सामग्री पर जाएँ

महाभारतम्-11-स्त्रीपर्व-003

विकिस्रोतः तः
← स्त्रीपर्व-002 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-003
वेदव्यासः
स्त्रीपर्व-004 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

विदुरेण धृतराष्ट्रकापनोदनाय शास्त्रार्थकथनम्।। 1 ।।

वृतराष्ट्र उवाच। 11-3-1x
सुमाषितं महाप्राज्ञ शोकोऽयं विगतो मम।
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः।।
11-3-1a
11-3-1b
अनिष्टानां च संसर्गादिष्टानां च निवर्तनात्।
कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः।।
11-3-2a
11-3-2b
विदुर उवाच। 11-3-3x
वतोयतो मनो दुःखात्सुखाद्र विप्रमुच्यते।
तवत्तसः शगं लब्ध्वा सुगतिं विन्दते बुधः।।
11-3-3a
11-3-3b
अशाधतमिदं सर्वं चिन्त्यमानं नरर्षभ।
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते।।
11-3-4a
11-3-4b
[यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः।
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः।।
11-3-5a
11-3-5b
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः।।
11-3-6a
11-3-6b
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः।।]
11-3-7a
11-3-7b
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः।
कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम्।।
11-3-8a
11-3-8b
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः।
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्।।
11-3-9a
11-3-9b
वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम्।
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा।।
11-3-10a
11-3-10b
कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत।
ततो वहति तं भारमवशः स्ववशोऽपि वा।।
11-3-11a
11-3-11b
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते।
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा।।
11-3-12a
11-3-12b
हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा।
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा।।
11-3-13a
11-3-13b
अवतार्यन्तमापाङ्कादुद्धृतं चापि भारत।
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम्।।
11-3-14a
11-3-14b
गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः।
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा।।
11-3-15a
11-3-15b
संवत्सरगतो वापि द्विसंवत्सर एव वा।
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते।।
11-3-16a
11-3-16b
प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च।
एवं संबर्धिते लोके किमर्थमनुतप्यसे।।
11-3-17a
11-3-17b
यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन्।
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप।।
11-3-18a
11-3-18b
एवं संसारगहने उन्मज्जननिमज्जने।
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः।।
11-3-19a
11-3-19b
ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः।
समागमज्ञा भूतानां ते यान्ति परमां गतिम्।।
11-3-20a
11-3-20b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि तृतीयोऽध्यायः।। 3 ।।

11-3-1 सुभाषितैरिति झ.पाठः।। 11-3-5 पितृवनं मृत्युम्।। 11-3-8 सल्वमेकं तु शास्वतमिति झ.पाठः। तत्र सत्वं लिङ्गशरीरम्। शाश्वतं मोक्षपर्यन्तं स्थायित्वात् इत्यर्थः।। 11-3-13 अवरोप्यन्तमितिपाठे अवरोप्यमाणम्।। 11-3-14 आपाकात् कुलालकृतात् पात्रपाककूटात्। अथवा परिभृज्जन्तमिति झ.पाठः।। 11-3-19 एवं संसारगहनादुन्मज्जननिमज्जनात् इति क.छ.ट.पाठः।। 11-3-3 तृतीयोऽध्यायः।।

स्त्रीपर्व-002 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-004