रामायणम्/उत्तरकाण्डम्/सर्गः ४५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४४ रामायणम्
सर्गः ४५
वाल्मीकिः
सर्गः ४६ →
रामायणम्/उत्तरकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।। ७.४५.१ ।।

सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ।। ७.४५.२ ।।

पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।। ७.४५.३ ।।

अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।। ७.४५.४ ।।

जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हृता सीता स च विध्वंसितो मया ।। ७.४५.५ ।।

तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। ७.४५.६ ।।

प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।। ७.४५.७ ।।

चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।। ७.४५.८ ।।

एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।। ७.४५.९ ।।

अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।। ७.४५.१० ।।

अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ।। ७.४५.११ ।।

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।। ७.४५.१२ ।।

अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।। ७.४५.१३ ।।

अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।। ७.४५.१४ ।।

तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।। ७.४५.१५ ।।

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।। ७.४५.१६ ।।

गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।। ७.४५.१७ ।।

तत्रैनां विजने देशे विसृज्य रघुनन्दन ।
शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।। ७.४५.१८ ।।

न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।
तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।। ७.४५.१९ ।।

अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।। ७.४५.२० ।।

ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ।। ७.४५.२१ ।।

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।। ७.४५.२२ ।।

पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।। ७.४५.२३ ।।

एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। ७.४५.२४ ।।

शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।। ७.४५.२५ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ४५ ।।