सामग्री पर जाएँ

महाभारतम्-11-स्त्रीपर्व-002

विकिस्रोतः तः
← स्त्रीपर्व-001 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-002
वेदव्यासः
स्त्रीपर्व-003 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

विदुरेण शास्त्रार्थकथनेन धृतराष्ट्रस्य शोकापनोदनम्।। 1 ।।

वैशम्पायन उवाच। 11-2-1x
ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्।।
11-2-1a
11-2-1b
विदुर उवाच। 11-2-2x
उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः।।
11-2-2a
11-2-2b
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्।।
11-2-3a
11-2-3b
यदा शूरं च भीरुं च यमः कर्षति भारत।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ।।
11-2-4a
11-2-4b
अयुध्यमानो म्रियते युध्यमानश्च जीवति।
कालं प्राप्य महाराज न कश्चिदतिवर्तते।।
11-2-5a
11-2-5b
अभावादीनि भूतानि भावमध्यानि भारत।
अभावनिधनान्येव तत्र का परिदेवना।।
11-2-6a
11-2-6b
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि।।
11-2-7a
11-2-7b
कालः कर्षति भूतानि सर्वाणि विविधान्युत।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।।
11-2-8a
11-2-8b
यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः।
तथा कालवशं यान्ति भूतानि भरतर्षभ।।
11-2-9a
11-2-9b
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यस्य कालः स यात्यग्रे तत्र का परिदेवना।।
11-2-10a
11-2-10b
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्।।
11-2-11a
11-2-11b
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना।।
11-2-12a
11-2-12b
अदर्शनादापतिताः पुनश्चादर्शनं गताः।
नैते तव न तेषां त्वं तत्र का परिदेवना।।
11-2-13a
11-2-13b
हतो हि लभते स्वर्गं जित्वा च लभते यशः।
उभयं नो बहुगुणं नास्ति निष्फलता रणे।।
11-2-14a
11-2-14b
तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ।।
11-2-15a
11-2-15b
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः।।
11-2-16a
11-2-16b
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः।।
11-2-17a
11-2-17b
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते।।
11-2-18a
11-2-18b
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि।।
11-2-19a
11-2-19b
आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि।।
11-2-20a
11-2-20b
मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्।।
11-2-21a
11-2-21b
शोकस्थानसहसाणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्‍डितम्।।
11-2-22a
11-2-22b
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति।।
11-2-23a
11-2-23b
कालः पचति भूतानि कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।।
11-2-24a
11-2-24b
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः।।
11-2-25a
11-2-25b
न जानपदिकं दुःखमेकः शोचितुमर्हसि।
अप्यभावेन युज्येत तच्चास्य न निवर्तते।।
11-2-26a
11-2-26b
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्।।
11-2-27a
11-2-27b
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते।।
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च।
11-2-28a
11-2-28b
मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः।।
नार्थो न धर्मो न सुखं यदेतदनुशोचति।
11-2-29a
11-2-29b
तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते।।
अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः।
11-2-30a
11-2-30b
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः।।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः।
11-2-31a
11-2-31b
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्।।
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति।
11-2-32a
11-2-32b
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्।।
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम्।
11-2-33a
11-2-33b
तस्यांतस्यामवस्थायां तत्तत्फलमवाप्नुते।।
[येनयेन शरीरेण यद्यत्कर्म करोति यः।
11-2-34a
11-2-34b
तेनतेन शरीरेण तत्फलं समुपाश्नुते।।
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च।।
11-2-35a
11-2-35b
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित्।।
11-2-36a
11-2-36b
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः।।]
11-2-37a
11-2-37b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि द्वितीयोऽध्यायः।। 2 ।।

11-2-2 एषा मरणान्ता। अत उत्तिष्ठ शोकं त्यज।। 11-2-6 अभावादीनि दुःखानि दुःखमध्यानि भारतेति छ.पाठः।। 11-2-8 सांसिद्धिके स्वभावसिद्धे।। 11-2-9 संवर्तयति स्ववशं नयति।। 11-2-10 तत्र गामिनां परत्र गमनशीलानां यस्य काल उपस्थितः सोऽग्रे प्रयाति।। 11-2-13 अदर्शनादज्ञानात्।। 11-2-14 नोऽस्माकं क्षत्रियाणाम्।। 11-2-18 आचक्षे कथयामि।। 11-2-26 अतपदिकं सर्वसाधारणम्। अभावेन मरणेन। तच्च दुःखं च।। 11-2-30 नच नापैति कार्यार्थात्त्रिवर्गाच्चैव हीयते इति झ.पाठः। तत्र कार्यार्थान्नापैतीतिनापित्वपैत्येवेत्यर्थः।। 11-2-31 अन्यामन्यां पनावस्थां प्राप्य वैशेषिकीं नराः। इति झ.पाठः।। 11-2-34 अवस्थायां यौवनादिरूपायाम्।। 11-2-35 येनेति। स्थूलेन देहेन कृते तत्तेनैव भुज्यते। मनःकृत्तं चेत्तेनैव भुज्यते स्वप्नादौ।। 11-2-2 द्वितीयोऽध्यायः।।

स्त्रीपर्व-001 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-003