महाभारतम्-11-स्त्रीपर्व-025

विकिस्रोतः तः
← स्त्रीपर्व-024 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-025
वेदव्यासः
स्त्रीपर्व-026 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

कृष्णम्प्रति गान्धार्या कुरुपाण्डवसंक्षयस्य कृष्णोपेक्षणहेतुकत्वकथनपूर्वकं सर्वबन्धुसंक्षयाय शापदानम्।। 1 ।।

गान्धार्युवाच। 11-25-1x
काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम्।
शयानमृषभस्कन्धं हतं पांसुषु माधव।।
11-25-1a
11-25-1b
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ।
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता।।
11-25-2a
11-25-2b
इमौ तौ परिघप्रख्यौ बाहू चन्दनरूषितौ।
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात्।।
11-25-3a
11-25-3b
कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर।
दूरबन्धुरनाथा च वेपन्ती मधुरस्वरा।।
11-25-4a
11-25-4b
आतपे क्लाम्यमानानां विविधानामिव स्रुजाम्।
क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनूः।।
11-25-5a
11-25-5b
शयानमभितः शूरं कालिङ्गं मधुसूदन।
पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम्।।
11-25-6a
11-25-6b
मागधानामधिपतिं जयत्सेनं जनार्दन।
परिवार्य प्ररुदिता मागध्यः पश्य योषितः।।
11-25-7a
11-25-7b
हरिणायतनेत्राणां सुस्वराणां जनार्दन।
मनः श्रुतिहरो नादो मनो मोहयतीव मे।।
11-25-8a
11-25-8b
प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः।
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि।।
11-25-9a
11-25-9b
कोसलानामधिपतिं राजपुत्रं बृहद्बलम्।
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः।।
11-25-10a
11-25-10b
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान्।
उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः।।
11-25-11a
11-25-11b
आसां सर्वानवद्यानामातपेन परिश्रमात्।
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव।।
11-25-12a
11-25-12b
द्रोणेन निहताः शूरा शेरते रुचिराङ्गदाः।
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः।।
11-25-13a
11-25-13b
रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम्।
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम्।।
11-25-14a
11-25-14b
तथैव निहताः शूराः शेरते रुचिराङ्गदाः।
द्रोणेनाभिमुखाः सङ्ख्ये भ्रातरः पञ्च केकयाः।।
11-25-15a
11-25-15b
तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः।
भासयन्ति महीं भासा ज्वलिता इव पावकाः।।
11-25-16a
11-25-16b
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम्।
महाद्विपमिवारण्ये सिंहेन महता हतम्।।
11-25-17a
11-25-17b
पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम्।
आतपत्रं समाभाति शरदीव निशाकरः।।
11-25-18a
11-25-18b
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः।
दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः।।
11-25-19a
11-25-19b
धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः।
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः।।
11-25-20a
11-25-20b
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन।
महेष्वासो हतः शेते वज्राहत इव द्रुमः।।
11-25-21a
11-25-21b
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः।
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः।।
11-25-22a
11-25-22b
वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः।
चेदिराजं हृषीकेश हतं सबलबान्धवम्।।
11-25-23a
11-25-23b
दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम्।
आरोप्याङ्के रुदन्त्येताश्चेदिराज वराङ्गनाः।।
11-25-24a
11-25-24b
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्।
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः।।
11-25-25a
11-25-25b
पितरं नूनमाजिस्थं युध्यमानं परैः सह।
नाजहात्पितरं वीरमद्यापि मधुसूदन।।
11-25-26a
11-25-26b
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्।
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा।।
11-25-27a
11-25-27b
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव।
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव।।
11-25-28a
11-25-28b
काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ।
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ।।
11-25-29a
11-25-29b
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह।
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्।।
11-25-30a
11-25-30b
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात्।
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः।।
11-25-31a
11-25-31b
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः।
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम्।।
11-25-32a
11-25-32b
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन।
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः।
`शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः'।।
11-25-33a
11-25-33b
11-25-33c
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः।
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः।।
11-25-34a
11-25-34b
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च।
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति।।
11-25-35a
11-25-35b
तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति।
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन।।
11-25-36a
11-25-36b
वैशम्पायन उवाच। 11-25-37x
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता।
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत।।
11-25-37a
11-25-37b
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया।।
11-25-38a
11-25-38b
गान्धार्युवाच। 11-25-39x
पाण्डवाः धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम्।
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ।।
11-25-39a
11-25-39b
शक्तेन बहुभृत्येन विपुले तिष्ठता बले।
उभयत्र समर्थेन श्रुतवाक्येन चैव ह।।
11-25-40a
11-25-40b
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन।
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि।।
11-25-41a
11-25-41b
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम्।
तेन त्वां दुरवापेन शपे चक्रगदाधरम्।।
11-25-42a
11-25-42b
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि।।
11-25-43a
11-25-43b
त्वमप्युपस्थिते वर्षे षट्‌त्रिंशे मधुसूदन।
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः।।
11-25-44a
11-25-44b
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः।
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि।।
11-25-45a
11-25-45b
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः।
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः।।
11-25-46a
11-25-46b
वैशम्पयन उवाच। 11-25-47x
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव।।
11-25-47a
11-25-47b
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये।
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः।।
11-25-48a
11-25-48b
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे।
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः।।
11-25-49a
11-25-49b
परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः।
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः।
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते।।
11-25-50a
11-25-50b
11-25-50c
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वणि पञ्चविंशोऽध्यायः।। 25 ।।

[सम्पाद्यताम्]

11-25-1 काम्भोजास्तरणं कम्बलविशेषः।। 11-25-3 बाहू शुभतलाङ्गुली इति झ.पाठः।। 11-25-6 दीप्ताङ्गदयुगप्रतिनद्धमहाभुजमिति झ.पाठः।। 11-25-24 दाशार्हपुत्रजमित्यत्र पुत्र्यामपि पुत्रशब्दः।। 11-25-26 पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय।। 11-25-36 तयोर्भीष्मविदुरयोः दर्शनं अनागतावेक्षणम्।। 11-25-38 जगादशौरिं रोषणेति ट.पाठः।। 11-25-47 अभ्युत्स्मयन्नीषद्ध्वंसयन्।। 11-25-48 चीर्णं चरसि मदनुष्टितमेवानुतिष्ठसि। स्वतपोनाशार्थमिति भावः।। 11-25-25 पञ्चविंशोऽध्यायः।।

स्त्रीपर्व-024 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-026