महाभारतम्-11-स्त्रीपर्व-001

विकिस्रोतः तः
Jump to navigation Jump to search
← स्त्रीपर्व महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-001
वेदव्यासः
स्त्रीपर्व-002 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

सञ्जयेन पुत्रादीन्प्रति शोचतो धृतराष्ट्रस्य समाश्वासनम्।। 1 ।।

श्रीवेदव्यासाय नमः। 11-1-1x
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
11-1-1a
11-1-1b
जनमेजय उवाच। 11-1-1x
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने।।
11-1-1a
11-1-1b
तथैव कौरवो राजा धर्मपुत्रो महामनाः।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः।।
11-1-2a
11-1-2b
अश्वत्थाम्नः कृतं कर्म शापश्चान्योन्यकारितः।
वृत्तान्मुत्रं ब्रूहि यदभाषत सञ्जयः।।
11-1-3a
11-1-3b
वैशम्पायन उवाच। 11-1-4x
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्।
पुत्रशोकाभिसन्प्तं धृतराष्ट्रं महीपतिम्।।
11-1-4a
11-1-4b
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्।
सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत्।।
11-1-5a
11-1-5b
किं शोचसि महाराज नास्ति शोके सहायता।
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते।
निर्जितेयं वसुमती शून्या स्थास्यति केवलम्।।
11-1-6a
11-1-6b
11-1-6c
नानादिग्भ्यः समागम्य नानाजात्या नराधिपाः।
सहितास्व पुत्रेण सर्वे वै निधनं गताः।।
11-1-7a
11-1-7b
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा।
गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः।
प्रेतकार्याणि सर्वाणि कारयस्व नराधिप।।
11-1-8a
11-1-8b
11-1-8c
वैशम्पायन उवाच। 11-1-9x
तच्छ्रुत्वा करुणं पुत्रपौत्रवधार्दितः।
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः।।
11-1-9a
11-1-9b
धृतराष्ट्र उवाच। 11-1-10x
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः।
दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम्।।
11-1-10a
11-1-10b
किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै।
लूनपक्षस्य इव मे वैनतेयस्य सञ्जय।।
11-1-11a
11-1-11b
हृतराज्यो हतसुहृद्वतपुत्रश्च वै तथा।
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्।।
11-1-12a
11-1-12b
न कृतं सुहृदां वाक्यं जामद्ग्न्यस्य च।।
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम।
11-1-13a
11-1-13b
अलं वैरेण ते राजन्पुत्रः संगृद्यतामिति।
तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः।।
11-1-14a
11-1-14b
न हि श्रोताऽस्मि भीष्मस्य शर्मयुक्तं प्रभाषितम्।। 11-1-15a
दुर्योधनस्य च तथा वृषभस्येव नर्दतः।
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्।
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते।।
11-1-16a
11-1-16b
11-1-16c
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम्।
यस्येदं फलमद्येह मया मूढेन भुज्यते।।
11-1-17a
11-1-17b
नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु।
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्।।
11-1-18a
11-1-18b
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे।
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः।।
11-1-19a
11-1-19b
कोन्वस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि।। 11-1-20a
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः।
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्।।
11-1-21a
11-1-21b
वैशम्पायन उवाच। 11-1-22x
तस्य लालप्यमानस्य बहु शोकं विचिन्वतः।
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत्।।
11-1-22a
11-1-22b
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः।
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम।।
11-1-23a
11-1-23b
सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा।
यथा यौवनजं दर्पमास्थिते ते सुते नृप।।
11-1-24a
11-1-24b
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्।
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना।।
11-1-25a
11-1-25b
असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम्।
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः।।
11-1-26a
11-1-26b
यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान्।
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः।।
11-1-27a
11-1-27b
अनल्पं येन वै सर्वं शल्यभूतं कृतं जगत्।
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च।।
11-1-28a
11-1-28b
द्रोणस्य च महाराज कृपस्य च शरद्वतः।
कृष्णस्य च महाबाहो नारदस्य च धीमतः।।
11-1-29a
11-1-29b
ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः।
न कृतं तेन वचनं तव पुत्रेण भारत।
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः।।
11-1-30a
11-1-30b
11-1-30c
अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन्।
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान्।।
11-1-31a
11-1-31b
धूर्धरेण त्वया भारस्तुलया न समं धृतः।। 11-1-32a
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम्।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते।।
11-1-33a
11-1-33b
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम्।
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि।।
11-1-34a
11-1-34b
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति।
स भ्रष्टोमधुलोभेन शोचत्येव यथा भवान्।।
11-1-35a
11-1-35b
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम्।
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते जयम्।।
11-1-36a
11-1-36b
स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना।
दह्यमानः पुनस्तापं भजते न स पण्डितः।।
11-1-37a
11-1-37b
त्वयैव ससुतेनायं वाक्यवायुसमीरितः।
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः।।
11-1-38a
11-1-38b
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः।
तान्केशवाग्निनिर्दग्धान्न त्वं शोचितुमर्हसि।।
11-1-39a
11-1-39b
यच्चाश्रुपातकलिलं वदनं वहसे नृप।
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः।।
11-1-40a
11-1-40b
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान्।
जहीहि मन्युं बुद्ध्या वै धास्यात्मानमात्मना।। 41 ।।
11-1-41a
11-1-41b
वैशम्पायन उवाच। 11-1-42x
एवमाश्वासितं तेन सञ्जयेन महात्मना।
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप।।
11-1-42a
11-1-42b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि प्रथमोऽध्यायः।। 1 ।।

