रामायणम्/उत्तरकाण्डम्/सर्गः ५८
← सर्गः ५७ | रामायणम् सर्गः ५८ वाल्मीकिः |
सर्गः ५९ → |
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।
प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। ७.५८.१ ।।
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।
निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। ७.५८.२ ।।
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।
न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। ७.५८.३ ।।
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः ।
उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। ७.५८.४ ।।
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ।
न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। ७.५८.५ ।।
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना ।
सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। ७.५८.६ ।।
नहुषस्य सुतो राजा ययातिः पौरवर्धनः ।
तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। ७.५८.७ ।।
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।
शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। ७.५८.८ ।।
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ ।
न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। ७.५८.९ ।।
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ ।
शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। ७.५८.१० ।।
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।
ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। ७.५८.११ ।।
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।
सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। ७.५८.१२ ।।
आवां च सहितौ देवि प्रविशाव हुताशनम् ।
राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। ७.५८.१३ ।।
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि ।
क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ।। ७.५८.१४ ।।
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।
देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ।। ७.५८.१५ ।।
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।
आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। ७.५८.१६ ।।
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।
पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ।। ७.५८.१७ ।।
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।
देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ।। ७.५८.१८ ।।
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।
भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ।। ७.५८.१९ ।।
न मां त्वमवजानीषे दुःखितामवमानिताम् ।
वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ।। ७.५८.२० ।।
अवज्ञया च राजर्षिः परिभूय च भार्गव ।
मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ।। ७.५८.२१ ।।
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।
व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। ७.५८.२२ ।।
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।
जरया परया जीर्णः शैथिल्यमुपयास्यसि ।। ७.५८.२३ ।।
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।
पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ।। ७.५८.२४ ।।
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् ।
पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ।। ७.५८.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टपञ्चाशः सर्गः ।। ५८ ।।