रामायणम्/उत्तरकाण्डम्/सर्गः ८
← सर्गः ७ | रामायणम् सर्गः ८ वाल्मीकिः |
सर्गः ९ → |
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।
माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ।। ७.८.१ ।।
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ।
पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। ७.८.२ ।।
नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।
अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। ७.८.३ ।।
पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।
स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। ७.८.४ ।।
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४
अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। ७.८.५ ।।
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।
उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ७.८.६ ।।
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् ।
राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। ७.८.७ ।।
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।
सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। ७.८.८ ।।
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।
शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ७.८.९ ।।
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।
हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। ७.८.१० ।।
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ७.८.११ ।।
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता ।
काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। ७.८.१२ ।।
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते ।
अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। ७.८.१३ ।।
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।
माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। ७.८.१४ ।।
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् ।
प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। ७.८.१५ ।।
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।
ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। ७.८.१६ ।।
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः ।
आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। ७.८.१७ ।।
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।
व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। ७.८.१८ ।।
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।
सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। ७.८.१९ ।।
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।
स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। ७.८.२० ।।
एवं ते राक्षसा तेन हरिणा कमलेक्षण ।
बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। ७.८.२१ ।।
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।
त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। ७.८.२२ ।।
सुमालिनं समासाद्य राक्षसं रघुसत्तम ।
स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। ७.८.२३ ।।
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः ।
सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।।
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। ७.८.२४ ।।
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।
ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। ७.८.२५ ।।
भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।
राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। ७.८.२६ ।।
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।
उत्पद्यते दस्युवधे शरणागतवत्सलः ।। ७.८.२७ ।।
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।
भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ।। ७.८.२८ ।।
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा ।
पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ।। ७.८.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टमः सर्गः ।। ८ ।।