[सम्पाद्यताम्]

11-1-3 अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारित इति क.पाठः। अश्वत्थान्नः श्रुतं कर्म शापादन्योन्यकरितादिति झ.पाठः। तत्र अन्योन्यं कारितात्पाण्डवानां गर्भे ब्रह्मशिरोस्त्रं पतत्वित्यश्वत्थान्ना शापो दत्तः। सहस्रवर्षाणि गलत्कुष्ठो भविष्यसीत्यश्वत्थाम्नः कृष्णेन शापो दत्त इत्यर्थः।। 11-1-6 शून्या राजभिर्हीना ।। 11-1-8 गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारयेति झ.पाठः। तत्र आनुपूर्व्येणेति। आदौ हतानामादावेव पश्चाद्धतानां पश्चादेवेति पौर्वापर्येण प्रेतानां परेतानां कार्याणि पारलौकिकानि कर्माणीत्यर्थः।। 11-1-15 श्रोतास्मि श्रुतवानस्मि।। 11-1-16 विपर्ययं विनाशम्।। 11-1-21 तन्मामिति। अद्यैव प्राणत्यागं करिष्यामीत्यर्थः।। 11-1-22 शोकं वितन्वत इति झ.पाठः। तत्र वितन्वतः विरचयत इत्यर्थः।। 11-1-23 अवृत्तेति च्छेदः।। 11-1-28 शल्यश्च येन वै सर्वं इति झ.पाठः। तत्र शल्यश्च मन्त्रीति पूर्वेणान्वयः।। 11-1-31 न धर्मः स कृतः कश्चिन्नित्यं युद्धमभीप्सता। अल्पबुद्धिरहकारी नित्यं युद्धमिति ब्रुवन्। क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान्। श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा। न मुह्यान्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः। न धर्मः सत्कृतः कश्चित्तव पुत्रेण मारिष। इति झ.पाठः। अत्र ब्रुवन् दुर्योधनं आसीदिति शेषः।। 11-1-32 दुर्धरेणेति झ.ट.पाठः।। 11-1-35 प्रपातं पर्वताग्राद्भ्रंशम्।। 11-1-41 जहि मन्यं स्वबुद्ध्या वै इति क.छ.ट.पाठः। दहन्ति शोका इत्यर्थात्। मन्युं दैन्यम्। मन्युर्दैन्ये क्रतौ क्रुधि इत्यमरः। आत्मानं चित्तं आत्मना धैर्येण धारय। प्राणान्मात्याक्षीरित्यर्थः।। 11-1-1 प्रथमोऽध्यायः।।

स्त्रीपर्व पुटाग्रे अल्लिखितम्। स्त्रीपर्व-002