महाभारतम्-11-स्त्रीपर्व-011

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← स्त्रीपर्व-010 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-011
वेदव्यासः
स्त्रीपर्व-012 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027

युधिष्ठिरेण कृष्णादिभिः सह धृतराष्ट्रसमीपमेत्याभिवादनम्।। 1 ।। धृतराष्ट्रेण युधिष्ठिरं मृदुलमालिङ्घ्य पश्चाद्भावज्ञेन कृष्णेन पुरतः स्थापितलोहभीमस्य दृढालिङ्गनेन भञ्जनम्।। 2 ।।

वैशम्पायन उवाच। 11-11-1x
हतेषु सर्वेसैन्येषु धर्मराजो युधिष्ठिरः।
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात्।।
11-11-1a
11-11-1b
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः।
शोचमानो महाराज भ्रातृभिः सहितस्तदा।।
11-11-2a
11-11-2b
अन्वीयमानो वीरेण दाशार्हेण महात्मना।
युयुधानेन च तथा तथैव च युयुत्सुना।।
11-11-3a
11-11-3b
तमन्वगात्सुदुःखार्ता द्रौपदीशोककर्शिता।
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः।।
11-11-4a
11-11-4b
सङ्ग्राममनु बृन्दानि स्त्रीणां भरतसत्तम्।
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह।।
11-11-5a
11-11-5b
ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः।
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः।।
11-11-6a
11-11-6b
क नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता।
यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि।।
11-11-7a
11-11-7b
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्।
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्।।
11-11-8a
11-11-8b
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः।
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत।।
11-11-9a
11-11-9b
वैशम्पायन उवाच। 11-11-10x
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव।
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः।।
11-11-10a
11-11-10b
ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः।
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः।।
11-11-11a
11-11-11b
तमात्मजान्तकरणं पिता पुत्रवधार्दितः।
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे।।
11-11-12a
11-11-12b
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत।
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः।।
11-11-13a
11-11-13b
स कोपपावकस्तस्य शोकवायुसमीरितः।
भीमसेनमयं दावं दिधक्षुरिव दृश्यते।।
11-11-14a
11-11-14b
तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः।
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्।।
11-11-15a
11-11-15b
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः।
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः।।
11-11-16a
11-11-16b
उपगुह्यैव पाणिभ्यां भीमसेनमयस्मयम्।
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्।।
11-11-17a
11-11-17b
नागायुतसमप्राणः स राजा भीममायसम्।
भङ्क्तत्वा विमथितोरस्कः सुस्राव रुधिरं मुखात्।।
11-11-18a
11-11-18b
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः।
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः।।
11-11-19a
11-11-19b
प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा।
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव।।
11-11-20a
11-11-20b
हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः।
हाहाभीमेति चुक्रोश नृपः शोकसमन्वितः।।
11-11-21a
11-11-21b
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्।।
11-11-22a
11-11-22b
मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः।
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो।।
11-11-23a
11-11-23b
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ।
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः।।
11-11-24a
11-11-24b
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन।
कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः।।
11-11-25a
11-11-25b
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते।
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन।।
11-11-26a
11-11-26b
तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी।
भीमस्य सेयं कौरव्य तवैवोपहृता मया।।
11-11-27a
11-11-27b
पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः।
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि।।
11-11-28a
11-11-28b
न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्।
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन।।
11-11-29a
11-11-29b
तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति।
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः।।
11-11-30a
11-11-30b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि एकादशोऽध्यायः।। 11 ।।

[सम्पाद्यताम्]

11-11-5 स गङ्गामन्विति झ.पाठः।। 11-11-6 प्रियाप्रियैः पाण्डवानां प्रियाः अभिमन्युप्रभृतयः अप्रियाः दुर्योधनादयः तैर्हेतुभिः क्रोशन्तीभिरिति सम्बन्धः।। 11-11-15 आक्षिप्य निवार्य। आयसं लोहमयम्।। 11-11-21 स तु कोपं समुत्सृज्येति झ.पाठः।। 11-11-28 पुत्रेति धर्मादपकृतमालिङ्गनच्छलेन भीमवधः कर्तव्य इत्याशया।। 11-11-11 एकादशोऽध्यायः।।

स्त्रीपर्व-010 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-012