिनान्यत्र रामागमनमुत्सवः ।

महानन्दे जनान्मुञ्चन् केलिकोलाहलाकुलः ॥ ंो_१,३.५ ॥

"अत्र" दशरथपुरे ।" रामागमनम्" " उत्सवः" "आस" अभूत् । कियन्तं कालम् । "बहूनि" "दिनानि" । बहुदिनपर्यन्तमित्यर्थः ।" उत्सवः" किं कुर्वन् । "जनान्महानन्दे" "मुञ्चन्" । "आसे"ति प्रयोग आर्षः ॥ ंोट्_१,३.५ ॥

 

 

 

उवास स सुखं गेहे ततः प्रभृति राघवः ।

वर्णयन् विविधाचारान् देशाचारानितस्ततः ॥ ंो_१,३.६ ॥

"इतस्ततः" यत्र तत्र ॥ ंोट्_१,३.६ ॥

 

 

प्रातरुत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि ।

सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा ॥ ंो_१,३.७ ॥

स्पष्टम् ॥ ंोट्_१,३.७ ॥

 

 

कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह ।

स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥ ंो_१,३.८ ॥

जगाम पित्रनुज्ञातो महत्या सेनयावृतः ।

वराहमहिषाकीर्णं वनमाखेटकेच्छया ॥ ंो_१,३.९ ॥

"आखेटेच्छया" मृगयाकाङ्क्षया ॥ ंोट्_१,३.८९ ॥

 

 

तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् ।

समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥ ंो_१,३.१० ॥

स्पष्टम् ॥ ंोट्_१,३.१० ॥

एवंरूपमाचारमसौ नैकस्मिन्नेव दिने कृतवानपि तु सर्वदैवेत्यभिप्रायेण कथयति

एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः ।

आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥ ंो_१,३.११ ॥

स्पष्टम् ॥ ंोट्_१,३.११ ॥

 

 

सर्गान्तश्लोकेनैतदुपसंहरति

नृपतिसंव्यवहारमनोज्ञया

सुजनचेतसि चन्द्रिकया तथा ।

परिनिनाय दिनानि स चेष्टया

श्रुतसुधारसपेशलयानघः ॥ ंो_१,३.१२ ॥

 

 

 

"सः अनघः" दोषरहितः श्रीरामः । एवंविधया "चेष्टया दिनानि परिनिनाय" लङ्घितवान् । किंविधया । "नृपतिव्यवहारेण" प्रजाविचारादिना राजव्यवहारेण । "मनोज्ञया" हृद्यया । तथा "सुजनचेतसि" सत्पुरुषमनसि । "चन्द्रिकया" सुजनहृदयाह्लादिकयेति यावत् । तथा "श्रुते" श्रवणे । "सुधारस"वत्"पेशलया" । दृष्टत्वे तु किं वाच्यमिति भावः । इति शिवम् ॥ ंोट्_१,३.१२ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे तृतीयः सर्गः ॥ १,३ ॥